________________
| "शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमान् ग्रावा पर्वतभूध्रभूधरधराहार्या
नगः" इति हैम: । "गिरौ प्रपाती कुट्टारः उर्वङ्गः कन्दराकरः" इति हैमशेषः । अद्रिःवृक्षः ।
"वृक्षोऽगः शिखरी च शाखिफलदावद्रिहरिदुर्दुमो जीर्णो दुर्विटपी कुठः क्षितिरुहः कारस्करो विष्टरः । नन्द्यावर्तकरालिकौ तरुवसू पर्णी पुलाक्यंहिपः
सालानोकहगच्छपादपनगा रुक्षागमौ पुष्पदः ॥" इति हैमः । | "वृक्षे चाऽऽरोहकः स्कन्धी सीमिकः हरितच्छदः उरुः जन्तुः वह्निभूश्च" इति हैमशेषः ।
जैनेतरमतेनेन्द्रशत्रुसप्तके द्वितीयो द्विट् । तत्र अदन्तीति अद्रयः । “अस्य तु द्विषः पाकोऽद्रयो । | वृत्रः पुलोमा नमुचिर्बलः जम्भः" इति हैम: । अस्येतीन्द्रस्य द्विषः शत्रवः, ते तुम * पाकादयः सप्त । 'पा० मते तु अद्धातोः क्तिन्प्रत्यये अद्रिः पुं० । “पर्वते, वृक्षे, सूर्ये, हर परिमाणभेदे च" । अत्र तु पर्वतोऽद्रिः । शोभनं भिदादित्वात् अङि शोभा । "आभा राढा
विभूषा श्रीरभिख्याकान्तिविभ्रमाः लक्ष्मीश्छाया च शोभायाम्" इति हैम: । शोभा अलङ्कारविशेषः । "प्रागल्भ्यौदार्यमाधुर्यशोभाधीरत्वकान्तयः दीप्तिश्चायत्नजाः" इति हैम: । र शोभा रूपाद्यैः पुंभोगपबृंहितैः किञ्च्छियान्तराश्रयणम् इति तद्वृत्तिः । 'पा० मते शोभते का इति शुभ्धातोः अप्रत्यये टापि च शोभा स्त्री० । "दीप्तौ, हरिद्रायां, गोरोचनायां च" । अत्र र तु दीप्तिः कान्तिर्वा । अद्रेः-पर्वतस्य शोभा-कान्तिः आद्रिशोभा । प्रहि(ही)यते स्मेति । प्रपूर्वात् 'हि-वधने गतौ च' धातोः धाधातोर्वा कर्मणि क्ते प्रहितं त्रिलिङ्गः । “क्षिप्ते,
निरस्ते, प्रेरिते च, सूपे न०" । अत्र तु क्षिप्तः प्रेरितो वाऽर्थः । ईक्ष्यत आभ्यामिति ईक्षणे असा र नेत्रे । 'चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकं लोचनं दर्शनं दृक् च''इति हैम: । "अक्ष्णि * रूपग्रहो देवदीपः" इति हैमशेषः । यद्वा ईक्ष्यते इति ईक्षणम्-अवलोकनम् । "ईक्षणं तु र * १. अभि० चि० च० १०२७ । २. अभि० चि० हैमशेषे - १५८ ।
३. अभि० चि० च० १११४ । ४. अभि० चि० हैमशेषे - १७३-७४ । 1 ५. अभि० चि० द्वि० १७४-७५ । ६. अभि० चि० ० १५१२ । ७. अभि० चि० तृ० ५०९ ।
८. अभि० चि० तृ० ५७५ । ९. अभि० चि० हैमशेषे - १२१ ।
७९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org