________________
- तु देहावयवभेदो हस्तः । साक्षतपात्रौ हस्तौ यस्याः सा साक्षतपात्रहस्ता । अथवा अक्षतैः सह वर्तमानं साक्षतम् । साक्षतं पात्रं हस्तयो: यस्याः सा साक्षतपात्रहस्ता । यदि वा सा इति व्यस्तं, अक्षतपात्रं हस्तयो: यस्याः सा अक्षतपात्रहस्ता । सा सुदक्षिणा ।
प्रशस्तं पयोऽस्त्यस्याः सा पयः शब्दात् प्रशस्ते विनि ङीपि च पयस्विनी, तां पयस्विनीम् - प्रशस्त क्षीराम् । तां धेनुम् । प्रदक्षिणीकृत्य - परिक्रम्य । प्रणम्य च । अस्याः धेन्वाः 'वेर्विशाशङ्कटौ (७|१|१२३ ॥ ) इति 'श्रीसि० 'सूत्रेण विशालं विशङ्कटं . साधू । “विशालं तु विशङ्कटम्, पृथूरु पृथुलं व्यूढं विकटं विपुलं बृहत् । स्फारं वरिष्ठं, विस्तीर्णं ततं बहु महद् गुरु" इति हैमः । "विशङ्कटं पृथु बृहत् विशालं पृथुलं महत्" - इत्यमरेः ।
शृणातीति शृङ्गम्- 'शृङ्गशार्ङ्गादय: ॥ ९६ ॥ इति ' उणादिश्रीसि० 'सूत्रेण शृधातोर्गान्तो निपातः । “विषाणं कूणिका शृङ्गम्" इति हैमः । शीर्यते निर्घातेनेति वा शृङ्गम्- शिखरम् । " शृङ्गं तु शिखरं कूटम्" इति हैमः । अथवा शृधातोर्गाने पृषोदरादित्वान्मुमागमे ह्रस्वे च "शृङ्गं न० पर्वतोपरिभागे, प्राधान्ये, चिह्ने, जलक्रीडार्थयन्त्रभेदे, 'पीचकारी' ति लोकप्रसिद्धे, कामोद्रेके, पश्वादेर्विषाणे, महिषशृङ्गनिर्मितवाद्यभेदे, उत्कर्षे, ऊर्ध्वे, तीक्ष्णे, . पद्मे च; कूर्चशीर्षकवृक्षे च पुं०" । अत्र तु शृङ्गं विषाणम् । शृङ्गयोरन्तरं शृङ्गारन्तम्,. शृङ्गमध्यदेशं ललाटपट्टमिति यावत् ।
अर्यतेऽसौ अर्थ: । 'कमि-प्रु-गार्तिभ्यस्थः ' ॥२२५॥ इति 'उणादिश्रीसि० ' सूत्रेण ऋधातोः थः । अथवा अर्थ्यते इति अर्थ: । "कार्यं स्यादर्थः कृत्यं प्रयोजनम्" इति हैम:' । अथवा 'अर्थ - याचने' अदादिः चुरादि: आत्म० द्वि० सेट्, अर्थयते आर्तिथत् - मतान्तरे अर्थापयते आर्तथापत इति " अर्थ: पुंभावकर्मादौ यथायथं अच्विषये, अभिधेये, धने, वस्तुनि, प्रयोजने, निवृत्तौ हेतौ प्रकारे, अभिलाषे, उद्देश्ये तु" । अत्र तु प्रयोजनमुद्देश्यमित्यादि यथायोगम् ।
"
१. अभि० चि० ष० १४२९-३० । ३. अभि० चि० च० १२६४ | ५. अभि० चि० ष० १५१४ ।
Jain Education International
२. अम० तृ० विशेष्यनिघ्नवर्गे-५८ । ४. अभि० चि० च० १०३२ ।
४६
For Private & Personal Use Only
www.jainelibrary.org