________________
एतेषां दानमेतत्स्थगुणानामनुमोदनात् । औचित्यानतिवृत्त्या च सर्वसम्पत्करं मतम् ॥३०॥ शुभयोगेऽपि यो दोषो द्रव्यतः कोऽपि जायते । कूपज्ञातेन स पुनर्नाऽनिष्टो यतनावतः ||३१|| धर्माङ्गत्वं स्फुटीकर्तुं दानस्य भगवानपि । अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु ॥३॥ इत्थं दानविधिज्ञाता धीरः पुण्यप्रभावकः । यथाशक्ति ददद्दानं परमानन्दभाग्भवेत् ||३२||
(द्वात्रिंशद्वात्रिंशिकायां दानद्वात्रिंशिका )
एवं भक्तिदानादिस्वरूपं सर्वज्ञशासनातिरिक्ते नोपलभ्यते । पुनश्च देवविषयिण्या भक्तेः पञ्चविधत्वं उपदेशतरङ्गिण्यां प्रतिपादितम्
पुष्पाद्यर्चा तदाज्ञा च तद्द्द्रव्यपरिरक्षणम् ।
उत्सवास्तीर्थयात्रा च भक्तिः पञ्चविधा जिने ॥१॥
भक्तिः श्रीवीतरागे पञ्चप्रकारा भवति । प्रथमा पुष्पादिपूजा, आदिशब्दान्मुक्ताफलहारकनकमयछत्राद्याभरणानि चटाप्यन्ते । आभरणपूजा हि शाश्वती । यदुक्तम्
Jain Education International
ग्लायन्ति पुष्पनिचयाः प्रहरार्धकेन वैगन्ध्यमेति दिवसेन कृतोऽङ्गरागः । जीर्यन्ति रम्यवसनान्यपि भूरिवर्षैर्नो जीर्यते युगशतैर्जिनरत्नपूजा ||२||
सप्तलक्षणमनुष्यकलिते श्रीवस्तुपालसङ्घ श्रीअनुपमदेव्या श्रीगिरनारे नीरप्रक्षालितस्वमलैः द्वात्रिंशद्द्रम्मलक्षाभरणैः श्रीनेमीश्वरः पूजितः, तदनुकोटिपुष्पैः । यदुक्तम्द्वात्रिंशता द्रम्मलक्षैरेकदा रैवताचले । मीश्वरस्याऽनुपमा पूजां चक्रे प्रमोदतः ॥३॥
जिनभक्तिहृष्टचेतसा तेजः पालेन द्वात्रिंशल्लक्षटङ्ककैस्तानि पुनर्नव्यानि कारितानि ।
५३
For Private & Personal Use Only
www.jainelibrary.org