________________
गोः रूपं गोरूपम् । 'श्री सि०हे० शब्द० मते गोरूपं धरतीति गोरूपधरा । 'पाणिनीय' मते तु धरतीति धरा, गोरूपस्य धरा गोरूपधरा, तां गोरूपधराम् । ऊर्वी वसुन्धराम् । “वसुधरो (सुधो) र्वी वसुन्धरा" इर्त्यमरः । इव । जुगोप- ररक्ष । भूरक्षणप्रयत्नेनेव रक्षेति भावः ।
1
धेनुपक्षे न अधरा अनधरा, अनधरा अधरा भूताः अधरीभूता इति 'श्री'सि० हे० श०'- मतेन । 'पाणिनीय' मतेन तु अनधरा अधराः सम्पद्यमाना अधरीभूताः । पयसाऽधरीभूताः चत्वारः समुद्राः यस्याः सा पयोधरीभूतचतुःसमुद्रा, तां पयोधरीभूतचतुः समुद्राम् । दुग्धतिरस्कृतसागरामित्यर्थः ॥
वाच्यपरिवर्तनं त्वेवम्- निवर्त्य राज्ञा दयिता दयालुना सा सौरभेयी सुरभिणा यशोभिः पयोधरीभूतचतुःसमुद्रा जुगुपे गोरूपधरेवोर्वी ॥
परमदयालू राजा प्रियतमां सुदक्षिणां सुदूरगमनान्निवर्तयामास, स्वयं च तां नन्दिनीं सर्वभावेन गोप्तुमारेभे । मन्ये नन्दिनीरूपेण प्राप्तां चतुर्भिः स्तनैरिव चतुर्भिर्जलधिभिर्युक्तां साक्षादूर्वी पृथ्वीमिव स जुगोप, इति सरलार्थः ॥३॥
व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः । न चाऽन्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ||४|| व्रतायेति । व्रताय न तु जीवनायेति भावः । धयति तामिति धेनुः । अन्तर्भावितण्यर्थत्वे धयति सुतानिति वा धेनुः । तस्याः धेनोः । अनु पश्चाच्चरतीत्य- नुचरस्तेनाऽनुचरेण । तेन दिलीपेन । शिष्यते इति शेष - अवशिष्ट: । 'शेषः अवशेषे अनन्तेसर्पराजे सर्पभेदे बलदेवे गजे विष्णुमूर्तिभेदे गुणीभूते च' । शिष्धातोर्घञि शेषः । अत्र त्ववशेषार्थे । अनुयान्तीत्येवं शीला अनुयायिनः तेषामनुयायिनां वर्गः अनुयायिवर्गः: • अनुचरवर्गः । न्यषेधि-निवर्तितः । शेषत्वं सुदक्षिणापेक्षया ।
कथं तर्ह्यत्मरक्षणं तस्याऽत आह, न चेति । तस्य दिलीपस्य । शृणाति शीर्यते वा तच्छरीरं देहः । " गात्रं वपुः संहननं, शरीरं वर्ष्मविग्रहः । कायो देहः" इत्यमरः । रक्षणं रक्षा । शरीरस्य रक्षा शरीररक्षा-देहरक्षणम् । च । अन्यस्मादिति अन्यतः - पुरुषान्तरात् । १. अम० द्वि० भूमिवर्गे - २ । १. अम० द्वि० मनुष्यवर्गे - ७१-७२ ।
Jain Education International
१९
For Private & Personal Use Only
www.jainelibrary.org