SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ - विप्रलम्भवचनमिषात् भद्रस्वरूपां दयैकरसिकां करणानुरञ्जितमानसामार्यप्रजां प्रवञ्चयितुमिव । यथा कश्चिदुपरिभागेन शुभत्वेनेक्ष्यमाणमाधारस्वरूपं प्रदर्श्य धूर्तयति भद्रप्रकृतीन् । * किञ्च शुभमङ्गलाचरणाधो न कोऽपि मृत्यादिशोकोदन्तं ल(लि)खति अपि तु र विवाहादिमाङ्गलिकं, एवं यदीदं वास्तवं ‘मा हिंस्यात्' इति मङ्गलाचरणमभविष्यत्, तदा न श्रुतिस्मृतिषु दारुणहिंसाप्रचुरा यज्ञादिविचारा आगमिष्यन् । अत एव पूज्यपादाः । कलिकालसर्वज्ञबिरुदधारिणः श्रीहेमचन्द्रसूरिभगवन्तो यथातथमुक्तवन्त: 'वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । छन्नरक्षो न जैमिनिः' । किञ्च यदि 'यज्ञे हताः पशव उत्तमां गतिमाप्नुवन्ती'ति चेद् युष्मत्सिद्धान्तस्तदा । स्वपितृपितामहमातृमातामहादीन् हत्वैव यज्ञं विधत्त । किं ते सद्गतिमाप्नुवीरन् तत्तेऽनभीष्टम्? । न तेषु ते भक्तिः । अपि च, यज्ञे हता घातकाश्च यदि स्वर्गं प्राप्नुयुस्तदा नरके कैः गम्यते ? आकर्णयताऽवधानतयाऽस्माकं जैनानामात्मैव दयारसानुस्यूत इति । येषु केषुचिदन्यदृशांक ॐ शास्त्रेषु दयाप्रतिपादकवचांसि मांसनिषेधपराणि हिंसामययज्ञान् प्रति आर्याणां तिरस्करणीयताHदर्शकानि वचनानि तानि कतिचिदुद्धियन्ते । महाभारतानुशासनपर्वणि न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्यात् यथाऽऽत्मनि तथा परे ।। इति । शान्तिपर्वण्यपि अहिंसा सर्वजीवानां सर्वजैः परिभाषिता । इदं हि मूलं धर्मस्य शेषस्तस्याऽस्ति विस्तरः ।।१।। यथा मम प्रियाः प्राणास्तथा तस्याऽपि देहिनाम् । इति मत्वा प्रयत्नेन त्याज्यः प्राणिवधो बुधैः ॥२॥ भागवतचतुर्थस्कन्धपञ्चविंशाध्ययने यथा हि पूर्वं बर्हिराजेन स्वेच्छापूर्तये | वेदानुसरणेन सहस्रशः पशुवधयुता यज्ञा विहितास्तथा पुनः स न कुर्यादिति नारदस्तमुपदिदेश । NeAE - १०० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521014
Book TitleNandanvan Kalpataru 2005 00 SrNo 14
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2005
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy