SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ "अब्भुट्ठाणदंडग्गहणपायपुंछणासणपयाणगहणादीहिं सेवा जा सा भत्ती भवइ''त्ति है म निशीथचूर्णौ । 'भक्तिः उचितप्रवृत्त्या विनयकरणे' इति आवश्यकप्रथमाध्ययनमलयगिरिवृत्तौ । 'विनयवैयावृत्त्यादिरूपा प्रतिपत्तिर्भक्ति'रिति धर्मसङ्ग्रहद्वितीयाधिकारे । 'यथोचितबाह्यप्रतिपत्तौ' आवश्यकप्रथमाध्ययनमलयगिरिवृत्तौ गच्छाचारवृत्तौ । धर्मरत्नवृत्तौ च । __ 'भक्तिरुचितोपचारः' इति दशवैकालिकनवमाध्ययनप्रथमोद्देशकवृत्तौ । 'अभ्युत्थानादिरूपे बहुमाने' इत्युत्तराध्ययनप्रथमाध्ययनपाइयटीकायाम् । 'भत्ती आयरकरणं जहोचियं जिणवरिंदसाहूणं' इति संस्तारकप्रकीर्णके । 'अनुरागे भक्तिः' इति धर्मसंग्रहप्रथमाधिकारे । 'अन्तःकरणादिप्रणिधाने भक्तिः' इति आवश्यकद्वितीयाध्ययने दर्शनशुद्धौ च । 'भक्तिः स्याद्गुरुदेवादी' इति वचनात्तु गुरुदेवादिविषयिणी इच्छा भक्तिः । अनुष्ठानचतुष्टये प्रीतिभक्तिवचनासङ्गात्मके तु भक्तिविशेषितानुष्ठानस्वरूपमिदम् गौरवविशेषयोगाच्छुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥१॥ (षोडशक० १०-४) इतरतुल्यमपीति प्रीत्यनुष्ठानसदृशमपि, तत्स्वरूपं च यथा यत्राऽऽदरोऽस्ति परमः प्रीतिश्च हितोदया भवति कर्तुः ।। शेषत्यागेन करोति यच्च तत्प्रीत्यनुष्ठानम् ॥१॥ (षोडशक० १०-३) प्रीतिभक्त्योरियान् विशेषो दृष्टान्तद्वारेण अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोतिं स्यात्प्रीतिभक्तिगतम् ॥१॥ (षोडशक० १०-५) ५१ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy