________________
सिद्ध्यति अस्यामिति सिद्धिः । अथवा सेधनं सिद्धिरिति सिध्धातो: क्तिनि(तौ) “सिद्धिः ऋद्धिनामौषधे, (दुर्वायाम्) योगेभेदेऽन्तर्धाने, निष्पत्तौ, पाके, पादुकायां, मोक्षे, वृद्धौ, सम्पत्तौ, अणिमाद्यष्टविधैश्वर्ये, बुद्धौ, साध्यवत्तया निश्चये, दक्षकन्याभेदे च ।" अत्र - तुः निष्पत्ति: । अर्थस्य सिद्धिः अर्थसिद्धिः, तस्याः अर्थसिद्धेः- कार्यनिष्पत्तेः ।
उभ्यते पूर्यते इति द्वारम् । 'द्वार - शृङ्गार-भृङ्गार-कल्हार- कान्तार- केदार- खारडादयः ॥४११॥ इति 'उणादिश्रीसि० ' सूत्रेण 'उम्भत् पूरणे' इतिधातोः द्वादेशे आरप्रत्यये च - द्वारम् । द्वारयतीति वा तत्र द्वारम् । " वलजं प्रतीहारो द्वार्द्वा रे" इति हैम:' । 'पाणि० 'मतेतु द्वारं न० । द्वृधातोर्णिचि अचि च " द्वारं गृहादिनिर्गमनस्थाने, प्रतीहारे, उपाये, मुखे च" । 'अत्र तु द्वारं प्रवेशमार्गम् । इव । आनर्च - अर्चयामास - पूजयामास इति यावत् । अर्चते: _ भौवादिकात् परोक्षा, 'पाणि० ' मते लिट् ॥
वाच्यपरिवर्तनं त्वेवम्-साक्षतपात्रहस्तया सुदक्षिणया तां पयस्विनीं प्रदक्षिणीकृत्य प्रणम्य चाऽस्या विशालं शृङ्गान्तरमर्थसिद्धेः द्वारमिवाऽऽनर्थे ।
ततः सुदक्षिणा तन्दुलादिसहितमर्घभाजनमादाय शुभ्रक्षीरां तां गां प्रथमं प्रदक्षिणक्रिययासन्मानितां चकार; पश्चाच्च तां प्रणम्याऽर्थसिद्धेः प्रवेशमार्गमिव तस्याः शृङ्गयोः मध्यस्थानमर्घ्यदानेन पूजितवती, इति सरलार्थ: ॥२१॥
वत्सोत्सुकाऽपि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरः फलानि ॥२२॥
वत्सेति । सा धेनुः । वदति मातरं दृष्ट्वेति वत्सः । ' मा - वा- वद्यमि-कमि• हानि - मानि - कष्यशि- पचि - मुचि- यजि-वृ-तृभ्यः सः ॥५६४ ॥ इति 'उणादिश्रीसि० ' सूत्रेण वदिधातोः से वत्सः । " वत्सः शकृत्करिस्तर्णः" इति हैमः । वदत्यनेनेत्यपि वत्सः पुंक्लीबलिङ्गः । " क्रोडोरो हृदयस्थानं वक्षो वत्सो भुजान्तरम्
इति हैम:
१. अभि० चि० च० १००४ ।
२. अभि० चि० च० १२६० ।
२. अभि० चि० तृ० ६०२ ।
Jain Education International
ܕ
४७
For Private & Personal Use Only
"
www.jainelibrary.org