SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ | "गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वजे भूमिविषौ गिरि" इत्यनेकार्थसङ्ग्रहः । दशस्वर्थेषु स्त्रीपुंसाः । अन्ये तु "वागादौ स्त्रियाम्, स्वर्गादौ पुंसि, पशौ द्वयोर्जलाक्ष्णोः क्लीबे" इत्याहुः । उदके यथा-'गावो वहन्ति विमला: शरदि स्रवन्त्याम्' । दृशि यथा 'गोजलाद्रितकपोलतलास्ताः' । स्वर्गे यथा-'स गोपतिर्वज्रविघट्टनेन' । दिशि यथा-'गोभ्यः । * संभृतसद्वित्तः' । पशौ यथा-'गावश्चरन्ति कमलानि सकेसराणि' । रश्मौ यथा-['गोस्वामिनि । स्फुरिततेजसि दृष्टमात्रे, चौरैरिवाशु पशवः प्रपलायमानैः ॥] (कल्याणमन्दिरे) । वजे और यथा-'गोघातेनैव शैलाः" । भूमौ यथा-[जुगोप गोरूपधरामिवोर्वीम्] । [रघौ सर्ग - २ । श्लो० ३] ॥ इषौ यथा-'गोभिः संभिन्नसन्नाहः' । गिरि यथा -[.....] ॥ गिरि-यथा आविष्कृताशेषपदार्थसार्था दोषानुषक्तं तिमिरं विधूय । गावः प्रथन्तेऽस्खलितप्रचारा यस्येह तं वीररविं प्रणम्य ॥१॥ ___इति जिनेश्वरसूरयोऽष्टकवृत्तौ । र अत्र वीरपक्षे वाणी रविपक्षे च किरणः इति । 'पा०'मते तु गच्छतीति 'गम्लँ-गतौ' धातोः । डोप्रत्यये गौः पुं० । "वृषभे, स्वर्गे, किरणे, वज्र, जले, पशौ, चन्द्रे, वायौ, सूर्ये, ऋषभनामौषधौ च, सौरभेय्याम्, दृष्टौ, बाणे, दिशि, मातरि, वाचि, भूमौ च स्त्री०" । अत्र र तु सौरभेयी । ___अथ गोशब्दस्य गच्छतीति गौरिति व्युत्पत्त्या गतिक्रियावत्येव सुरभिर्वाच्योऽर्थस्स्यात्तथा च स्थितायामुपविष्टायां वा गमनाभाववत्यां गवि गोशब्दप्रवृत्तिर्न स्यादिति र चेत् । ना व्युत्त्पत्तिमात्रमेवैतद्गच्छतीति गौरिति, न तु प्रवृत्तिनिमित्तम् । अन्यथा गमनक्रियावति । र पुरुषेऽपि गोशब्दप्रवृत्तिः स्याद्, न च सा भवतीति प्रवृत्तिनिमित्तबलादेव वाच्ये वाचकप्रवृत्तिः । - प्रवृत्तिनिमित्तत्वं च "वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्" । तस्यां । गवि-कामे(म)धेनौ । तस्थौ इति 'ष्ठां-गतिनिवृत्तौ' धातोः 'तत्र क्वसुकानौ तद्वत्' (५।२।२।।) इति । १. अनेकार्थसङ्ग्रहे प्र० ६। | | ९० Jain Education International po For Private & Personal Use Only For Private www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy