________________
ऎवं पात्रात्मिकायां सप्तक्षेत्र्यां धनं वपन् । दयया चाऽतिदीनेषु महाश्रावक उच्यते ।।
(इति योगशास्त्रे -३-११९) एवं च वाचकवर्या अपि दानभेदयोरनुकम्पा-भक्तिविशेषितयोः स्वरूपमेवाऽऽ
चख्युः
ऐन्द्रशर्मप्रदं दानमनुकम्पासमन्वितम् । भक्त्या सुपात्रदानं तु मोक्षदं देशितं जिनैः ॥१॥ अनुकम्पाऽनुकम्प्ये स्याद्भक्तिः पात्रे तु सङ्गता । अन्यथाधीस्तु दातॄणामतिचारप्रसञ्जिका ॥२॥ भक्तिस्तु भवनिस्तारवाञ्छा स्वस्य सुपात्रतः । तया दत्तं सुपात्राय बहुकर्मक्षयक्षमम् ॥२०॥ शुद्धं दत्त्वा सुपात्राय सानुबन्धशुभार्जनात् ।। सानुबन्धं न बध्नाति पापं बद्धं च मुञ्चति ॥२२।। भवेत्पात्रविशेषे वा कारणे वा तथाविधे । अशुद्धस्याऽपि दानं हि द्वयोर्लाभाय नाऽन्यथा ॥२३॥ अथवा यो गृही मुग्धो लुब्धकज्ञातभावितः । तस्या तत्स्वल्पबन्धाय बहुनिर्जरणाय च ॥२४|| इत्थमाशयवैचित्र्यादत्राऽल्पायुष्कहेतुता । युक्ता चाऽशुभदीर्घायुर्हेतुता सूत्रदर्शिता ।।२५।। यस्तूत्तरगुणाशुद्धं प्रज्ञप्तिविषयं वदेत् । तेनाऽत्र भजनासूत्रं दृष्टं सूत्रकृते कथम् ॥२६॥ शुद्धं वा यदशुद्धं वाऽसंयताय प्रदीयते । गुरुत्वबुद्ध्या तत्कर्मबन्धकृन्नाऽनुकम्पया ॥२७॥ अतः पात्रं परीक्षेत दानशौण्डः स्वयं धिया ।
तत्रिधा स्यान्मुनिः श्राद्धः सम्यग्दृष्टिस्तथा परः ।।२९।। १. "एवं व्रतस्थितौ भक्त्या" ।
म
५२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org