________________ 11. नैषधीयचरिते इव स्वया भैम्या नैषधेन नलेन अनूढनया अपरिषीततया (त. तत्पु० ) अस्माभिः कृतं विहितं (त. तत्पु० ) यत् चाटु प्रियमधुरवचनम् (कर्मधा० ) तस्मात् जन्म उत्पत्तिः ( पं० तत्पु० ) यस्य वबाभूतम् (प. बी०) शर्म मानन्दो दुरापम् दुर्लभम् अस्तोति शेषः। अस्मन्मधुरबचनजन्यानन्दं नैषधं परिणीयैव स्वमवाप्स्यसोति भावः // 46 // म्याकरण-वनी वन+ोप् / उढ-Vवह+क्तः ( कर्मणि ) / स्वया दुरापम् खलर्थयोग में षष्ठी निषेध, इसलिए कतीर तृतीया। अनुवाद-इसलिए जिस प्रकार बसन्त ऋतु प्राप्त किये बिना आम्र-वाटिका को भ्रमरों द्वारा उत्पन्न किया हुआ आनन्द नहीं प्राप्त हो सकता है, उसी तरह तुम (भो ) नल के साथ विवाह किये विना हमारी मीठी-मीठा बातों से उत्पन्न होने वाला आनन्द नहीं प्राप्त कर सकती हो // 46 // टिप्पणी-यहाँ पूर्व श्लोक को तरह बिम्ब प्रतिबिम्ब भाव रूप सादृश्य होने से उपमा है। शब्दालंकार वृत्त्यनुप्रास है। तस्यैव वा यास्यसि किं न हस्तं दृष्टं विधेः केन मनः प्रविश्य / अजातपाणिग्रहणासि तावद् रूपस्वरूपातिशयाश्रयश्च / / 47 // अन्वयः-त्वम् तस्य एव हस्तं वा किम् न प्राप्स्यसि केन विधेः मनः प्रविश्य दृष्टम् ? त्वम् तावत् अजात-पाणि-ग्रहणा रूप-स्वरूपातिशयाश्रयश्च असि / टीका-स्वम् तस्य नलस्य एव हस्तं वा विकल्पान्तरे किं न प्राप्स्यसि अपितु प्राप्स्यस्येव, नलेन सह तव सम्बन्धः सम्भाव्य एवेति भावः। केन विधेः विधातुः मनः हृदयं प्रविश्य प्रविष्टेन भूत्वा दृष्टं विलोकितम् ? अपि तु न केनापि / विधिस्त्वय्यनुकूलः स्यादित्यर्थः ( यतः ) त्वम् तावत् इदानीम् न जातं पाणिग्रहणं ( कर्मधा० ) पाण्योः करयोः ग्रहणं विवाह इत्यर्थः (10 तत्पु० ) यस्याः तथाभूता अनढत्यर्थः (ब० वी० ) तया रूपं सौन्दर्य च स्वरूपं शोलं चेति ( द्वन्द्व ) तयोः यः अतिशयोऽतिरेकः (10 तत्पु० ) तस्याश्रयः स्थानम् असि वर्तसे। तब सोन्दर्यातिशयः शीलातिशयश्चेत्युभयमपि त्या नलयोग्यीकरोतीति नैराश्यस्य नास्त्यवकाश इति भावः // 47 // अनुवाद-अथवा तुम उसके ही पल्ले क्यों न पड़ोगी ? किसने ब्रह्मा के मन में घुसकर देखा है ? तुम अभी अविवाहित हो और परम सौन्दर्यवती एवं शीलवती हो // 47 // टिप्पणी-यहाँ नल के साथ विवाहित होने की सम्भावना का कारण बताने से काव्यलिङ्ग है / 'रूप' 'रूपा' में छेक और अन्यत्र वृत्त्यनुप्रास है / निशा शशात शिवया गिरीशं श्रिया हरि योजयतः प्रतीतः / विधेरपि स्वारसिकः प्रयासः परस्पर योग्यसमागमाय // 40 // अन्वय-निशा शशाङ्क, शिवया गिरीश, श्रिया हरि योजयतः विधेः अपि स्वारसिकः प्रयास: परस्परम् याग्य-समागमाय प्रतीतः ( अस्ति)। टीका-निशा राव्या शशाङ्क चन्द्रमसम् , शिवया पार्वत्या गिरीशं शिवम् , मिथा छदम्या हरि विष्णुं योजयतः संयोगं प्रापयतः विधेः ब्रह्मयोऽपि स्वारसिकः स्वेच्छानुरूपः, स्वतः प्रवृत्त इति यावत्