________________
ॐ
गलज्जलिकाः
HER
डॉ. श्रीअभिराजराजेन्द्रमिश्रः ।
कुलपतिः श्रीसम्पूर्णानन्दसंस्कृतविश्वविद्यालयः
वाराणसी २२१००२ भविष्यति वादः पटहं प्रहर जनिष्यति नादः वचनं रचय भविष्यति वादः ॥१॥
_दूरे विचरसि, को ननु लाभः ?
पार्श्वमुपैहि भवति संवादः ॥२॥ निग्धं पश्य मधुरतामाप्तुम् शमय मनो भवितैवाऽऽह्नादः ॥३॥
देवोऽथवा मनुष्यो घुष्टः
चरितैरेव जनः क्रव्यादः ॥४॥ क्व नु साम्यं, चेदसतां शंसा सदसि, सतामपि यदि परिवादः ॥५॥
हन्त, पलाण्डुलशुनसंघर्षे
प्रभवेत्कस्य तु गुणानुवादः ?? ॥६॥ संशयितो रामस्तत एव यतोऽस्त्ययोध्या फैज़ाबादः ॥७॥
सुरक्षिता संसद्राष्ट्रेऽस्मिन्
स्वाध्याये चेत्कृतः प्रमादः ॥८॥ अभिराजो यद्यपि कटुभाषी तस्य स एवोचितप्रसादः ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org