________________
स्वर्णकदल्याम्, आकाशमांस्याम्, रागिणीभेदे च" । अत्र तु पार्वत्यर्थः । गौर्याः गुरुः गौरीगुरुः, तस्य गौरीगुरोः-पार्वतिपितुः-हिमाचलस्येत्यर्थः ।।
गृहति गाह्यते वेति 'तीवर-धीवर-पीवर-छित्वर-छत्त्वर-गह्वरोपह्वर-संयद्वरो- दुम्बरादयः' ॥४४४॥ इति 'उणादिश्रीसि०' सूत्रेण वरट्प्रत्ययान्ता(त)निपातने गह्वरम् । गुहेरच्चोतः । गह्वरं गहनं महाबिलं भयानकं प्रत्यन्तदेशश्च । यद्वा गह्वाः सन्त्यत्रेति वा अश्वादित्वाद् रनिपातने गह्वरम् । "अखातबिले तु गह्वरं गुहा" इति हैम: । रुदितविशेषो । वा गह्वरम् । "तदपुष्टं तु गह्वरं(रः)" इति हैम: । तद् रुदितम् अपुष्टं गद्गद्स्वरत्वाद जातोच्चपूत्कारं गाहते हृदयान्तरिति गह्वरम् । 'जठर-क्रकर-मकर-शङ्कर-कर्पर-कूर्पर2 तोमर-पामर-प्रामर-प्राद्मर-सगर-नगर-तगरोदरादर-शृदर-दृदर-कृदर-कुकुन्दर-गोर्वराम्बर. मुखर-खर-डहर-कुञ्जरा-जगरादयः' ॥४०३॥ इति 'उणादिश्रीसि०'सूत्रेण गाधातोः - किदरप्रत्ययान्तो निपातः । 'पा० मते तु गह्वरः पु०, गाधातोर्वरच्प्रत्यये निपात्यते ।
"निकुञ्जे, दम्भे, स्ने, रोदने, विषमस्थाने, अनेकानर्थसङ्कटे च नपुं०, गुहायां नपुंस्त्री०" | "गह्वरो बिलदम्भयोः, कुञ्जेऽथ" इत्यनेकार्थसङ्ग्रहः । स्त्रीत्वपक्षे ङीप् । अत्र तु गुहार्थः । । तद् गह्वरम्-गुहाम् । आविवेश-प्रविवेश ॥
वाच्यपरिवर्तनं त्वेवम्-अन्येधुर्मुनिहोमधेन्वा आत्मानुचरस्य भावं जिज्ञासमानया से * सत्या गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोः गह्वरमाविवेशे ॥
द्वाविंशे दिने धेनुः निजसेवकस्याऽभिप्रायं ज्ञातुमिच्छन्ती-द्वाविंशे दिने नन्दिनी । किमयं स्वार्थसाधनानुरोधादुत विशुद्धभक्तियोगात् मामेवं सेवते, इति मायाबलेन निजसेवकस्य का * दिलीपस्याऽभिप्रायं ज्ञातुमिच्छन्ती सुरसरित्प्रपातान्तर्विरूढबालतृणां हिमालयगुहामाविवेश, र व इति सरलार्थः ॥२६॥
सा दुष्प्रधर्षा मनसाऽपि हिंस्पैरित्यद्रिशोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥२७॥
सेति । सा नन्दिनी । हिंसन्तीत्येवंशीला इति हिंसनशीला 'स्म्य-जस-हिंस-दीप१. अभि० चि० च० १०३३ । २. अभि०चि० ष० १४०२ । * ३. अनेकार्थसङ्ग्रहे तृ० ५४३ ।
In
clot
७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org