________________
" श्रीसि०'सूत्रेण 'क्कसुश्च' [३।२।१०७||] इति 'पा०'सूत्रेण च क्वसौ 'घसेकस्वरातः क्वसोः'
(४।२।८२।।) इति [ श्रीसि०'सूत्रेण] 'वस्वेकाजादघसाम्' [७।२।६७||] इति 'पा०'सूत्रेण व * च आदेरिटि क्वसुप्रत्यये तस्थिवान्, तं तस्थिवांसम्-स्थितम् ।
केसराः स्कन्धसटाः सन्त्यस्येति केसरशब्दादिनि केसरी-सिंहाः । “सिंहः कण्ठीरवो भी हरिः, हर्यक्षः केसरि(री)भारिः पञ्चास्यो नखरायुधः, महानादः पञ्चशिखः पारीन्द्रः पत्यरी * मृगात्श्वेतपिङ्गोऽपि" इति हैम: । सिंहे तु स्यात् "पलङ्कषः शैलाटो वनराजो नभःक्रान्तो -
गणेश्वरः शृङ्गोष्णीषो रक्तजिह्वो व्यादीर्णास्यः सुगन्धिकः" इति हैमशेष: । "केसरी पुं० या सिंहे, अश्वे, पुंनागवृक्षे, नागकेसरवृक्षे, बीजकपूरवृक्षे, हनुमत्पितरि, वानरभेदे, च" । तंत्र | केसरिणं-सिंहम् ।
सनति मृगादीन् सनोति वा सुखमिति 'कृ-वा-पा-जि-स्विदि-साध्यशौ-दृ-स्नाA सनि-जा-निरहीणभ्य उण' ॥१॥ इति 'उणादिश्रीसि० 'सूत्रेण 'षण-भक्तौ"षणूयी-दाने' । वेति धातोः उणप्रत्यये, 'पा०' मते झुंप्रत्यये सानु:-पर्वतैकदेशः । "स्नुः प्रस्थं सानुः" ।
इति हैम: । पुंक्लीबलिङ्गः । "पर्वतस्थे समभूमिदेशे, प्रस्थे, वने, वातसमूहे, पथि, अग्रे, * कोविदे, अर्के, पल्लवे च" । अत्र पर्वतस्थसमभूमिप्रदेशार्थः । सानूनि सानवो वा सन्त्यस्येति
सानुशब्दात् तदस्याऽस्तीति मतुपि सानुमान् पर्वतः । “शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान्, ग्रावा पर्वतभूध्रभूधरधराहार्या नगः" इति हैम: । “गिरौ प(प्र)पाती कुट्टम(ट्टार) उर्वङ्गः कन्दराकरः" इति हैमशेष:५ । तस्य सानुमतः-अद्रेः ।
दधाति पीतत्वमिति 'कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसि-मसि-सच्यविभा-धा-गा-ग्ला-म्ला-हनि-हा-या-हि-क्रुशि-पूभ्यस्तुन्' ।।४(७)७३।।इति 'उणादि* श्रीसि०'-सूत्रेण 'डुधाङ्क्-धारणे च' इति धातो तुन्प्रत्यये धातुः-लोहादिः रसादिः
- शब्दप्रकृतिश्च । “धातुस्तु गैरिकम्" इति हैमः ।
१. अभि० चि० च० १२८३-८४-८५ । ३. अभि० चि० च० १०३५ ।। ५. अभि० चि० हैमशेषे-१५८ ।
२. अभि० चि० हैमशेषे -१८४-८५ । ४. अभि० चि० च० १०२७ । ६. अभि० चि० च० १०३६ ।
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org