________________
उत्कटो मदो येषां ते उन्मदाः, तेषामुन्मदानामुत्कटमदानाम् । वयसां खगादीनाम् ।। "खगबाल्या-दिनोर्वयः इर्त्यमरः । विरवणानीति वा वि-उपसर्गपूर्वात् 'रु'धातोर्घत्रि विराव:
पु० । विरूयन्ते इति विरावाः, तैः विरावै:-शब्दैः । आलोक्यते इति आलोकः, आङ्-और O, उपसर्गपूर्वात् 'लोकृ' धातोर्घजि आलोकः । 'आलोको दर्शने, उद्योते, बन्दिनामालो
कयेत्यादिस्तुतिवाक्ये" । आलोकनं वाऽऽलोकः" । आलोकस्य शब्द:-वाचकः आलोकशब्दः, तमालोकशब्दम्; अथवाऽऽलोकश्चाऽसौ शब्दश्चाऽऽलोकशब्दः, तम् आलोकशब्दम् ।
आलोकयेति शब्दं राजोचितं जयशब्दमित्यर्थः । “आलोको जयशब्दः स्यात्" इति । मा विश्वः । उदीरयामासुरिवाऽवदन्निवेत्युत्प्रेक्षा । तल्लक्षणं चेदं कुवलयानन्दे
संभावना स्याद्रुत्प्रेक्षा वस्तुहेतुफलात्मनाम् ।
उक्तानुक्तास्पदाऽऽद्याऽत्र सिद्धासिद्धास्पदे परे ॥१॥ अन्यधर्मसम्बन्धनिमित्तेनाऽन्यतादात्म्यसम्भावनमिति भावः । __ वाच्यपरिवर्तनं त्वेवम्-पार्श्वद्रुमैः उन्मदानां वयसां विरावैः विसृष्टपाश्र्वानुचरस्य पाशभृता समस्य तस्याऽऽलोकशब्द उदीरयामासे इव ।
__ यथा राजमन्दिरे चतुष्पथादौ च सेवकाः प्रजाजनाश्च मङ्गलध्वनिभिः तं संवर्धयन्ति स्म तथाऽरण्येऽपि तन्निकटवर्तिनस्तरवः पार्श्वचरविहीनं वरुणवत्प्रभावशालिनं तं नृपं. मत्तखगकुलकूजितरूपेण जयशब्देन संवर्धयामासुः, इति सरलार्थः ॥९॥
द्वाभ्यां युग्मं, त्रिभिविशेषकं, चतुरादिभिः कलापकं, पञ्चादिभिः कुलकमिति - कृत्वाऽतः प्रभृति षड्भिः श्लोकैः कुलकेनाऽऽह ।
पूर्वश्लोके पार्श्वद्रुमाः सत्कारं चक्रुरस्मिश्च बाललता, इति तत्सत्कारसमुच्चयार्थश्च । शब्दः ।
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमय॑मारादभिवर्तमानम् ।
अवाकिरन् बाललताः प्रसूनै-राचारलाजैरिव पौरकन्याः ॥१०॥ मरुत्प्रयुक्ताश्चेति । प्रयुज्यन्ते स्मेति प्रयुक्ताः । मरुता प्रयुक्ता मरुत्प्रयुक्ताः वायुना की प्रेरिताः । बालाश्च ता लताश्च बाललता:-कोमलवल्लयः । आरात्समीपे "आरात् दूर१. अम० तृ० नानार्थवर्गे - २३८ ।
PN
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org