SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियास्थनि ॥१७१।। इत्यनेकार्थसङ्ग्रहः । लोहानि 'स्वर्णादीनि' यदाह। ९ e on H 10 39। इन्द्रियं 'चक्षुरादि शुक्र वा' | * अस्थि पञ्चमो धातुः । रसादौ भ्वादौ श्लेष्मादौ लोहेषु च यथा अभ्यस्तरूपसिद्धिः सुविदितधातूपसर्गविनिपातः । योगी वैयाकरणो जयति भिषक्लार्तिकेन्द्रो वा (वार्तिकेन्द्रो वा) (yys. 4) ॥ ग्रावविकारे 'ME-1021' । शब्दादौ 'न धातूनपि गृह्णीयादुन्मनीभावमागतः' । इन्द्रिये 'धातुपाटवमवेक्ष्य तिष्ठतः' । अस्थिन "यस्येह भज्यते धातुर्भवेत्तस्यैव वेदना' । धातुः पुं० । धारणाद्धातवस्ते स्युर्वातपित्तकफास्त्रयः ॥' इत्युक्तेषु वातादिषु, 'रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः' । इत्युक्तेषु रसादिषु, 'सुवर्णरूप्यताम्राणि हरितालं मनःशिला । गैरिकाञ्जनकासीससीसलोहं सहिंगुलम् ॥ गन्धकोऽभ्रकमित्याद्या धातवो गिरिसंभवाः' । इत्युक्तेषु स्वर्णादिषु, 'हेमतारारनागाश्च ताम्ररङ्गे च तीक्ष्णकम् । कांस्यकं कान्तलोहं च धातवो नव कीर्तिताः' ॥ इत्युक्तेषु हेमादिषु नवसु, 'हिरण्यं रजतं कांस्यं तानं सीसकमेव च । रङ्गमायसं रैत्यं च धातवोऽष्टौ प्रकीर्तिताः' ॥ इत्युक्तेषु अष्टसु, 'सुवर्णं रजतं तानं लौहं कुप्यं च पारदम् । रङ्गं च सीसकं चैव इत्यष्टौ देवसंभवाः' ॥ इत्युक्तेषु अष्टसु वस्तुषु । - लोकेषु सर्वसाधारणत्वात्परमेश्वरे ‘स एष चिद्धातुः' इति श्रुतिः, व्याकरणोक्ते । -गणपठिते क्रियावाचके भूप्रभृतौ, शब्दभेदे च । इह तु गैरिकाद्यर्थः । धातोविकार इति १. अनेकार्थसङ्ग्रहे द्वि० १७१ । PAN Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy