SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ कम्प-कम-नमो र:' (५।२।७९।।) इति 'श्रीसि०'सूत्रेण 'हिस्-हिंसने' धातोः शीलादावर्थे । 'र'प्रत्यये हिंस्राः-व्याधाः । “हिजै(स्र) शरारुधा(घा)तुकौ" इति हैम:' । "हिंस्रः स्याद्धातुके हिंस्रा मांसी काकादनी वसा" इत्यनेकार्थसङ्ग्रहः२ । “पा०'मतेऽपि हिंस्धातोः रप्रत्यये का हिंस्रः त्रिलिङ्गः। "हिंसाशीले, घोरे, भये, हरे, भीमसेने च पुं०, मांस्याम्, काकादन्याम् । * एलवालुकायाम्, नाड्याम्, जटामांस्याम्, गवेधुकायाम्, शिरायां च स्त्री०"। अत्र घातुकार्थः । तैः हिंस्त्रैः-घातुकैर्व्याघ्रादिभिः इत्यर्थः । मन्यते जानात्यर्थमिति 'अस्' ॥९५२॥ इति 'उणादिश्रीसि०'सूत्रेण 'मनिच्ज्ञाने' इति धातोः अस्प्रत्यये मन:-नोइन्द्रियम् । “अन्तःकरणं मानसं मनः, हच्चेतो हृदयं । चित्तं स्वान्तं गूढपथोच्चलेः" इति हैम: । 'यदवोचामस्तर्के सर्वार्थसंग्रहणं मनः' इति । तवृत्तौ । 'पाणि०'मते 'मन्-बोधे' दिवादिः आत्मने० सक० अनिट्धातोः तनादिः । आत्म० सक० सेट्धातोर्वा मन्यतेऽनेनेति असिप्रत्यये करणे असुन्प्रत्यये वा "मनः । सर्वेन्द्रियप्रवर्तके अतीन्द्रिये इति न्यायमते । वेदान्तमते सङ्कल्पविकल्पात्मकवृत्तिमदन्तः करणे, तच्च सुखदुःखाद्याधारः । कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृति_(6रि। त्येतत्सर्वं मन एव इति श्रुतेः । न्यायमते तज्ज्ञानसाधनमिति भेदः, मनःशिलायां च" | इह तु सर्वेन्द्रियप्रवर्तकमतीन्द्रियम् । तच्च न्यायमतेऽणुस्वरूपम् । तदसाम्प्रतम् । सर्वत्र । * देहावयवावच्छेदेन सुखदुःखाद्युपलब्धेः । जैनमते 'जीववत् सर्वशरीरावगाहि मनस्त्वेन भी र परिणतमनोवर्गणापुद्गलसमूहात्मकम् । तेन मनसा । अपि-पुनः । को दुःखेन धृष्यतेऽसौ इति दुष्प्रधर्षा-दुर्धर्षा-अनभिभवनीयेति यावत् । एतीति इण्धातोः । तिच्प्रत्यये इति-अव्ययं, "हेतौ, प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, समाप्तौ, प्रकरणे, * स्वरूपे, सान्निध्ये, विवक्षानियमे, मते, प्रत्यक्षे, अवधारणे, व्यवस्थायां, परामर्श, माने, और इत्थमर्थे, प्रकर्षे, उपक्रमे च" । अत्र हेत्वर्थः । इति-हेतोः । ____ अद्यते वज्रेणेति 'तङ्कि-वळ्यङ्कि-मक्य-हि-शद्यदि-सद्यशौ-वपि-वशिभ्यो रिः' ॥६९२॥ इति 'उणादिश्रीसि०'सूत्रेण 'अदंक्-भक्षणे' धातोः रिप्रत्यये अद्रिः-पर्वतः । ॐ १. अभि०चितृ० ३६९ ।। २. अनेकार्थसङ्ग्रहे द्वि० ४६१ । ३. अभि० चि० ष० १३६९ । ७८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy