________________
-
-
R-C
V
he
- उत्सुमद्गतं मनो अस्य उत्सुकः । 'उदुत्सोरुन्मनसि' (७।१।१९२॥) इति 'श्रोसि०'सूत्रेण * उत्सुशब्दात् अस्येत्युन्मनस्यभिधेये कप्रत्यये उत्सुकः । "उत्कस्तूत्सुकः उन्मनाः उत्कण्ठितः" - इति हैम:' । 'पाणिनीय'मते तु उत्सुकस्त्रिलिङ्गः । उत्पूर्वात् सूधातोः क्विप्कनि हुस्वे और
उत्सुकः । “इष्टार्थसंपादनायोद्युक्ते, अभीष्टो गमिष्यतीति उत्कण्ठान्विते च ।" वत्से उत्सुका का * वत्सोत्सुका । अपि अव्ययम्-न पीयति गच्छतीति 'पि-गतौ' धातोः क्विप् , न तुक् ।
"अशक्यकरणायोद्यमरूपायां, शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिरूपायां वा, संभावनायां, स्नेहे, असे
निन्दायां, प्रश्ने, समुच्चये, अल्पपदार्थे, कामचारानुज्ञायाम्, अवधारणे, पुनरर्थे च" । अत्र की का तु पुनरर्थे । स्ववत्सदर्शनोत्कण्ठिताऽपि । स्तिम्यति स्मेति स्तिमिता । "तिमिते और र स्तिमितक्लिन्नसार्दा दोन्नां समुत्तवत्" इति हैम: । 'पाणि 'मते तु 'स्तिमित' नपु०लिङ्गाः । * स्तिम्धातोः भावे क्तः । "आर्द्रतायाम्, अचाञ्चल्ये च" । कर्तरि क्तः, “अचञ्चले आर्द्र च त्रिलिङ्गः" अत्र त्वचञ्चलार्थः । स्तिमिता-निश्चला सती।
'सपर्-पूजायाम्' इति कण्ड्वादिधातोः 'धातोः कण्ड्वादेर्यक्' (३।४।८।।) इति का - 'श्रीसि०' सूत्रेण यकि 'शंसिप्रत्ययात्' (५।३।१०५।।) इति 'श्रीसि०' सूत्रेण 'अ'प्रत्यये पर - आपि सपर्या । “पूजार्हणा सपर्याऽर्चा" इति हैम: । "पूजा त्वपचितिः" इति हैमशेषः ।
"पूजा नमस्याऽपचितिः सपर्याऽर्चाहणाः समाः" इत्यमरः । 'पा०'मते तु सपर्धातोः * यकि अप्रत्यये टापि च सपर्या पूजायाम् । “सोऽहं सपर्याविधिभाजनेने"ति अग्रे रघौ ।
[सर्ग-५ श्लो०२२] । ताम् सपर्याम्-पूजाम् । प्रत्यग्रहीत्-स्वीचकार । इण्धातोः क्तिचि । * इतीति अव्ययं, "हेतौ, प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, समाप्तौ, प्रकरणे, स्वरूपे, * - सान्निध्ये, विवक्षानियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायां, परामर्शे, माने, इत्थमर्थे, और
, प्रकर्षे, उपक्रमे च ।" अत्र तु हेतुरर्थः । इति-हेतोः । वत्सावलोकनौत्सुक्येऽपि निश्चलभावेन * पूजास्वीकारात् हेतोः इति भावः ।
१. अभि० चि० तृ० ४३६ । २. अभि० चि० ष० १४९२ । ३. अभि० चि० तृ० ४४७ ।
४. अभि० चि० हैमशेषे -१०५ । * ५. अम० द्वि० ब्रह्मवर्गे -३७ ।
४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org