SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ स्मर्यते धर्मोऽनयेति स्मृतिः, मन्वादिवाक्यम् । श्रूयते धर्मोऽनयेति श्रुतिः, तस्याः श्रुतेः वेदवाक्यस्य । अर्यते इति अर्थः, तं अर्थमभिधेयम् । इव अन्वगच्छत्-अनुसृतवतीव। यथा स्मृतिः श्रुतिक्षुण्णमेवाऽर्थमनुसरति तथा साऽपि गोक्षुरक्षुण्णमेव मार्गमनुससारेत्यर्थः । मन म पांसुलपथप्रवृत्तावपि अपांसुलानामिति 'विरोधालङ्कारो' ध्वन्यते । तल्लक्षणं चेदं कुवलयानन्दे 'आभासत्वे विरोधस्य विरोधाभास इष्यते ।' वाच्यपरिवर्तनं त्वेवम् - अपांसुलानां धुरि कीर्तनीयया मनुष्येश्वरधर्मपल्या पर र खुरन्यासपवित्रपांसुः तस्याः मार्गः श्रुतेः अर्थः स्मृत्या इवाऽन्वगम्यत । पावनैः खुरक्षेपैः नन्दिनी मार्गरजो निर्मलीकुर्वाणा जगाम । यथा हि स्मृतिः वेदार्थमेव सर्वदाऽनुगच्छति तथा पतिव्रताऽग्रगण्या दिलीपपत्नी सुदक्षिणा तं नन्दिनीमार्गमनुससार, इति सरलार्थः ।।२।। निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्मी(वी )म् ॥३॥ निवर्येति । दयते इत्येवं शीलः दयते इत्येवं धर्मा(र्मो) वा, यद्वा साधु दयते इति । * 'शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः' (५।२।३७।) इति श्री सि०' सूत्रेण 'दयि-दानगतिहिंसादहनेषु च' इति धातोः आलुच् । लज्जालुईर्ष्यालुशलालुप्रभृतय स्त्वौणादिकाः । कृपालुहृदयालू मत्वर्थीयान्ताविति पूज्याः । दयालुः-कारुणिकः । * "स्याद्दयालुः कारुणिकः कृपालुः" इत्यमरः । यशोभिः-कीर्तिभिः । "यशः कीर्तिः । समज्ञा चे"त्यमरः । सुरभिर्मनोज्ञः । 'सुरभिः स्यान्मनोज्ञेऽपी'ति विश्वः । राजते-दानदाक्षिण्यशौर्यमाधुर्यप्रजापालनादिगुणैः शोभतेऽसाविति राजा । ताम् । दय्यते रक्ष्यते स्मेति दयिता, तां दयितां प्रियाम् । “दयितं वल्लभं प्रियम्" इत्यमरः । अत्र रक्षणकर्माश्रयवाचकसे दयिताशब्दप्रयोगेणैवं द्योतयति यदुत 'न स्त्री स्वातन्त्र्यमर्हति' । तथा चाऽऽह मनुः - पिता रक्षति कौमरे भर्ता रक्षति यौवने । ___रक्षन्ति स्थाविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥१॥ १. अम० तृ. विशेष्यनिघ्नवर्गे -१३ । २. अम० प्र० शब्दादिवर्गे -११ । ३. अम० तृ० विशेष्यनिघ्नवर्गे -५१ । १७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy