________________
- समीपयोः" इर्त्यमरः । अभिवर्ततेऽसौ अभिवर्तमानस्तम् अभिवर्तमानम् । मरुतो-वायोः । सखा मरुत्सखः । अत्र 'राजन्सखेः' (७।३।१०६।।) इति 'श्रीसिव्हेश०' सूत्रेण सखिशब्दाद
'अट्'समासान्तः । 'राजाहः सखिभ्यष्टच्' [५।४।९१।।] इति पाणिनीयसूत्रेण च टचि । सो 'अवर्णेवर्णस्य' (७।४।३८॥) इति 'श्रीसिव्हे०श० 'सूत्रेण इकारलुकि मरुत्सखः । 'यस्येति । * चे(च) [पा० ६।४।१४८॥] सूत्रेण इकारलोपे मरुत्सखः । आभानमिति आभा ।
मरुत्सखस्याऽऽभेव आभा यस्य स मरुत्सखाभः, तं मरुत्सखाभम् । 'उपसर्गादातः' ।
(५।३।११०।।) इति 'श्रीसि०हेश०' सूत्रेण ङि(अङि) आभा । 'आतश्चोपसर्गे' । [३।३।१०६।।] इति 'पा०' सूत्रेणा-प्रत्यये आभा । अर्चयितुं योग्यः अWः, तम् अर्घ्यर पूज्यम् । तं दिलीपम् । प्रसूयन्ते स्मेति प्रसूनानि, तैः प्रसूनैः । 'षूच्-प्राणिप्रसवे' इति का * 'श्रीसि०हे०श०' धातुपाठपठितस्य दिवादिधातोः क्तप्रत्यये, क्तस्य च 'सूयत्याद्योदितः'
(४।२७०।।) इति 'श्रीसि०हे०श०' सूत्रेण नत्वे प्रसूनानि-कुसुमानि । पाणिनीयमते तु ।
'डुंग्-प्राणिप्रसवे' तक्कर्मणि (तृतीया कर्मणि) [।६।२।४८॥] इति 'क' प्रत्यये 'स्वादय * ओदित' इत्युक्तत्वात् 'ओदितश्च' [८।२।४५॥] इति निष्ठान्तस्य नत्वे 'यस्य विभाषा' - 2 [७।२।१५॥] इति इडभावे भिसि प्रसूनैः । अत एवाऽन्येऽयमप्राणिप्रसवे इतीच्छन्तीति । पूज्याः ।
अदादिगणपठितस्य 'घूङोक्-प्राणिगर्भविमोचने' इत्यस्य नेदं रूपं, तदर्थासम्भवात् । - मी तुदादिपठितस्य 'घूत्-प्रेरणे' इत्यस्याऽपि न, तदर्थासम्भवात् , उदितत्वाभावेन नादेशाभावाच्च । * 'पाणिनीय'मतेऽपि 'घूङ' इति दिवादिधातोरेवेदं रूपम् । तन्मते 'स्वादय ओदित' र - इत्योदितत्वात् 'ओदितश्चेति सूत्रेण तस्य नादेशः । अदादि-तुदाद्योरोदितत्वाभावेन तस्य नत्वाभावात् तदर्थासम्भवाच्च न तयो रूपम् ।।
पुरे भवाः पौराः । कनन्ति कन्यन्ते वा इति कन्याः । पौराश्च ताः कन्याश्च । पौरकन्याः, अथवा पौराणां कन्याः पौरकन्याः । 'श्रीसिव्हेश० 'मते 'हितादिभिः' (३।१।७१।।) इति सूत्रेण तादर्थ्यचतुर्थ्यन्तसमासे, आचरणम् आचारः, आचाराय लाजाः । आचारलाजाः तैः आचारलाजैः । लज्ज्यन्ते भृज्ज्यन्त इति लाजाः । लाजाशब्दो नित्यं को बहुवचनान्तः । पाणिनीयमते तु अश्वघासादिवत् षष्ठीसमासे आचारस्य लाजाः आचारलाजाः, १. अम० तृ० नानार्थवर्गे - २५० ।
RSINom
SES
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org