________________ 114 नैषधीयचरिते इतीरयित्वा विरराम पत्री स राजपुत्रीहृदयं बुभुत्सुः / हृदे गमीरे हृदि चावगाढे शंसन्ति कार्यावतरं हि सन्तः // 53 // अन्धयः-राजपुत्रा-हृदयम् बुभुत्सुः स पत्री इति इयत्वा विरराम / हि सन्तः गभोरे हदे हृदि च अवगाढ़े सति कायतरवम् शंसन्ति / टीका- राशो भोमस्य पुत्री कन्या भैमीत्यर्थः तस्या हृदयम् मनः बुभुत्सुः बोद्धमिन्छः तस्या नलं प्रति हृदयेऽनुरागोऽस्ति न वेति जिज्ञासुरिति यावत् स पत्री पक्षी हंस इत्यर्थः इति एवं प्रकारेण ईरयित्वा कयित्वा विरराम विरतोऽभवत् , तूष्णीं बभूवेति यावत् / हि यतः सन्तः सज्जना गमारे अगाधे हदे जलाशये गभीरे गूढाभिप्रा ये हृदि हृदये च अवगाढे कृतावगाहे ाथ च ज्ञाने सति कार्यस्य स्नानादिकस्य अथ च रहस्य-प्रतिपादनस्य अवतरम् अवतरणरथानम् अथ च प्रस्तावं (प० तत्पु० ) शंसन्ति कथयन्ति / अयं मावः यथा जलाशयरय गाधताम् अगाधता वाऽविज्ञाय तत्र स्नानार्थ घनिदेशः कतुं न शक्यते, तथैव कस्यापि हृदयस्याभिप्रायमविज्ञाय कार्यावक्षेपस्य प्रस्तावः कतुं न शक्यते // 53 // व्याकरण-बुभुत्सुः बुध + सन् +ड:, "हृदयम्' में 'न लोका' (12 / 3 / 69 ) से षष्ठी. निषेध / पत्री पत्रे = पक्षावस्यारतीति पत्र+इन् ( मतुबर्थीय ) / ईरयिरवा Vई+व+कत्वा / विरराम विपराभ्यां जेः (1.3.19 ) से परस्मैः / श्रवगाढ प्रव+/गाह्+क्तः ( कमाण) अनुवाद-राजकुमारी ( दमयन्ती ) के हृदय को जानना चाहता हुआ वह पक्षी ( हंस ) यह वह के चुप हो गया, क्योकि सज्जन लोग गहरे जलाशय तथा हृदय की थाह लेने के बाद हा कार्य (स्नानादि; किसी कार्यविशेष ) की अवतारणा कहते हैं // 53 // टिप्पणी-यहाँ पूर्वाधंगत विशेष बात का उत्तरार्धगत सामान्य बात द्वारा समर्थन किया गया है, अतः अथान्तरन्यास है, जिसका प्रस्तुत हृदय और अप्रस्तुत हद का एकधर्माभिसम्बन्ध में होने वाले दीपक के साथ सांकर्य है। गमीर अवगाढ और कार्यावतर शब्दों में श्लेष है, जो एकपा(म. सम्बन्ध बना रहे हैं। शब्दालंकारों में 'पत्री' 'पुत्री', 'हृदे' 'हद' तथा 'सन्ति' 'सन्त.' में छेक और अन्यत्र वृत्त्यनुप्रास है। किञ्चित्तिरश्चीनविलोलमौलिविचिन्त्य वाच्यं मनसा मुहर्तम् / पतत्रिणं सा पृथिवीन्द्रपुत्री जगाद वक्त्रेण तृणीकृतेन्दुः // 54 // अन्वयः-किञ्चत् मौलिः, वक्ष तृणीकृतेन्दुः सा पृथिवीन्द्र पुत्री मुहूर्तम् मनसा वाच्यं विचिन्त्य पतत्रिणम् जगाद। ____टीका-किञ्चित् ईषत् , यथा स्यात्तथा तिरश्चीनो वक्रश्च विलोल: चञ्चलश्च (कर्मधा० ) मौलिः शिरः ( कर्मधा० ) यस्यास्तथाभूता (ब० वी०) वक्त्रेष सौन्दर्यपूणेन मुखेन अतृपं तृणं सम्पाद्यमानः कृत इति तृणीकृतः तृपवत् तुच्छीकृतः पराजित इति यावत् इन्दुः चन्द्रमाः ( कर्मधा० ) यया तथाभूता (20 बी० ) पृथिव्याः क्षिस्या इन्द्रः स्वामी भीम इत्यर्थः तस्य पुत्रो कन्या दमयन्ती ( उमयत्र 50 तत्पु०) मुहूर्त किश्चरकालं मनसा चेतसा वाच्यं वचनीयं हंसाय कथनीयमिति यावत् विचिन्त्य विचार्य पतत्रिणं पक्षिणं हंसं जगाद उवाच // 54 //