________________
अत्र विषये जैनशास्त्रेऽपि तथैव व्यवस्था ।
निवर्त्य । सुरभेर्गोत्रापत्यं स्त्री सौरभेयी, तां सौरभेयीं- कामधेनुसुतां नन्दिनीम् । 'आयुधादिभ्यो धृगोऽदण्डादेः' (५|१|१४|| ) इति 'श्री सि०हे० श० 'सूत्रे आदिशब्देन ' . पयसोऽपि ग्रहणात् । पयांसि धरन्तीति पयोधराः । जलधर - विषधर - शशधर-विद्याधर श्रीधर-गङ्गाधर- जटाधरप्रभृतिष्वप्येवमेव । 'पाणिनीय' मते तु 'कर्मणोऽण् (कर्मण्यण्)' (३||१||) इति सूत्रस्य बाधकत्वात् तथा न । तन्मते तु धरन्तीति धराः । पचाद्यच् । पयसां धराः पयोधराः स्तनाः । " स्त्रीस्तनाब्दौ पयोधरौ" इत्यमरः । न पयोधरा अपयोधराः । 'श्रीसि० हे० श० 'मते अपयोधराः पयोधराः भूता: ( भवन्ति स्म ) पयोधरीभूताः 'पाणिनीय' - मते तु अपयोधराः पयोधराः यथा सम्पद्यमाना (भूताः) पयोधरीभूताः 'कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्वि:' ( ७ २ १२६ | | ) इति श्रीसि० हे० श० ' सूत्रेण 'च्वि:' । 'कृभ्वस्तियोगे संपद्यकर्तरि च्विः' (पा० ५|४|५०|) । 'च्विविधावभूततद्भावग्रहणं' • इति वार्त्तिकोक्तेऽर्थे च्विः । ' श्री सि०हे० श० 'मते 'अप्रयोगीत्' (१|१|३७||) इति सूत्रेण, च्वेर्लुक् । 'पाणिनीय' मते तु 'चुटु ( टू ) ' (१|३|७|| ) इति विप्रत्ययगतचकारस्येत्संज्ञा । - वेरिकारस्य च इत्संज्ञायां 'वेरपृक्तस्य' (६ | १|६७ ||) इति सूत्रेण वकारस्य च लोपः 'प्रत्ययलोपे प्रत्ययलक्षणम्' (पा० १ २२६२ || ) इत्यनेन च्व्यन्तत्वं कल्पनीयम् । ततश्च ''ईश्च्वाववर्णस्याऽनव्ययस्य' ( ४ | ३ | १२७ (१११ ) | ) इति 'श्री सि० हे० श० 'सूत्रेण 'अस्य' . च्चै (च्वौ)' (७|४|३२||) इति पा० ' सूत्रेण च पयोधरघटकाकारस्य ई: । 'ऊर्याद्यनुकरणच्विडाचश्च गतिः' (३|१|२||) इति 'श्रीसि० हे० श० ' सूत्रेण 'ऊर्यादिच्विडाचश्च' (१|४|६१ || ) इति 'पा०' सूत्रेण च च्व्यन्तस्य गतिसंज्ञा । ततश्च 'गतिक्वन्यस्तत्पुरुषः' (३|१|४२ ॥ ) इति 'श्रीसि० हे०श०' सूत्रेण 'कुगतिप्रादयः' (२|२|१८|| ) इति पा० ' सूत्रेण च समासः । समीचीना उद्रा-जलजन्तुविशेषादयो यत्र, सह मुद्रया वेलया वर्तते इति वा समुद्रः । . पयोधरीभूताश्चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुःसमुद्रा, तां पयोधरीभूतचतुःसमुद्राम् ऊधीभूतचतुः सागराम् । 'एकार्थं चानेकं च' (३|१|२२|| ) इति 'श्रीसि० हे० श० 'सूत्रेण त्रिपदो बहुव्रीहिः । 'अनेकमन्यपदार्थे' (२२|२४|| ) इति पा० 'सूत्रेणा - ऽनेकपदग्रहणसामर्थ्यात् त्रिपदो बहुव्रीहिः ।
१. अम० तृ० नानार्थवर्गे - १७१ ।
Jain Education International
१८
For Private & Personal Use Only
www.jainelibrary.org