SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सुनन्दा विकचा लम्बा जयन्ती नकुला कुला । विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना ॥१०॥ कालञ्जरी शतमुखी विकराला करालिका । विरजाः पुरला जारी बहुपुत्री कुलेश्वरी ॥११॥ कैटभी कालदमनी दर्दुरा कुलदेवता । रौद्री कुन्द्रा महारौद्री कालङ्गमा महानिशा ॥१२।। बलदेवस्वसापुत्री हीरी क्षेमकरी प्रभा । मारी हैमवती चाऽपि गोला शिखरवासिनी ॥१३॥ इति । "गौर्युमा नग्निकोर्वीषु" इत्यनेकार्थसङ्ग्रहः । षोडशसु विद्यादेवीषु नवमी विद्यादेवी । विद्यादेव्यस्तु षोडश रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कशा । चक्रेश्वरी नरदत्ता काल्यथाऽसौ महापरा ॥१॥ गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी । वैरोट्याऽच्छुप्ता मानसी महामानसिकेति ताः ॥२॥ इति हैम: । गूयते इति वा [गौरः] 'खुर-क्षुर-दूर-गौर-विप्र-कुप्र-श्वभ्राभ्र- धूम्रान्ध्ररन्ध्रशिलीन्ध्रौड्र-पुण्ड्र-तीव्र-शीघ्रोग्र-तुग्र-भुग्र-निद्रा-तन्द्रा-सान्द्र-गुन्द्रा-रिज्रादयः॥३९६॥ इति 'उणादिश्रीसि०' सूत्रेण गौर इति रान्तो निपातः । गौरः-अवदातः, ततो ड्यां गौरीस्त्रीधर्मरहिता । गूयते उपादेयतया गौरी । "गौरी तु नग्निकाऽरजाः" इति हैमः। 'अष्टवर्षा भवेद् गौरी दशमे नग्निका भवेत्' इति च स्मार्तो विशेषः । गौरी । स्त्री०। "शलेन्दुकुन्दधवला, ततो गौरी तु सा मता ॥" इत्युक्त्यां पार्वत्याम् । “अष्टवर्षा भवेद्गौरी" इत्युक्त्यामष्टवर्षायां असञ्जातरजस्कायां कन्यायाम, हरिद्रायाम् । दारुहरिद्रायाम्, कि * गोरोचनायाम्, प्रियङ्गौ, भूमौ, नदीभेदे, मञ्जिष्ठायाम्, श्वेतदूर्वायाम्, मल्लिकायाम्, तुलस्याम्, १. अनेकार्थसङ्ग्रहे द्वि० ४०३-४ । २. अभि० चि० द्वि० २३९-४० ।। ३. अभि० चि० तृ० ५१० । POWR SEAR ७६ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy