________________ नैषधीयचरिते वाचक शब्द के अमाव में प्रतीयमान ही है, किन्तु विद्याधर ने अतिशयोक्ति मानी है। उन्होंने संभवतः इन्द्र के हाथ के साथ शिक्षकत्व का असम्बन्ध होने पर मी सम्बन्ध होने से यह मानी हो। हाथ ओर कल्पवृक्षों के चेतनीकरण से समासोक्ति मी है। शब्दालंकार वृत्त्यनुप्रास है। मुद्रितान्यजनसंकथनः सन्नारदं बलरिपुः समवादीत् / आकरः स्वपरभूरिकथानां प्रायशो हि सुहृदोः सहवासः // 12 // अन्वयः-बल-रिपुः मुद्रितान्यजनसंकथनः सन् नारदम् समवादोत् ; हि सुहृदोः सहवासः प्रायशः स्व-पर-भरि कथानाम् आकरो भवति / टीका-बलस्य एतन्नाम्नो राक्षसविशेषस्य रिपुः शत्रुः बलहन्ता इन्द्र इत्यर्थः मुद्रितम् अन्यजनसंकथनम् ( कर्मधा० ) अन्यैः अपरैः जनैः लोकैः ( कर्मधा० ) कथनम् संमाषणम् वार्तालापः इति यावत् ( तृ० तत्पु० ) येन तथाभूतः ( ब० वी० ) सन् नारदम् समवादीत् उवाच हि यतः सुहृदोः द्वयोः मित्रयोः सहवालः एकत्र सहस्थितिः सम्मेलनभिति यावत् प्रायशः प्रायेण स्वे आत्मीयाः परे अन्ये च ( द्वन्द्व ) तेषां याः भूरिकथाः ( 10 तत्पु० ) भूरयो बढ्यश्च ताः कथाः वृत्तान्ताः प्रसङ्गा इति यानत् तासाम् ( कर्मधा० ) आकरः खनिः (10 त० ) भवतीति शेषः, मित्रे मिलिते स्व-पर-जन-सम्बन्धी भूयान् संलापश्चलतीति मावः / / 12 / / व्याकरण-संकथनम् सम् + कथ् + ल्युट ( भावे ) / सहवासः सह+/वस+घम् ( मावे ) / प्रायशः प्राय+शस् / कथा/कथ् + अङ् ( भावे )+टापू / अनुवाद-अन्य लोगों से बात करना छोड़े हुए इन्द्र नारद को बोला, क्योंकि दो मित्रों का साथ इकट्ठा होना निज एवं पराये लोगों से सम्बन्ध रखने वाली बहुत सी बातों का खान हुआ करता है / / 12 / / टिप्पणी-यहाँ पूर्वार्ध-गत विशेष बात का उत्तरार्ध-गत सामान्य बात से समर्थन किया गया है, अतः अर्थान्तरन्यास है, किन्तु विद्याधर यहाँ स्वभावोक्ति भी मानते हैं / 'कथनः' 'कथाना' तथा "सुहृदो' 'सहवासः' में छेक और अन्यत्र वृत्त्यनुपास है। तं कथानुकथनप्रसृतायां दूरमालपनकौतुकितायाम् / भूभृतां चिरमनागमहेतुं ज्ञातुमिच्छुरवदच्छतमन्युः // 13 // अन्वयः-शतमन्युः आलपन-कौतुकितायाम् दूरम् कथा.. याम् ( सत्याम् ) चिरम् भूभृताम् , अनागम हेतुम् शातुम् इच्छुः ( सन् ) तम् अवदत् / / टीका-शतम् मन्यवः क्रतवो यक्षा इति यावत् यस्य तथाभूतः ( ब० व्रो०) इन्द्रः इत्यर्थः ('मन्युदन्ये क्रती कृधि' इत्यमरः) भालपने संभाषणे या कौतुकिता कुतूहलम् उत्कण्ठेति यावत् तस्याम् ( स० तत्पु० ) दूरम् अत्यन्तम् यथा स्यात्तया कथा च अनुकथनम्चेति तेन ( द्वन्द्व ) वचनानुवचनेन उत्तर-प्रत्त्युत्तराभ्यामिति यावत् प्रसृतायाम् गतायाम् सत्याम् चिरम् चिरात्प्रभृति बहुतिथात् कालादित्यर्थः भूभृताम् धरप्पीधराणां नृपाप्यामिति यावत् न आगमनम् स्वर्ग अप्राप्तिः (नञ् तरपु० ) तस्य हेतुम् कारणम् ( 10 तत्पु०) ज्ञातुम् वोधुम् इच्छुः इच्छावान् सन् तम्