Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
Catalog link: https://jainqq.org/explore/521032/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः३२ शासनसमाजामिह समूदाये मेरुपर्वतोपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं-नन्दतात् सुचिरम् ।। वि० सं० २०७० उत्तरायणम् सङ्कलनम् कीर्तित्रयी For Personal Private Use om Page #2 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरूः ३२ शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥ वि.सं. २०७० उत्तरायणम् सङ्कलनम् : कीर्तित्रयी For Personal & Private Use Only Page #3 -------------------------------------------------------------------------- ________________ नन्दनवनकल्पतरुः ३२ सङ्कलनम् : कीर्तित्रयी ॥ प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥ वि.सं. २०७०, ई.सं. २०१४ मूल्यम् : रू. १००/ जालपुटसङ्केत्तः email : s.samrat2005@gmail.com प्राप्तिस्थानम् श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर १२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष: 079-26622465, 09408637714 सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः" C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981 M. 9979852135 आर्थिक सौजन्यम् शासनसम्राट-समुदायवर्तिसाध्वीश्रीचारित्रश्रीशिष्यासाध्वीश्रीसरस्वतीश्रीशिष्यासाध्वीश्रीमनोरमाश्रीप्रेरणया शारदाबेन-आराधनाभवनस्य (साबरमती) श्राविकावर्गेण नन्दनवनकल्पतरोभत्रिंश्याः शाखायाः प्रकाशनार्थमार्थिकः सहयोगः कृतोऽस्ति ॥ मुद्रणम् : 'क्रिष्ना ग्राफिक्स' नारणपुरा जूना गाम, अमदावाद-३८००१३ दूरभाष : 079 - 27494393 For Personal & Private Use Only Page #4 -------------------------------------------------------------------------- ________________ | वाचकानां प्रतिभावः सर्वार्थं संस्कृतम् ॥ संस्कृतं ये प्रशंसन्ति ये प्रशंसन्ति संस्कृतिम् । भारतं ये प्रशंसन्ति धन्यं जीवन्ति ते नराः ।। प्रणम्याः विजयशीलचन्द्रसूरीश्वराः, समादरणीया कीर्तित्रयी, नमो नमः ।। स्वागतं नन्दनवनकल्पतरोः (शाखा-३१) सधन्यवादम् । "किमर्थं संस्कृतं ज्ञेयम् ?" इति कृते प्रश्ने, बहुधा जायते आश्चर्यम् । 'सुधर्मा' पत्रिकायाम्, अन्यत्र च पुनः पुनः प्रतिपादितं संस्कृतस्य महत्त्वं, न कस्याऽपि परोक्षम् । भारतीय-संस्कृत्याः, अस्माकं राष्ट्रस्य समृद्ध-वैचारिकसम्पत्तेश्चाऽवबोधार्थं संस्कृतप्राकृतयोः परिचयोऽनिवार्य एव। अपि च, यः संस्कृतज्ञः, स भारतीयां कामपि भाषामवगन्तुं सक्षमो भवति, यतः सर्वास्ताः संस्कृतमूलाः । सर्वासु, ६०-७० शब्दाः प्रतिशतं, संस्कृताः, तद्भवाः, तत्समाश्च सन्ति । संस्कृतभाषा शिष्टा, शिष्टत्वदायिनी, शिष्टाचारप्रदायिनी च । निश्चितं रूपमस्याः, कम्प्युटरयुगे तु सविशेषमाकार्यम् । व्याकरणदृष्ट्या, उच्चारणदृष्ट्या वा नाऽन्या भाषाऽस्ति संस्कृतसदृशी। सन्धिसमासादीनां योजना, सूत्रात्मकता चाऽपि, संस्कृतस्य वैशिष्ट्यरूपेण । प्रयोगैरपि प्रतिज्ञापितं यत् संस्कृतपद्यानां सम्यक्गानं रोगान् हरति । अस्या गानमाधुरी, आह्लादयति मानसम् । अद्याऽपि, संस्कृते कथाकाव्यनाटकादीनां लेखनं पठनं च बहुधा भवति समग्रे भारते वाचि अपि प्रयुज्यते सा । समग्रे भारते, एषा भाषैव, विना प्रान्तभेदं विना जातिभेदं वा स्वीकृता सर्वैः । भारतस्य ऐक्याथ, सत्यमिदं ज्ञात्वैव, विदेशीया तथाऽपि सर्वाधिका भारतीया पुदुच्चेरी(पोंडिचेरी)स्था श्रीमाताजी साग्रहं निवेदयति यत्, सर्वैः स्वीकृतत्वेन, एषा भाषा भारतस्य राष्ट्रभाषा भवितुमर्हति । अस्माकं माता एषा । मातुर्व्यावहारिकं मूल्यं नैव विचार्यते । पूज्याया मातुः संस्कारा एव गृह्यन्ते । ऋणं च स्वीक्रियते । जन्मत आरभ्य (तत्पूर्वमपि), मृत्योरनन्तरमपि, सर्वे संस्काराः संस्कृते एव । आत्मीयत्वमस्माकमनया सह। 'अस्तु संस्कृताश्रितं जीवनं वर मिति संस्कृतानां संस्कृतज्ञानां वशंवदः डॉ.वासुदेवः पाठकः अमदावादः १५ डॉ. रूपनारायणपाण्डेयः मनीकापूरा (चाँदपुर), सोरामः, प्रयागः, उ.प्र. २१२५०२, मो. ९९३६९३०५७५ For Personal & Private Use Only Page #5 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः महात्मन्, नन्दनवनकल्पतरोः एकत्रिंशी शाखा अत्र प्राप्ता । पूर्वं यथोक्तम्, अहं कल्पतरुवाचनेन द्वेधा लाभान्वितः अस्मि । (जैनदर्शनपरिचयेन, संस्कृतस्य विशिष्टप्रयोगाणां क्रोडीकरणेन चेति) । तत्र सर्वा अपि पद्यरचना हृद्याः । आचार्य विजयहेमचन्द्रसूरिभिलिखितं श्रीनेमिसौभाग्यमहाकाव्यं तत्रत्यवाक्प्रवाहेण मनोऽकार्सीत् । मुनिकल्याणकीर्तिविजयैलिखितः 'शून्यता' इति वैज्ञानिकलेखो मां गीतायास्त्रयोदशेऽध्याये "ब्रह्म न सत्, न च असत्' इति यदुक्तं, तदस्मारयत् । तत्र "प्रोटोनकणस्य परितः" इति दृष्टम् (३७तमे पुटे मध्यभागे ईषदुपरि) तत्तु “प्रोटोनकणं परितः" इति स्यात् चेत् उत्तमम् । हेरमानहेसस्य सिद्धार्थकथाया आङ्ग्लानुवादः पूर्वं पठित आसीत् । इदानीं कल्पतरौ तस्य संस्कृतानुवादं दृष्ट्वाऽतीव प्रसन्नोऽभवम् । अनुवादकेभ्यो मुनिकल्याणकीर्तिविजयेभ्यो नमः । तैरेव लिखिता अमरदत्तमित्रानन्दयोः कथाऽपि मह्यमतीवाऽरोचत । इति भवदीयः रवीन्द्रः Palghat-678012 For Personal & Private Use Only Page #6 -------------------------------------------------------------------------- ________________ वाचकानां प्रतिभावः मान्याः, सादरं प्रणामाः । 'नन्दनवनकल्पतरोः' त्रिंशत्तम्यां शाखायां सम्पादकीये सत्यं निगद्यते यत् साम्प्रतमपि तमोगुणोपेते भारते महामानवाः सञ्जायन्ते । विषमेऽपि कालेऽस्भाभिः स्वसंस्कृतेः संरक्षणस्य संवर्धनस्य सामञ्जस्यतत्त्वस्य चाऽन्वेषणस्य प्रयत्ना विधेयाः । तदर्थं नन्दनकल्पतरुपरिवारः प्रयततेऽनारतम् । अस्यां शाखायां डा.रामकिशोरमिश्र-देवर्षि कलानाथ-एच्.वि.नागराजराव्-डा. वासुदेव पाठकादीनां कृतयोऽभिनन्दनीयाः सन्ति । मुनिवर्यैः प्रणीताः कथाः 'साम्राज्यस्थैर्यमूलम्', 'योगक्षेमं वहाम्यहम्', 'भिक्षुकाणां राजा', 'देशस्य जातोऽस्ति प्रतिश्यायव्याधिः' इत्यादयो न केवलं सन्मार्गमुपदिशन्ति, अपि तु व्यञ्जनया समाजस्य राष्ट्रस्य च परिस्थितिपरिष्कारस्योपायान् अपि निर्दिशन्ति । संस्कृतविभागस्य अध्यक्षेण प्रस्तुतो लेखो न केवलं तस्य लेखनस्खलितानि सूचयति अपि तु साम्प्रतं समाजे राष्ट्रे च नितरामारक्षणव्यवस्थया, उत्कोचबलेन, अन्यायेन वा कृतानां नियुक्तीनां दोषान् अपि सम्यग् विशदीकरोति । मन्ये - लेखनात् प्राग् लेखकैः स्वलेखानां रचनानां वा दोषाः स्वयमेव सविवेकं चिन्तनीयाः, अन्यथा संस्कृतभाषायाः संस्कृतत्वं सुरक्षितं न स्यात् । चिन्तयन्तु सुविज्ञाः । जयति संस्कृतं संस्कृतिश्च । डॉ. रूपनारायणपाण्डेयः For Personal & Private Use Only Page #7 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् लेखनं नाम किम् ? कस्यचन भावस्य विचारस्य वा भाषामाध्यमेनाऽभिव्यज्याऽन्यस्य मनसि प्रापणं प्रत्यायनं वा नाम लेखनम् । अत्र हि तत्त्वद्वयमस्ति – कथयितव्यं, भाषा च । तन्नाम, प्रथमं तावत् यत् कथयितव्यमस्ति तद्विषयकः स्पष्टो बोध आवश्यकः । असति हि स्पष्टे बोधे सुष्ट्वप्यभिव्यक्तिसामर्थ्यं परप्रत्यायने सफलं नैव भवेत् । स्पष्टे बोधे च सति तदभिव्यक्त्यर्थं भाषासामर्थ्यमपि सुतरामावश्यकम् । अन्यथा स्वमनसि स्पष्टबोधवत्यपि लेखनं निष्फलं भवेत् । एवं च तत्त्वद्वये सत्येव सफलतया लेखनं कर्तुं शक्यम् । यो हि स्वेन कथयितव्यं किमित्येव न जानाति तस्य लेखनं हि यथाकथञ्चित् प्रवर्तमानमुन्मत्तस्याऽटाट्येव भवति । एतादृशे लेखनेऽसाङ्गत्यमसम्बद्धतास्पष्टतेत्यादयो दोषा दृश्यन्ते । ततश्च वाचकस्य प्रत्यायनं सर्वथा न भवति । यश्च कथयितव्यं सम्यगवबुध्यते किन्तु तदभिव्यक्तये भाषासामर्थ्यं न धारयति तस्य लेखनं यद्यपि प्रत्यायनसमर्थं तु कथञ्चिद् भवेत् तथाऽपि तस्य यथार्थः प्रभावो नैव भवेत् । 6 For Personal & Private Use Only Page #8 -------------------------------------------------------------------------- ________________ अत्र निष्कर्षस्त्वयमेव यल्लेखनार्थं प्रथम सोपानं स्पष्टो बोधोऽनिवार्यः, तस्मिंश्च सति भाषाप्रावीण्यमावश्यकम् । तत्त्वयोश्चैनयोराधारेण लेखकानामपि चतुभिः प्रकारैर्वर्गीकरणं शक्यम् - १. यस्य विचारणं स्पष्टं तर्कशुद्धं च स्यात्, तदभिव्यक्तिसमर्थं च भाषाप्रावीण्यमपि स्यात् । २. यस्य विचारणं स्पष्टं स्यात्, परं भाषासज्जताऽल्पीयसी स्यात् । ३. यस्याऽभिव्यक्तिसामर्थ्य भाषाप्रावीण्यं च स्यात् परं विचारशक्तिरल्पीयसी स्यात् । ४. यस्य विचारणं त्वस्पष्टमेव स्यात् सहैव भाषासज्जताऽपि न स्यात् । अत्र प्रथमः प्रकारः सर्वथा प्रशस्यः । द्वितीयोऽपि कथञ्चिदुत्तीर्ण एव । परं तृतीयश्चतुर्थश्च प्रकारः सर्वथा नाऽऽदरणीयः । किन्त्वद्यत्वे साहित्यजगतो दौर्भाग्यमस्ति यल्लेखकेषु पाश्चात्यौ द्वौ प्रकारावेवाऽत्यधिकतया दृश्येते । अतः सर्वत्र तुच्छानां निःसाराणां चैव पुस्तकानां प्रसारः प्रचारश्चाऽऽधिक्येन दृश्यते । ____ अत्र कारणानि तु बहूनि स्युः परं द्वित्राणि तु विशेषतया प्रतिभान्ति-प्रथमं तावदस्मिन् युगे मुद्रणमतिसुलभं सञ्जातमस्ति । यः कोऽपि जनो यत्किमपि लिखित्वा यदा-कदाचिदपि मुद्रयितुं प्रकाशयितुं समर्थो जातोऽस्ति । अन्यच्च, पूर्वं हि लेखकाः स्वलिखितं सर्वमधिकारिविद्वज्जनेन संशोधयन्ति स्म, तत्सकाशाच्चाऽनुमतौ लब्धायामेव तत् प्रकाशयन्ति स्म । किन्त्वद्यत्वे तादृशं नियामकं किमपि तत्त्वं समाजे न विद्यते, यतः प्रायो जना जन्मन्याः सन्ति । यदि च कुत्रचित् तादृशं तत्त्वं स्यात्तदाऽपि तस्याऽवधीरणमेव क्रियते । फलतश्च साहित्यजगतो महान् भागो निरर्थकैर्मुद्रणैनिःसारैश्च प्रकाशनैः सङ्कलो जातोऽस्ति । एतेन सद्वाचनमिच्छतामपि सामान्यवाचकानां समक्षं तादृशान्येव पुस्तकानि पुरस्क्रियन्ते । उत्तमानि पुस्तकानि त्वत्यल्पानि कुत्रचिन्निलीनानीव शोधनेनैव प्राप्यन्ते । ___ अथ चाऽसाराणि पुस्तकानि पठित्वा ये नूतनतया लेखका भवन्ति तेऽपि तादृगेव लिखन्तीति दुश्चक्रमिदं सदाऽऽवर्तमानमेव भवति । एतस्माद्दुश्चक्रात् समाजस्य बहिरानयनं हि प्रेक्षावतामधिकारिणां च विद्वज्जनानां लेखकानां च कर्तव्यम् । तच्च तैरविलम्बेनाऽस्खलिततया च निर्वोढव्यमेवाऽन्यथाऽऽगामिनि काले समाजोऽयं पठन-वाचनाभ्यां निविण्ण एव भविष्यति । किं वयमेतदर्थं सज्जाः स्मो वा ? चिन्त्यताम् !! कीर्तित्रयी चैत्रशुक्ला पूर्णिमा गोधरानगरम् For Personal & Private Use Only Page #9 -------------------------------------------------------------------------- ________________ अनुक्रमः पृष्ठम् कर्ता आ. अजितयश:सूरिः आ. विजयहेमचन्द्रसूरिः आ. विजयहेमच आ. विजयधर्मधुरन्धरसूरिः एच्. वि. नागराजराव् डॉ. वासुदेव वि. पाठकः डॉ. वासुदेव वि. पाठकः डॉ. वासुदेव वि. पाठकः orm SWAMMAR देवर्षिकलानाथशास्त्री प्रो. कमलेशकुमार छ. चोकसी पूज्याचार्यश्रीमुनिसुन्दरसूरयः कृतिः . श्रीआदिजिनस्तुत्यष्टकम् श्रीगौतमस्वामि-स्तुति-षोडशिका श्रीसरस्वतीस्तोत्रम् श्रीनेमिस्तवः सज्जनशतकम् संस्कताश्रिता नामाक्षराणि गुर्जरदेशः विनोदपृषताः [विडम्बन-काव्यम्] आधुनिक्या यक्षपल्या मेघसन्देशस्योत्तरम् क्रमशोऽत्र प्रवर्तते प्राचीनं साहित्यम् विद्यगोष्ठी आस्वादः प्रगाढ़विचाराः पत्रम्मुनिधर्मकीर्तिविजयः सिद्धार्थः (द्वितीयभागः) अनुवादः तरणोपायः ग्रन्थसमीक्षा 'संस्कृतकवितासृष्टिः' (संस्कृतकवितासंग्रहः) मर्म गभीरम् कथा बालकस्य देशभक्तिः किं कृतं त्वया ? त्यागः कृतो मया विरलानि संस्कारमूल्यानि निर्लोभिता मर्म नर्म प्राकृतविभागः कथा पाइयविन्नाणकहा डॉ. मदनलालवर्मा ४८ मुनिकल्याणकीर्तिविजयः मुनिधर्मकीर्तिविजयः ११३ डा. रूपनारायणपाण्डेयः मुनिकल्याणकीर्तिविजयः ११८ १२४ १२६ मुनिरत्नकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिः अक्षयरत्नविजयः सा. श्रीधृतियशाश्रीः कीर्तित्रयी १२७ १३२ १३३ आ.विजयकस्तूरसूरिः १३५ For Personal & Private Use Only Page #10 -------------------------------------------------------------------------- ________________ श्रीआदिजिनस्तुत्यष्टकम् आ.अजितयशःसूरि* विद्यादिमण्डनमुनीशकृतप्रतिष्ठं कर्माख्यश्रेष्ठिरचितं शुभबिम्बज्येष्ठम् । उच्छ्वाससप्तकप्रसिद्धप्रभावपुष्टं सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥ १ ॥ वेलायते लवणिमा ननु देहरेखा वर्तायते च नयने शफरायमाने । यरिंमश्च भव्यजनभावनदीप्रयागाः सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥२॥ * आ.श्रीविजयलब्धिसूरिसमुदायवर्ती । For Personal & Private Use Only Page #11 -------------------------------------------------------------------------- ________________ कूर्मावतारचरणं कमलावतारनेत्रं तथा वदनतो मिहिरावतारम् । चन्द्रावतारधवलं किल मारुदेवं सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥३॥ मध्यस्थताजनितशुद्धप्रसन्नताढ्ये मैत्रीप्रमोदकरुणाजलपुष्करिण्यौ । यल्लोचने प्रथयतो त्रिजगत्पतित्वं सौभाग्यवारिनिधिमादिजिनं वे तम् ॥४॥ सिद्धाचले चलविधूनितवैजयन्त्या भव्यान् निमन्त्रयति यस्य जिनेन्द्रसद्म । सौवर्णदण्डकलशं कलुषोपशान्त्यै सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥५॥ चक्रध्वजाङ्कुशजषैः परिमण्डितं च यस्याऽस्ति पादयुगलं सलिलं घाय । श्रीक्षीरपादपतलेऽखिललोकपूज्यं सौभाग्यवारिनिधिमादिजिनं वे तम् ॥६॥ श्री शान्तिचैत्यप्रमुखैर्बहुचैत्यवृन्दैवृन्दारकालयपरीसरमस्ति यस्य । यस्याऽस्ति सन्मुखमहो गणिपुण्डरीकः सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥७॥ निर्वारिषष्ठतपसा खलु सप्त यात्रा नूनं हि यस्य भवसागरयानपात्रम् । यस्तीर्थनायक जिनो वृजिनस्य वैरी सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥८॥ सूरीशलब्धि-गणनायक विक्रमाख्यसूरीश्वरस्य कृपया यशसाऽजिताख्यः । यस्याष्टकं खलु विधाय लभेय मुक्तिं सौभाग्यवारिनिधिमादिजिनं नुवे तम् ॥९॥ -X २ For Personal & Private Use Only Page #12 -------------------------------------------------------------------------- ________________ श्रीगौतमस्वामि-स्तुति-षोडशिका आ. विजयहेमचन्द्रसूरिः (उपजाति-वृत्तम्) सुवर्ण-पद्मासन-संनिषण्णं, स्फुरत्प्रभामण्डलभासमानम् । देवेन्द्रवृन्दार्चितपादप , श्रीगौतमं सत्तममानमामि ॥१॥ ग्रामः पवित्रः खलु गोब्बराऽऽह्वः, पुण्या च पृथ्वीजननी नितान्तम् । तातोऽपि धन्यो वसुभूतिनामा, यत्राऽजनि श्रीगुरुगौतमोऽयम् ॥२॥ यदीयलोकोत्तरसद्गुणानां, पारं न प्राप्नोति गुरुः कदापि । द्विजान्वयेन्दुर्गुणरत्नसिन्धुः, स राजतां गौतमयोगिराजः ॥३॥ वीरप्रभोराद्यगणाधिपो यो, भव्याम्बुजोदबोधनतिग्मरश्मिः । समीप्सितार्थप्रददर्शनोऽसौ, विराजतां गौतमयोगिराजः ॥४॥ यो बीजबुद्ध्या रचयाञ्चकार, सद्द्वादशाङ्गी भुवनोपकृत्यै । मुहूर्त्तमात्रेण पदत्रयेण, तमिन्द्रभूतिं प्रणमामि कामम् ॥५॥ स्वशक्तितोऽष्टापदपर्वते यो, जगाम नन्तुं जिनराजपादान् । भव्यात्मनां कामितकल्पवृक्षः, स राजतां गौतमयोगिराजः ॥६॥ ख-व्योम-बाण-क्षिति(१५००)-सङ्ख्यकेभ्यः, सत्तापसेभ्यो निजलब्धिशक्त्या । योऽदात् पयोव्याजत एव तत्त्वं, तं गौतमं सद्गुरुमानमामि ॥७॥ उत्पेदिरे योगबलेन यस्य, श्रोतो-नभोयान-पुलाकमुख्याः । अक्षीण-सौषधिलब्धयश्च, तं गौतमं सद्गुरुमानमामि ॥८॥ . For Personal & Private Use Only Page #13 -------------------------------------------------------------------------- ________________ सरस्वती-सद्भुवनेश्वरी-श्रीयक्षाधिराज-त्रिदशेन्द्रमुख्यैः । जयादिदेवीनिकरैश्च पूज्यं, श्रीगौतमं सद्गुरुमानमामि ॥९॥ कृताञ्जलि गपतिः सुभक्त्या, निषेवते यच्चरणारविन्दौ । . भवाब्धिमज्जज्जनयानपात्रं, स गौतमो मङ्गलमातनोतु ॥१०॥ ये दीक्षिता गौतम ! ते कराब्जात्, सर्वे गताः सिद्धिनिकेतनं ते । भव्यात्मने मुक्तिसुखप्रदायी, न त्वत्समोऽन्यो भुवि दानवीरः ॥११॥ स्वामिन् ! त्वदाख्या भुवि यत्र भाति, वसन्ति सर्वे निधयो हि तत्र । कल्पद्रुमादेरधिकः प्रभावी, विराजतां गौतमयोगिराजः ॥१२॥ बोधाय मानो, गुरुभक्तयेऽभूद, रागो विषादश्च चिदाप्तिहेतुः । लोकोत्तरं गौतम ! ते चरित्रं, चित्रीयते वीक्ष्य न को जगत्याम् ? ॥१३॥ 'ॐ हीं नमो'पूर्वकगोयमस्स' मवं जपेल्लक्षमितं नरो यः । स प्राप्य सर्वेप्सितमत्र लोके, स्वर्गापवर्गी लभते परत्र ॥१४॥ इत्थं गणीन्द्रं स्तुतवान् प्रमोदाद्, विनेयप्रद्युम्नमुनिप्रणुनः । श्रीनेमिसूरेरमृताऽऽख्यसूरे-देवस्य शिष्यो मुनिहेमचन्द्रः ॥१५॥ चन्द्राक्षिबिन्दुद्विमितेऽत्र वर्षे (२०२१), ज्येष्ठस्थितौ 'कोठपुरे ऽतिरम्ये । श्रीआदिनाथोच्छ्रितसत्प्रसादात्, कृता स्तुतिः सर्वहिताऽस्तु शश्वत् ॥१६॥ For Personal & Private Use Only Page #14 -------------------------------------------------------------------------- ________________ श्रीसरस्वतीस्तोत्रम् आ.विजयहेमचन्द्रसूरिः [वैतालीयवृत्तम्] शरदिन्दुमनोहराननां, जिनवक्त्राम्बुजवासिनीं मुदा । मतिदां जडतापहारिणी, श्रुतदेवीं समुपास्महेडमलाम् ॥१॥ जडधीरपि ते प्रसादतः, श्रुतदेवि ! स्फुरदच्छधीधनः । समवाप्य तटं श्रुताम्बुधे-श्चकितां राजसभां करोत्यहो ! ॥२॥ विनयावनतोत्तमाङ्गकः, परयाऽऽयोज्य मुदा कराम्बुजे । शुचिभक्तितरङ्गरङ्गितः, समुपासे श्रुतदां सरस्वतीम् ॥३॥ सुरदानवमानवेश्वरा-रतव लब्धं हि कृपालवं गिरे ! । परिहाय निजां निजां क्रियां, तव नामाक्षरमारटन्त्परम् ॥४॥ विधु-कुन्द-तुषारनिर्मलां, तब मूर्तिं परितः प्रभास्वराम् । सितपुष्करसंस्थितां वरां, भुवि माद्यन्ति निरीक्ष्य के न हि? ॥५॥ करसंस्थितवारिवज्जग-लिखिलं यत्कृपया विलोकते । जडधीरपि सा सरस्वती, मतिमालिन्यमपाकरोतु मे ॥६॥ तरसा जडताम्बुधिं हि ते, समवाप्याडच्छप्रसादसत्तरीम् । लसदुल्बणवाग्विभूषणा, नियतं वाणि ! तरन्ति मानवाः ॥७॥ न च तस्य कदाऽप्यसम्भवि, विबुधत्वं च कवित्वमत्र कौ । सकलार्थितकामगौः पतेत्, तव यस्योपरि दृक् प्रसादिता ॥८॥ नमनं तव पादयोर्मम, स्तवनं चाऽपि भवत्वनारतम् । नमनात् स्तवनाच्च भारति !, विमला मे मतिरस्तु सर्वदा ॥९॥ अयि देवि ! किमप्यहं परं, न हि याचे तव संस्तुतेः फलम् । इयदेव तवाऽग्रतो ब्रुचे, न कदापि त्यज सन्निधिं मम ॥१०॥ इति भक्तिभृतेन चेतसा, गुरुदेवक्रमपद्मसेविना । बुधहेमसुधांशुना स्तुता, मतिदा भावपुरेऽस्तु भारती ॥११॥ For Personal & Private Use Only Page #15 -------------------------------------------------------------------------- ________________ | भक्तामरस्तोत्रान्तिमचरणपादपूर्तिरूपः परमगुरुश्रीशासनसम्राजीवनवृत्तवर्णनात्मकः श्रीनेमिस्तवः ॥ आ. श्रीविजयधर्मधुरन्धरसूरिः (वसन्ततिलका-वृत्तम्) अर्हन्मतानुगमनं गुणवत्प्रकाम, स्याद्वादसारनयभङ्गभराभिरामम् । नेमे ! गुरो ! तव वचोऽस्त्यधुनातनानां । . वाऽऽलम्बनं भवजले पततां जनानाम् ॥१॥ सत्तलक्षणसुलक्षणप्रीतप्रीतैः, सूरीश्वरैः स्तुतिपथं गमितं सुगीतैः । त्वां भक्तिनिर्भरहृदा प्रणिपत्य सेन्द्र, __ स्तोष्ये किलाऽहमपि तं प्रथमं जिनेन्द्रम् ॥२॥ त्वां रूपपणचणं विदितात्मरूपं सेष्टे जडः कवयितुं कथमिष्टरूपम् । मन्दं विना दिनकरं गमने वरीतु ___ मन्यः फ इच्छति जनः सहसा ग्रहीतुम् ॥३॥ स्तोत्रं विधातुमिह कोऽविकलोऽपि हीशः, सद्धर्मधुर्य ! तव दिव्यगिरा मुनीश ! । को गन्तुमत्र गहनान्तमरं पदाभ्यां, ___ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥४॥ शक्तिं विचारपदवीमविधाय भक्त्या, बाढं तव स्तवनमाचरितुं विरक्त्या । उत्साहितोऽस्मि समवेक्ष्य न वै महार्थं, नाऽभ्येति किं निजशिशोः परिपालनार्थम् ? ॥५॥ रूपं विशुद्धतरमत्र गुरो ! त्वदीयं, संकर्षते नवनवे हृदयं मदीयम् । यद् रौति पञ्चमरवं भुवि काककेतु स्तच्चारुचूतकलिकानिकरैकहेतु ॥६॥ ज्ञानावृति त्वदभिधानहतं हताशं, करिमस्तृसमयं वृणुते विनाशम् । For Personal & Private Use Only Page #16 -------------------------------------------------------------------------- ________________ लोके दुरन्तमखिलं निहतप्रचारं, सूर्यांशुभिन्नमिव शाश्मन्धकारम् ॥७॥ इत्थं विचार्य विहितं गुणगौरवं ते, स्तोत्रं सतां हृदयमाविशतीष्टमन्ते । भावरतवैव हि सरोजदले सदिन्दु मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ स्तोत्रेण किं त्वदभिधानत एव नव्यं, नानाविधं भवति शं भुवि भव्यभव्यम् । भानुं विनाऽपि किरणैर्मधुरं विराञ्जि, पद्माकरेषु जलजानि विकाशभाञ्जि ॥९॥ हे योगिनाथ ! भवता भवतः समानाः, . सम्पादिता जगति सूरिवराः प्रधानाः । युक्तं प्रदीप इह दीपकमातनोति, भूत्याश्रितं य इह नाऽऽत्मसमं करोति ॥१०॥ श्रुत्वा मुनीन्द्र ! तव मेघगभीरवाणी, ___ मिथ्यात्वदर्दुरगिरं शृणुयाल प्राणी । त्यक्त्वा सुधामधरगां लवणं च गच्छेत्, क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥११॥ दूरं गता विकृतिपोषकरा विहाय, त्वां शीलरुपमणवोऽरिवरं प्रभाय । ब्रह्मात्मनस्तव शरीरमरुपमस्ति, यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ आरयं त्वदीयमनिशं न जहाति लास्यं, __ स्वाभाविकं स्फुरति तत्र सदैव हास्यम् । पापात्मनां तव पुरो वदनं सजल्पं, यद्वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ सत्तर्क-लक्षण-जिनागम-काव्य-दैव विद्यास्त्वयाऽवगमिता मुनयः सदैव । शिष्याः समस्तविषयेषु चरन्त्यथेष्टं, कस्तानिवारयति सञ्चरतो यथेष्टम् ॥१४॥ For Personal & Private Use Only Page #17 -------------------------------------------------------------------------- ________________ आजन्मतोऽपि विषयेन धृतं प्रशान्तं, स्वान्तं त्वया स्ववशतो विहितं नितान्तम् । शब्दादिनाऽप्यचलिता दृढता नु काचित्, किं मन्दरादिशिखरं चलितं कदाचित् ॥१५॥ सबुद्धिवर्तिरभितो हृदयान्तराल गाढान्तरालहरणप्रवणोऽकरालः । स्नेहेन शास्त्ररुचिना रुचिरं चकासद् दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाशः ॥१६॥ सूर्यः खरैः करभरैर्भुवनं निहन्ति, न त्वां तथा बुधजना उपमां नयन्ति । प्रीतिं दधासि सततं ननु भव्यलोके, सूर्यातिशायिमहिमाऽसि मुनीन्द्र! लोके ॥१७॥ ज्योत्स्ना समग्रभुवनेऽस्ति यशःस्वपा, त्वत्संस्थितिर्न च कदापि बुधादिरूपा । त्वदर्शनं मधुरयेत् कटुकं नु निम्बं, विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ सम्यक्त्वबीजवपनात् परमात्मभूते, , क्षेत्रे वचोमृतप्रवर्षणतः प्रसूते । धान्यं शिवं सलिलदोऽयमसारकनैः, कार्यं कियज्जलधरैर्जलभरननैः ॥१९॥ नैसर्गिकं सुजनजाड्यहरं चिरत्ने, तेजश्चकास्ति भगवंस्तव चित्तरले । नाऽन्यत्र दृष्टमथवाऽस्ति विभाकरेऽपि, नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ संसारवारिनिधिजातदुरन्तदोष, हृत्वा सदाऽऽचरितमत्र सदात्मपोषम् । जैनं वचस्तव तथा लसदन्तरेऽपि, कश्चिन्मनो हरति नाऽथ भवान्तरेऽपि ॥२१॥ श्रीमद्यशोविजयवाचकमुख्यग्रन्थान्, विश्वे तवैव प्रतिभा कृतवत्यकन्थान् । For Personal & Private Use Only Page #18 -------------------------------------------------------------------------- ________________ आशाः पराः प्रसवते परमर्कमालं, प्राच्येव दिग् जनयति स्फुरदंशुजालम् ॥२२॥ सद्दर्शनाविकलचिच्चरणानि तानि, ___मार्गोऽयमेव ननु पारगतोदितानि । उद्घोषितं नु भवताऽपि भवस्य मन्था नाऽन्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ॥२३॥ व्याख्यानभूरतिविशालतरा यदीयं, स्यात् श्रोतुमात्महितकूद्वचनं त्वदीयम् । कीर्णाऽऽगतैः समजनस्तदिहोल्लसन्तो, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥२४॥ दुर्गत्यभावकरणालरकान्तकोऽसि, को मोदकारकतया नु कुमोदकोऽसि । दुर्दान्तकामदमनान्नु बलिन्दमोऽसि, ___ व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ अद्यापि तत्स्मृतिपथं न जहाति सूक्तं, भक्त्या त्वया जिनवरं प्रणिपत्य सूक्तम् । तुभ्यं नमस्त्रिजगतः परितोषणाय, तुभ्यं नमो जिन! भवोदधिशोषणाय ॥२६॥ दीक्षाङ्गनां विरतितः परिणीय प्रीत्या, तामेव चारु रमयस्यनिशं सुरीत्या । रागङ्गतस्तरललोचनयेक्षितोऽपि, स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥ निर्लोचकेशचयमध्यगतं सुहासं, तेजस्वितप्ततपनीयतरप्रभावम् । आस्यं त्वदीयमतुलं विलसत्यनर्ति, बिम्बं रवेरिव पयोधरपार्श्ववर्ति ॥२८॥ जन्माभिषेकसमयेकनकाद्रिशृङ्गे, कीदृग विभाति जिनबिम्बममर्त्यभृङ्गे । बिम्बं सुचारु भवतोपमितं सदश्मे, तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥२९॥ For Personal & Private Use Only Page #19 -------------------------------------------------------------------------- ________________ कादम्बके गिरिवरे जिनराज्यचैत्ये, त्वत्स्थापिते भवजतापविनाशिशैत्ये । शृङ्गं विराजति सुवर्णमयाच्छकौम्भ मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ रत्नत्रयं शुभवतो भवतश्चकास्ति ___ लोकत्रये किमपि यत्सदृशं न चाऽस्ति । जाग्रत्प्रभावमुपनीतमुनीश्वरत्वं, ___ प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥ स्तोतुं भवन्तमुचितं कवयन्ति केचित्, काव्ये कलां बहुविधां प्रथयन्ति केचित् । चित्रं विधाय मधुरं कथयन्ति केचित् पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ तेजस्तवैव भगवन् ! विशदान्तरस्य, यादृग् विभाति न तथा मनुजान्तरस्य । सूर्यस्य या लसति कान्तिरुदासिनोऽपि, तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ॥३३॥ सद्धर्मकर्मणि महाभयमाविधूते, ___ श्रीमान् व्रतोच्चरणतीर्थविधानभूते । निर्भीकतां नु भवतां समताश्रितानां, दृष्ट्वा भयं भवति नो भवंदाश्रितानाम् ॥३४॥ वैराग्यभावमधिगत्य गृहीतदीक्षं, माता पिता प्रियतमा तनयः सुशिक्षम् । स्नेहाविलः समुपयाति समाश्रयं ते, नाऽऽक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥ रूपादिपञ्चविषयात्मककाष्ठजातं, ज्ञानादिभरमकणं परिनष्टसातम् । कामानलं विकृतिधूमविरूपवेषं, ___ त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३६॥ दुष्पञ्चमारक भवो मदनातिरेकः, प्रध्वंसितानुभव-भावनसद्विवेकः । १० For Personal & Private Use Only Page #20 -------------------------------------------------------------------------- ________________ मोहद्विजिह्व उपयाति न तं पुमांसं, त्वलामनागदमनी हृदि यस्य पुंसः ॥३७॥ अज्ञानभावजननं तिमिरं मुनीनां, सूक्ष्मार्थबोधकरणे व्यथनं शुचीनाम् । गाढं घनं दिनकरोदयतः समैधि, त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥३८॥ श्रीजैनशासनवरोत्तमजात्यवंशा ज्ञानक्रियात्मशुचिपक्षयुगात्महंसाः । स्वात्मानुरुपमधुमानसमाश्रयन्ते, ___ त्वत्पादपङ्कजवनायिणो लभन्ते ॥३९॥ अध्यात्मवर्त्मनि गता मुनयोऽल्पसत्त्वा - दुःश्वापदादिपरिरुद्धपथा अतत्त्वाः । भीतिं समाधिभरभङ्गकरीं त्यजन्ति, त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ॥४०॥ दारिद्यदुःखदुरितोद्भवदीनदीना दुष्कर्मणामुदयतः प्रहतप्रभावाः । त्वत्सलिधान-धृतसंयमशुद्धरूपा, मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ जैनागमानुभवभाविततावकीनाः क्षीणात्मभावजनकोपशमातिपीनाम् । शैली विभावमथनीं नु यथाऽप्नुवन्ति, __ सद्यः स्वयं विगतबन्धभया भवन्ति ॥४२॥ पुण्यानुबन्धि सुकृतं समुपाय॑ प्राज्यं, प्राप्नोति शाश्वतमरं परमात्मभावम् । सद्भावभावितमना विशदं मिमीते, यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ भक्तामरान्तिमपदानुगतिं विधाय, ___ सूक्तामृतोद्गमसुपुण्यमलं निधाय । त्वां सधुरन्धरमुपैति नु यः सलक्ष्मी स्तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४४॥ For Personal & Private Use Only Page #21 -------------------------------------------------------------------------- ________________ सज्जनशतकम एच्. वि. नागराजराव* अवातरत् सज्जनरक्षणायै झषादिरूपैर्य इह प्रपञ्चे । तं दुष्टसम्मर्दनमादिदेवं जनार्दनं नम्रशिरा नमामि ॥ १ ॥ श्रीकृष्णोऽवततार सज्जनपरित्राणाय भूमण्डले कंसाख्यं निजधान दुष्टमखिलद्विष्टं ह्यनिष्टाशयम् । गीतां चोपदिदेश पाण्डुतनयं कृत्वा निमित्तं जगत्क्षेमाय श्रुतिलालितं तमतुलानन्दाय वन्दामहे ॥२॥ देवो विमानीकूतराजहंसो यस्याः पतिर्हसगतिः सदा या । ध्यायन्ति यां पूज्यतमाश्च हंसाः सा शारदा मे कवितां ददातु ॥३॥ यः सज्जनानां पथि सर्वविघ्नान् स्वर्णपालीपवनैथुनोति । प्रत्यूहमुत्पादयते खलानां मार्गे च तं वारणवक्त्रमीडे ॥४॥ इन्द्रः पविं गणपती रदनं स्वकीयं विष्णुश्च चक्रमुपयुज्य शिवस्त्रिशूलम् । विघ्नान् निहत्य मम सज्जनवर्णनायां तन्वन्तु मङ्गलमिमे कृतधर्मरक्षाः ॥५॥ हरिरिति हर इति जिन इति नानानाम्ना वदन्ति यद् भक्ताः । * राष्ट्रपतिसम्मानभाजनम्; गौरवसन्दर्शनप्राध्यापकः, कर्नाटकसंस्कृतविश्वविद्यालयः, बेङ्गळूरु; गौरवसम्पादकः, सुधर्मा संस्कृतदिनपत्रिका, मैसूरु । १२ For Personal & Private Use Only Page #22 -------------------------------------------------------------------------- ________________ तदहं वन्दे तेजः सज्जनरक्षार्थमेव धृतरूपम् ॥६॥ अखिलभुवनवन्द्यं नित्यपूतान्तरङ्ग विदितनिगमसारं ज्ञानवार्धेस्तरङ्गम् । सुविशदमधुरोक्तिं शारदाकेलिरङ्ग सुजनगुरुवरश्रीभारतीतीर्थमीडे ॥७॥ सज्जनचरितं लोके वारितदुरितं च कौतुकैर्भरितम् । तद्विषये श्रूयन्तां हृद्यानि कतिपयान्यत्र पद्यानि ॥८॥ सर्वत्र मैत्रीमनुपालयेद् यो हितानि कुर्वन् सकलस्य जन्तोः । अनाशयन् किञ्चन लोकवृत्तं वदामि तं सज्जनमार्यपूज्यम् ॥९॥ स्वार्थं च यः कामयते परेषां हिताय तं सन्तमुदाहरन्ति । विशालपर्णोत्करमीप्सति द्रुश्छायां प्रदातुं पथिकप्रजाय ॥१०॥ करोति कार्यं वचनं विना यः स एव सत्पुरुष इत्यवेहि । उक्त्वा तु कुर्वन्निह मध्यमः स्यान् नरोऽधमो यः कुरुते न चोक्त्वा ॥११॥ धर्माविरुद्धान् अनुभूय कामान् . न्याय्याध्वनाऽर्थान् समुपार्ज्य भूयः । या देवकार्ये प्रविलापयेत् स्वं तं सज्जनं सन्त उदाहरन्ति ॥१२॥ प्रशंसां श्रुत्वाऽपि प्रकृतिमहितैर्भूरि विहितं न यो धत्ते गर्वं भजति विनयं चाऽधिकतरम् । विनिन्दाम् आकर्ण्य प्रकृतिकुटिलैः संसदि कृतां न यो जह्याद् धैर्यं तमिह कलये सज्जनमणिम् ॥ १३ ॥ स्वार्थसिद्धिषु पराङ्मुखोऽपि सन् यः परोपकृतये प्रधावति । १३ For Personal & Private Use Only Page #23 -------------------------------------------------------------------------- ________________ दुःखिताश्रुपरिमार्जनं महत् पुण्यमामनति यः स सज्जनः ॥१४॥ यः प्रशंसति प्रस्य सद्गुणान् मौनमाश्रयति चाऽऽत्मवर्णने । शत्रुवाक्यमपि सत्यमास्थया यः शृणोति सहितं स सज्जनः ॥१५॥ मैत्री प्रवर्धयति यः सकले प्रपञ्चे दुःखार्दितेषु करुणां कुरुतेऽखिलेषु । श्रेष्ठेषु पण्डितजनेषु विनीततां यो धत्ते बुवे तमिह सज्जनमार्यवन्द्यम् ॥१६॥ भाषणं तोषणं यस्य, दर्शनं शोककर्शनम् । तमहं सज्जनं मन्ये, सर्वलोकस्य भूषणम् ॥१७॥ गुणस्तुतौ यो रमते रेषां विनैव कोपं क्षमते च मन्तून् । बुद्धिर्यदीया क्रमते न पापे तं सज्जनं प्राहुरुदारचित्ताः ॥१८॥ कचपाशं कुचकुम्भौ, लोचनमीनौ च मत्तकाशिन्याः । दृष्ट्वा चञ्चलचित्तो, यो न भवेत् स सज्जनः कथितः ॥१९॥ सर्वोऽपि लोकस्त्वयि वित्तपूर्णे नमस्करोति स्तुतिमातनोति । विपत्स्वसौ दूरतरं प्रयाति यस्त्वन्तिके तासु स सज्जनः स्यात् ॥२०॥ मनस्युदार: परदारदूरो जनार्तिचोरो महितप्रचारः । आचारवीर: सुविचारशूरः कलासु धीर: सुजनो मतो मे ॥२१॥ यो जयति सर्वशत्रून्, प्रीत्या विनयेन संविभागेन । योजयति च तान् मित्रैः, स एव सत्पूरुषो बुधैर्जेयः ॥२२॥ मदनदहनकीला यन्मनो न स्पृशन्ति प्रजनयति न विद्या विस्तृता यस्य गर्वम् । १४ For Personal & Private Use Only Page #24 -------------------------------------------------------------------------- ________________ धनमपि परकीयं नैजयेद् यस्य चित्तं तमिह सुजनमाहुः पण्डिता निर्विशङ्कम् ॥२३॥ विषमविपदि यः स्यात् केसरीवाऽप्रकम्प्यो जलनिधिरिव सीमां यो न लङ्केत नीतिम् । गुरुरिव समदृष्टिनिदो यश्च नित्यं वदति तमिह विद्वान् सज्जनं निर्विशङ्कम् ॥२४॥ काम क्रोधं लोभ, मदमथ मोहं च मात्सर्यम् । पूर्वं जित्वा योऽन्यान्, शत्रून् जेष्यति स सज्जनः कथितः ॥२५॥ प्राणान् कपोतस्य शिबी ररक्ष श्येनाय दत्त्वा स्वशरीरमांसम् । सर्वस्वदो रक्षति सज्जनोऽयं प्राणांश्च मानं च सुखं परेषाम् ॥२६॥ दिने दिने सज्जनसङ्गलाभो निमज्जनं वारिणि देवनद्याः । श्रीचन्द्रमौलिस्तवसर्जनं च त्रयं न लभ्यं सुकृतं विनैतत् ॥२७॥ दुर्जनस्य चेष्टितानि वीक्ष्य नैव सज्जनः कुप्यति, स्वभावजो गुणो न निन्द्यते बुधैः । काककण्ठकर्कशत्वमुष्ट्रकायवक्रतां वीक्ष्य भूरि बुद्धिमान् उपेक्षते न गर्हते ॥२८॥ न सज्जनस्याऽस्ति कदापि चिन्ता सुख्खे च दुःखेऽप्यथवा स्वकीये । परस्य दःखान्यपनेतमेव व्यग्रं मनस्तस्य यतो नितान्तम् ॥२९॥ न सज्जनस्याऽस्ति कदापि भीतिः शत्रोर्यमाद् वा नरकान्लूपाद् वा । लोकापवादात् स बिभेति यरमात् परोपकारावसरं हरेत् सः ॥३०॥ कर्तुं कदाऽप्यत्र परोपकारं न सज्जनोऽन्विष्यति कारणानि । १५ For Personal & Private Use Only Page #25 -------------------------------------------------------------------------- ________________ असज्जनोऽप्यत्र पापकारं विनैव हेतुं सततं तनोति ॥३१॥ विस्मृत्य सौख्यमविचार्य शरीररोगान् पत्नीवचोऽप्यविगणय्य विहाय गेहम् । यः सज्जनः परहिताय करोति यत्न तं दुर्जना अपहसन्ति किमत्र कुर्मः ॥३२॥ क्लेशान् मूषा बहुविधान् सवदश्रुपूर्वान् सत्यूरुषस्य पुरतो मुहुरीरयन्तः । तस्मात् समस्तमपि वित्तमवाप्य पश्चान्मूर्ख तमेव कथयन्ति खलाः कृतघ्नाः ॥३३॥ सन्ति सर्वत्र हिंसन्ति, लसन्त्यपहसन्ति च । दुर्जनाः प्रचुरा लोके, सज्जनो दृश्यते न वा ॥३४॥ दुर्जना भान्ति सर्वत्र, सज्जनो दृश्यते क्वचित् । हंसाः क्वाऽपि सोमध्ये, वृक्षे वृक्षे च वायसाः ॥३५॥ सता गुणेन सम्बद्धः, कान्त्यालोकं प्रसाधयन् । सरलो विरलो लोके, सज्जनस्तरलायते ॥३६॥ भवेन्नराणां सुजनत्वहेतुन देवपूजा न जपो न वेषः । न मत्रपाठो न च वेदघोषः सौजन्यबीजं हि परोपकार: ॥३७॥ सत्यं वद त्वं चर धर्ममच्छं मातुः पितुश्चैव कुरुष्व सेवाम् । आचार्यमर्चाऽतिथिमाद्रियस्व प्राप्तुं पृथिव्यामिह सज्जनत्वम् ॥३८॥ कृष्णं शिवं वा जिनमीश्वरं वा बुद्धं गणेशं कमपि त्वमर्च । दयामहिंसां सकलेषु मैत्रीम् अभ्यस्य संप्राप्नुहि सज्जनत्वम् ॥३९॥ अशक्तमधनं बुधं विनयशालिनं सज्जना नमन्ति शिरसा सदा परिचरन्ति च श्रद्धया । १६ For Personal & Private Use Only Page #26 -------------------------------------------------------------------------- ________________ विवेकरहितं शठं धनिकमुद्धतं गर्विणं बलाढ्यमपि मन्वते तृणमिवाऽवजानन्त्यपि ॥४०॥ कुतो भगवता कृताः पहितैषिणः सज्जनाः धनेन रहिताः सदा विकलशक्तयः कातराः । कुतश्च विहिताः खलाः सकललोकनाशोद्यताः सदैव बलवत्तराः प्रखरबुद्धयो दुर्मदाः ॥४१॥ सज्जनं वदसि कं सख्खेऽधुना स्वार्थ एव सकलः सदोन्मुखः । निष्फले सति समस्तभूरुहे ब्रूमहे कमिह कल्पपादपम् ॥४२॥ गुणोदयः साधुजनस्य जायते यथेभपोतस्य रदोद्भवः स्वयम् । यथा मयूरस्य कलापकोदयो यथा मृगेन्द्रस्य च केसरोद्गवः ॥४३॥ वित्तं च विद्यां च बलं च लब्ध्या गर्वं च कामं च मदं च जित्वा । शूरश्च वीरश्च बुधश्च भूत्वा लोकान्तरं सज्जनधुर्य एति ॥४४॥ विज्ञानवन्तोऽपि विवेकहीना विशालवित्ता अपि लुब्धचित्ताः । सुवंशजाता अपि शीलशून्याः कथं लभेरन् वद सज्जनत्वम् ॥४५॥ यत्र सुभाषितगोष्ठी, यत्र च भोजनमशङ्कितं भवति । यत्र गुरूणां पूजा, तत्सज्जनगेहमाहुरभियुक्ताः ॥४६॥ विश्वासत: परमपुंस्यथवाऽन्यलोके संजायते न सुजनो भुवि दुर्जनो वा । ना नास्तिको भवतु कश्चिदथाऽऽस्तिको वा नानाविधा भवति दृष्टिरिह प्रपञ्चे ॥४७॥ दौर्जन्यहेतुर्नहि नास्तिकत्वं सौजन्यहेतुर्नहि चाऽऽस्तिकत्वम् । १७ For Personal & Private Use Only Page #27 -------------------------------------------------------------------------- ________________ सत्यं दमो भूतदया क्षमा च कुर्वन्ति मर्यं सुजनं च मान्यम् ॥४८॥ सज्जनो भजति नैव विकारं कारणे महति सत्यपि नूनम् । झाया प्रतिहतोऽपि महीधो निश्चलो भवति भङ्गविहीनः ॥४९॥ मज्जनैः किमु सरिज्जले सख्खे ! सज्जनोक्तिसलिले निमज्ज्यताम् । ज्जलं नयनयोः किमर्पयस्यर्पयाऽऽर्यजनदर्शनाञ्जनम् ॥५०॥ मधुमधुरस्सत्सङ्गः, स हि सौख्यक्षीरसागरतरङ्गः । लक्ष्मीनर्तनरङ्गः, पूर्जितपापवृक्षगणभङ्गः ॥५१॥ मधूयते साधुजनस्य मैत्री विषायते दुष्टजनस्य सैव । विधूयते प्रेममयस्य वक्त्रं वहीयते द्वेषयुजस्तदेव ॥५२॥ गरीयसी भूमिधराधिराजाद् बंहीयसी वारिनिधेः प्रपूर्णात् । पटीयसी पापनिवारणायां सत्सङ्गतिमें हृदये चकास्तु ॥५३॥ शब्दायते काकलोको, दुर्जनः कलहायते । साधुर्मित्रायते नित्यं, निसर्गोऽयं दुरत्ययः ॥५४॥ न सज्जनत्वं विभवस्य हेतु दृष्टा जगत्यां धनिनो भवन्ति । तथाऽपि लोकस्य हिताय विद्वन् निःश्रेयसायाऽऽश्रय सज्जनत्वम् ॥५५॥ सज्जनवचनं निम्बात्, कटुतरमाभाति किन्तु परिणामे । गुडखण्डान्मधुरतरं, तस्मात्तन्मतिमता सविनयं ग्राह्यम् ॥५६॥ पुत्रमपि सापराधं, दण्डयति हि सज्जनो नितराम् । शत्रुमपि मन्तुरहितं, रक्षति सुतरां सर्वया शक्त्या ॥५७॥ १८ For Personal & Private Use Only Page #28 -------------------------------------------------------------------------- ________________ चक्रं मुरारे: कुलिशं मघोनः शूलं पुरारे: सृणिरीशसूनोः । एतानि नाऽलङ्करणानि तेषां धूतानि तैः सज्जनरक्षणाय ॥५८॥ यच्छन्त्यभीष्टं दिवि कल्पवृक्षाः इत्याहुरद्राक्ष्म न तान् वयं तु । ददात्यभीष्टात् सुजनोऽधिकं द्रा नाउपेक्षितास्ते तरवः पृथिव्याम् ॥५९॥ दत्त्वाऽपि किञ्चिन्नहि कल्पवृक्षो ब्रवीति सान्त्वं न च कामधेनुः । सन्तस्त्वभीष्टादधिकं प्रदाय ब्रुवन्ति दैन्यापहरं च वाक्यम् ॥६०॥ धर्मार्थकाममोक्षाख्यान्, सर्वान् वाञ्छति सज्जनः । आदि चाउन्तिम तपा, नित्य त्यति दु. (दक। सौशील्येन विना न भान्ति वनिताः सौन्दर्यरम्या अपि भ्राजन्ते न च सौरभेण रहिता मालाः सुमाढ्या अपि । विद्वांसोऽपि न सौमनस्यरहिता राजन्ति विद्योज्ज्वलाः सौजन्येन विना लसन्ति न नरा ऐश्वर्ययुक्ता. अपि ॥६२॥ किं पूजया यत्र भवेल भक्तिस्तपस्यया किं नहि चेद् विरक्तिः । किं विद्यया या विनयं न सूते भाग्येन किं यत्र न सज्जनत्वम् ॥६३॥ सौजन्यं सौशील्यं, सौन्दर्यं सौमनस्यमपि सौख्यम् । एकस्यां व्यक्तौ यदि, दृश्येरन् धातुरेव तद्भाग्यम् ॥४॥ चाचल्यं पैशुन्यं, चौर्यं क्रौर्यं च पारदार्यं च ।। यदि वर्धरन् भूमौ, नास्ति तदा सुजनसुस्थितेर्वार्ता ॥६५॥ पत्नीं समानां गणयत्यजलं पुत्रं सखायं मनुते सदाऽपि । दासान् स्वतुल्यान् परिवीक्षते यः स एव लोकेऽर्हति सज्जनत्वम् ॥६६॥ १९ For Personal & Private Use Only Page #29 -------------------------------------------------------------------------- ________________ किं वा तपोभिर्भुवि सत्यवाचो जपैश्च किं वाऽत्र जितेन्द्रियस्य । किं नित्यतृप्तस्य महाव्रताद्यैः किं वा सतस्तीर्थनिमज्जनेन ॥६७॥ मृदुभाषी मितभाषी, सरिमतभाषी च सज्जनो नित्यम् । तमपि विनिन्दन्ति कथं, मूर्खा दुष्टाश्च वाचाटाः ॥६८॥ सुरपतिधनुरिव रम्यं, मिथ्या च भवत्यसज्जनेनोक्तम् । विपिनौषधिरिव कट्वी, सज्जनवाग् भवति सर्वदा सेव्या ॥६९॥ सज्जननिक रस्तूष्णी, तिष्ठति गर्जत्सु दुर्जनेष्वधिकम् । कोकिलवून्दं जोष, भवति हि काकेषु जृम्भमाणेषु ॥७॥ आलस्यं मालिन्यं, परहिंसा परुषता च दुष्टगुणाः । दक्षत्वं शुद्धत्वं, परोपकारो दया च शिष्टगुणाः ॥७१॥ सज्जनसङ्गो भवतान्मम सुकृतैः पूर्वसञ्चितैः सकलैः । सर्वाण्यन्यफलानि, स दास्यत्येको विनैव सन्देहम् ॥७२॥ मधुरालापविलासः, सज्जनताया न लक्षणं लोके । मञ्जुलपञ्चमचुचुर्वञ्चनचतुरा हि कोकिला दृष्टा ॥७३॥ अञ्चति वञ्चनचतुरः, कञ्चन कार्याय साधिते तस्मिन् । मुञ्चति निर्दाक्षिण्यं, तादृशमुझेद्धि सज्जनो दूरात् ॥७४॥ मानसमन्थनजाता, सकलैर्विबुधैर्हरिप्रियैः पीता । सज्जनवागेव सुधा, तयैव नाकायते सदा वसुधा ॥७५॥ सज्जनत्वमिह नाऽनुमन्महे यत्तदेव खलु दुःखकारणम् । सर्वलोकविपदां निवारणे यत्नमास्थितवतः कुतः सुखम् ॥७६॥ सज्जनान् अनुदिनं निपीडयस्यातनोषि सुखिनरत्वसज्जनान् । हे विधे! तव विवेकिता गता पूर्णतो विलयमित्यहं ब्रुवे ॥७७॥ न जन्मना कश्चन सज्जनः स्याद् रूपेण न प्राज्यधनेन नाऽपि । २० For Personal & Private Use Only Page #30 -------------------------------------------------------------------------- ________________ सुकर्मणा सज्जनताधिगम्या शुभैर्गुणैर्भूतदयादिभिश्च ॥७८॥ केचन चतुरा नीचा, मोचाफलरसमुचा वाचा । मुग्धान् सज्जननिचयान्, वञ्चयितुं चिन्तनां सदा दधते ॥७९॥ पूजयति मान्यलोकान्, प्रीत्या भोजयति मित्रवृन्दानि । नोद्वेजयति विमुग्धान्, जयति समस्तान् नयेन सत्पुरुषः ॥८०॥ नयेन शिष्टान् विनयेन पण्डितान् वशीकरोति प्रणयेन यो वधूम् । नृपं विशेषानुनयेन च श्रयेत् तमेव विद्वांसमुशन्ति सज्जनाः ॥८१॥ पण्डितान् मण्डयन् गर्वितान् दण्डयन् धार्मिकान् रञ्जयन् दुर्जनान् भञ्जयन् । देवताः पूजयन् विश्लथान् योजयन् सज्जनो जायते सर्वलोकप्रियः ॥८२॥ लोकोपकारनिरतं परमात्मभक्तं यः सज्जनं सपदि दूषयति प्रसन्नम् । सोऽनुष्णरश्मिविनिवारितसर्चतापं चन्द्रं विनिन्दति महेश्वरमूर्धरत्नम् ॥८३॥ विराजते चन्द्रविभूषितो हरो रमापति ति सकौस्तुभस्सदा । चकारित वृक्षः खगराजमण्डितः • ससज्जनं भूरि जगत्प्रकाशते ॥८४॥ सुजनाः परोपकारं, प्रत्युपकाराय नैव कुर्वन्ति । तरवः फलानि दधते, भोक्तृभ्यस्ते न किञ्चिदिच्छन्ति ॥८५॥ यत्राउतिथेः स्वागतमस्ति सर्वदा मित्राणि यत्राऽश्नुवते त्रपां विना । निर्भीतिकं यत्र विचारमन्थनं तत्सज्जनानां गृहमित्यहं ब्रुवे ॥८६॥ धर्मविरुद्ध कामे, वैराग्यं वैरमिह पापे । वैचक्षण्यं पुण्ये, कर्मणि वै सज्जनत्वचिह्नानि ॥८७॥ २१ For Personal & Private Use Only Page #31 -------------------------------------------------------------------------- ________________ दर्दुरा इव रटन्ति दुर्जनास्तद्वचः श्रवसि तप्ततैलवत् । कोकिला इव वदन्ति सज्जनास्तगिर: श्रवणयोः सुधाझरी ॥८८॥ दुर्जनवचनं शृण्वन्, बधिर धन्याः प्रपञ्च इति मन्ये । सज्जनभाषणकाले, श्रोत्रेन्द्रियमेव परममिति कलये ॥८९॥ दुर्जनो मानवान् दूषयन्नन्वहं निर्दयं निस्त्रपं निष्ठुरं भाषते । सज्जनः सर्वदा लोकसौख्येच्छया कोमलं सादरं सरिमतं भाषते ॥१०॥ भुक्ष्व च भोजय लोकं, तुष्य च तोषय समस्त जीवगणान् । जीव च जीवय सर्वान्, इति नीतिं पालयन्ति किल सन्तः ॥१॥ श्रमार्जितान्नेन सदा वसन्तः परोपकारैर्भुवने लसन्तः । धनस्य दासान् कुजनान् हसन्तः समर्चनीया विबुधेन सन्तः ॥२॥ अन्येषाम् उपकृतये, धनं च सौख्यं च देहमपि गेहम् । तृणवद्गणयन्तोऽमी, सन्तः श्रेष्ठाः समस्तदेवेभ्यः ॥१३॥ सदापि धर्मं हृदि धारयन्तः पापाज्जनान् आशु निवारयन्तः । पुण्यं समस्तैरपि कारयन्तः सन्तो जयन्तु प्रतिभानवन्तः ॥४॥ भ्रमरहिताः किल सन्तः, सूर्यालोकेन सुष्टु विकसन्तः । पद्मगणा इव लोके, पङ्कालिप्ता जयन्ति विलसन्तः ॥९५॥ कूपा इव जीवनदा, दीपा इव घोरतिमिरपरिहरणाः । नीपा इव खचरहिताः, पापविदूरा जयन्ति भुवि सन्तः ॥६॥ बोधय धर्मरहस्यं, शोधय हृदयं सुशास्त्रचिन्तनया । रोधय दुर्जनसङ्ख, साधय सज्जन! विशुद्धनिजरूपम् ॥७॥ का पत्नी? न करोति पत्युरहितं या सर्वदा सर्वथा कः पुत्रः ? पितरौ धिनोति चरितैर्यो धर्ममार्गोचितैः । २२ For Personal & Private Use Only Page #32 -------------------------------------------------------------------------- ________________ आर्यः को ? हृदये पदं न निहितं यस्याऽन्यनार्या तथा पीयूषं किम् ? उदारसज्जनवचो यज्ज्ञानसंवर्धकम् ॥८॥ कः पूज्यः ? कमलाक्षः, का लोकेऽपेक्षणीया? श्रीः । को लभ्यो भुवि ? बोधः, को बन्धुः ? सज्जनो धीमान् ॥९॥ किं वन्दनीयं ? गुरुपादपद्मं किं निन्दनीयं नरि ? पारदार्यम् । किं वारणीयं सकलैश्च ? पापं किं वाञ्छनीयं भुवि ? सज्जनत्वम् ॥१००॥ चिकीर्षति हितं सदा न परसम्पदं लिप्सते निनिन्दिषति नेतरान् परिजिहीर्षति स्वस्तुतिम् । जिगीषति चलं मनो न च जिघांसति प्राणिनो निनीषति यशो दिवं सुकूतकर्मभिस्सज्जनः ॥१०१॥ ज्ञानी मानी दानी, न भवति धनिकः प्रपञ्चेऽस्मिन् । किन्तु स पण्डितमानी, सज्जननिन्दासु सर्वदा कुशलः ॥१०२॥ ज्ञानं सत्यं शीलं, दानं धर्म इति सज्जनप्राणाः । पञ्च जगत्यां विदिताः, तांस्त्यक्त्वा नैव जीवति सः ॥१०३॥ खर्जूरं किल मधुरं, मधुरतर: खण्डकोऽत्र विज्ञातः । मधुरतमं किल सज्जनभाषणमाहू रसोक्तिमर्मज्ञाः ॥१०४॥ हा सज्जनं तस्य सदैव कष्टं दैवं ह्यकरमादपि तद्विरुद्धम् । प्राज्ञोऽपि विद्वानपि शिक्षितोऽपि • प्रतार्यतेऽयं खलसार्वभौमैः ॥१०५॥ सन्त्वत्र कष्टानि बृहन्ति भूमौ सन्तस्तरिष्यन्ति हरेर्महिम्नः । पूर्णोऽपि तीर्णोऽर्णव एव कीशैः श्रीराघवाध्यब्जयुगप्रभावात् ॥१०६॥ आस्तिक्यं चारित्रं, सत्यप्रियतां च धार्मिकत्वं च । दत्त्वा कस्मात् सज्जनमकिञ्चनं विश्वसृट् कुरुते ॥१०७॥ चरन्ति धर्मं ब्रुवते च सत्यं परोपकारं व्रतमामनन्ति । २३ For Personal & Private Use Only Page #33 -------------------------------------------------------------------------- ________________ स्वार्थं परित्यज्य समस्तसौख्यं संसाध्य तुष्टिं सुजना लभन्ते ॥१०८॥ ये सज्जना धर्मपथे चरन्ति तान् मूर्खवर्यान् कथयन्ति लोकाः । अधर्ममन्यायमसत्यमक्रम ये कुर्वते तांश्चतुरान् वदन्ति ॥१०९॥ न नामधेयं न च रुपधेयं न भागधेयं सुजनत्वहेतुः । सुधांशुनामा रमणीयरुपः शिवादृतोऽब्जो गुरुतल्पगोऽभूत् ॥११०॥ सज्जनो भाषते नाऽर्थशून्यं वचो सत्यसंरक्षणं तस्य मुख्यं व्रतम् । संयमो नास्ति चेद्वाचि सत्यं गलेद् इत्यसौ. चिन्तयन् वक्ति वाचं मिताम् ॥१११॥ शिशिरकर इवाऽयं सज्जनोऽन्योपकारी सुरतरुरिव भूमावर्थिनामिष्टदायी। ऋषिरिव जितरागो वाग्यतः सत्यवादी मृगपतिरिव मानी सर्वदा धैर्यशाली ॥११२॥ भवतु सकललोकः सज्जनानां निवासो निगमगदितधर्मः सर्वदा वर्धिषीष्ट । विबुधनिकरपूज्या शारदा शृङ्गशैले कृतवसतिरियं नः पातु विद्याधिदेवी ॥११३॥ अल्पज्ञोऽपि कवित्वशक्तिविकलोऽप्याप्त्वा दयाशेवधेत्सिल्याम्बुनिधेरनुग्रहलवं श्रीभारतीतीर्थतः । पद्यानां शतकं सुहृज्जनमनोमोदाय संवर्णयन् रीतिं सज्जनसन्ततः सविनयं श्रीनागराजोऽभ्यधात् ॥११४॥ । इति नागराजरचितं सज्जनशतकं समाप्तम् । २४ For Personal & Private Use Only Page #34 -------------------------------------------------------------------------- ________________ संस्कृताश्रिता डॉ. वासुदेव वि. पाठकः ‘वागर्थः' संस्कृताश्रिता सुसंस्कृतिश्शिवा शुभा संस्कृतास्तया वयं; तदीश्वर-कृपा ॥ वेदानाममृतं नु चेतनाप्रदम् तत्त्वचिन्तकैश्च मार्गदर्शनं कृतम्; सर्वथोपकारिणीति मान्या मुदा, संस्कृताश्रिताऽस्ति संस्कृतिश्शिवा शुभा ॥ मोहनेन मोह गानं गीतम् मोदकरं सत्यधर्मतः कृतं हितम्; • ज्ञात्वैवं, सुज्ञतया कार्यं सदा संस्कृताश्रिताऽस्ति संस्कृतिश्शिवा शुभा ॥ बुद्धमहावीरौ वशिष्ठशङ्करौ मीरानरसिंहौ कबीरनानकौ; उज्ज्वलं दिशन्ति भा-रतत्वं मुदा संस्कृताश्रिताऽस्ति संस्कृतिश्शिवा शुभा ॥ -X For Personal & Private Use Only Page #35 -------------------------------------------------------------------------- ________________ गुर्जरदेश: डो. वासुदेव वि. पाठकः 'वागर्थः' धन्यो धन्यो गुर्जरदेशो भव्ये भारते रे लोल, भव्ये भारते रे लोल, विश्वेऽखिले विशिष्टे लोल; धन्यो धन्यो गुर्जरदेशो.... ॥ शं-करौ च शङ्करगोविन्दौ, गुर्जर रे लोल, मान्यौ मोहनमोहनदासौ गुर्जर रे लोल; धन्यो धन्यो गुर्जरदेशो.... ॥ दयानन्दहेमाचार्याद्याः गुर्जरे रे लोल, रामानुजवल्लभमध्वाद्याः गुर्जर रे लोल; धन्यो धन्यो गुर्जरदेशो.... ॥ सहजानन्दसमा बहवोऽपि गुर्जर रे लोल, रविशङ्करवल्लभाश्च अस्मद्गुर्जरे रे लोल; धन्यो धन्यो गुर्जरदेशो.... ॥ महतां सम्मानं भवतीति गुर्जर रे लोल, एवं विकसितमेव समग्रं गुर्जर रे लोल; धन्यो धन्यो गुर्जरदेशो.... ॥ _ 'गरबा' गानमिदम् ॥ (समूहे, गर्भ-दीप-नृत्यम् = गरबा.) ('गरबा' तु गुजरातस्य समूहनृत्यरूपः विशिष्टः प्रकारः ।) ३५४, सरस्वतीनगर, आंबावाडी अमदावाद-१५, फोन : ०७९-२६५७४५७५४ For Personal & Private Use Only Page #36 -------------------------------------------------------------------------- ________________ नामाक्षराणि* डॉ. वासुदेव वि. पाठकः 'वागर्थः' दामोदर दामोदर हे देव दयामय मोहान्ध्यं मे विभो निवारय । दयया ते हे शुद्धिस्स्यान्मे रमतु रागरहितं च मनो मे ॥ शीलचंद्र शीलेन लब्धसौभाग्यं लक्ष्यपूर्तिकरं वरम् । चंद्रवच्छैत्यमापन्नं द्रवन्तं सद्गुरुं भजे ॥ महावीर महावीरो महामान्यः हानिलाभादिवर्जितः । वीतरागो वरैर्वन्द्यः रविरश्मिसमप्रभः ॥ वृंदावन वृंदावनविहारार्थम् दानदाता रसाद्रितः । वरा वेणुः करे यस्य नम्यते नन्दनन्दनः ॥ कामनाथ: विनायकः विनायकः परो देवः नायकश्च गणाधिपः । . यश्च माङ्गल्यकर्ताऽस्ति कः साक्षान्मूर्तिमांस्तथा ॥ कामनाथः शिवस्साक्षान् मन्दाकिनीधरश्शुभः । नागेशः पार्वतीशश्च थःस्थाने च कृतालयः ॥ नटवर . नटवरो हरिस्साक्षात् टङ्कादिविमुखस्सुधीः । वदान्यो वरमान्यश्च रसज्ञो रासलोलुपः ॥ टङ्कः = गर्वः, कः = ब्रह्म = आनन्दः थःस्थाने = पर्वते * पद्येष्वेतेषु प्रत्येका पङ्क्तिः एकैकशः नामाक्षरेणाऽऽरभ्यते । पद्येषु, नाम्नः वैशिष्ट्यमपि प्रतीयते, इति विशेषः ॥ २७ For Personal & Private Use Only Page #37 -------------------------------------------------------------------------- ________________ विनोदपृषताः [विडम्बन-काव्यम्] आधुनिक्या यक्षपत्न्या मेघसन्देशस्योत्तरम् देवर्षिकलानाथशास्त्री श्रीमन् रसिकशिरोमणे! आकर्णितोऽमुष्मिन् क्षणे त्वदीयः सन्देशो मामुद्दिश्य । सर्वं तत् साधु, किन्तु पश्य; किमिदमद्भुतं त्वया चिन्तितम् ? यन्मामनुस्मरता सन्ततम् वारिवाहक: सन्देशं हर्तुं प्रार्थितः । किं नाऽन्यः सन्देशहरस्त्वयाऽऽसादितः ? पत्रं, तडित्पत्रं, दूरभाष, टेलक्षम् (तैलाक्षम्) बहूनि साधनानि जनानां समक्षम् किं वक्षि, “रामगिरौ नाऽन्यत् किमपि साधनम् ? स्थलं तन्निर्जनम्, तत्राऽपि गिरिं परितः काननम् ?' भवतु, त्वया तु नेक्षितात्र विप्रतिपत्तिः परं सञ्जायते त्वादृशी चेष्टा बहुधा विपत्तिः । ननु पश्य, यो हि मन्यते गैर्वाण्या मूर्तिमान् विलासः वावदूकश्चपलो योऽसौ कविः कालिदासः तेन निबद्धस्तव सन्देशो मन्दाक्रान्तासु स च तावन्तं महिमानमापन्नोऽयं जनतासु यदद्य सर्वत्र पठ्यते, श्राव्यते, गीयतेऽनूद्यते, मञ्चेषु अवतार्यते । किं बहुना? याऽस्ति सा आकाशवाणी * मेघदूतस्य सन्देशं यदि काचिदाधुनिका पत्नी शृणोति, सा कीदृशमुत्तरं प्रतिपद्यतेति कल्पयता रचनाकारेण विनोदकाव्यमेतद् विरचितम् । २८ For Personal & Private Use Only Page #38 -------------------------------------------------------------------------- ________________ यस्याः कार्यक्रमेषु प्रयुज्यते देववाणी तया सोऽयं सकौतुकं सर्वत्र प्रसार्यते - हन्त न च के नाऽपि वार्यते । किं भणसि ? “का तत्र हानिः? को वा व्यत्यासः ?" अरे, तादृशः सन्देशः किं सर्वजनसमक्षं प्रकाश्यः ? अपरश्च प्रभूतं दाहकः सोऽयं भास सर्वे ज्ञास्यन्ति त्वमसि पत्नीदासः । धातुरागैः शिलायां संचित्र्य पादयोः पतसि अबलासुलभान्यश्रूणि वमसि सर्वमिदं प्रकाश्य किमित्यात्मानमुपहससि ? किमिति सह न नीतं मदीयं किञ्चन छायाचित्रम् ? एकान्तनिमिषेषु तद् भवति सर्वोत्तमं मित्रम् । सम्प्रत्याक्रन्दन् किमनुहरसि स्त्रीणां चरित्रम् ? अपरं च किमिदं त्वयोच्चारितम् ? विरहकूशात् प्रकोष्ठात्तत् कनकवलयं हारितम् ? अरेऽस्मिन् महार्घताकाले विधिना किमिदं कारितम् ? मम तु हृदयमेव विदारितम् विवाहे मत्पित्रा तन्मह्यमुपहारितम् त्वया तु नृत्यगीतव्यावृतेन न किमपि कीटजातं मारितम् प्रस्थानसमये मदीयस्मरणाय तत् त्वयाऽऽसीद्धारितम् तव वैकल्यं वीक्ष्य न मयाऽपि वारितम् . अरे, किं त्वयाऽष्टौ मासानपि सुरक्षितुं तल पारितम् ? सम्प्रति रामगिरौ सावधानमन्वेषय तत् । मा भूत् कस्यचन विह्वलत्वमेतावत् यद् गलकण्ठात् कुसुमस्रगिव न ज्ञायेत कनकवलयं पतत् ? नूनं क्वचन तत्रैव पतितं स्यात् कस्तन्नेष्यति तस्मानिर्जनात् स्थानात् । इदं चाडपरं किं वाञ्छसि कथयितुम् ? अश्रुविकलाऽहं न पारये वीणां वादयितुम् ? किमति वा न पारयिष्यामि ? सम्प्रति साऽवकाशाउरिम; किमन्यत् करिष्यामि ? . २९ For Personal & Private Use Only Page #39 -------------------------------------------------------------------------- ________________ अवसरं वीक्ष्य वीणावादने समधिकायाऽभ्यासाय गन्धर्व एको मयाऽस्ति नियुक्तः शिक्षणाय प्रत्यहमायति स होराद्वयाय । भूयस्यो नवाः स्वरगतयः शिक्षिता मया नवाः कतिपदे ताला नवाश्च लयाः । किन्तु दिवसेष्वेषु पश्यामि तस्य गन्धर्वस्याऽन्यादृशमेव लयम् । अन्यादृशमेव तस्याऽऽकूतम् ॥ शङ्के यन्नाऽस्ति तस्य मनः पूतम् । स एवाऽवोचत् त्वदर्थे, “मया नेदमुचितमनुभूतम् यत् तव स यक्षो नाऽन्यं प्राप्य कञ्चन दूतम् प्रहितवांस्त्वत्कृते जीमूतम् ? मन्मते तु तादृशो जनः कापुरुषः । अहं तु चिन्तयामि भूरिशः कुबेरेण यथैव शापो मुखालिःसारितः स तूष्णीं निर्गतोऽलकाया गृहद्वारतः ? नैकः शब्दोऽपि प्रतिरोधे उच्चारितः ? त्वयाऽपि तादृशेन सह व्यर्थमियान् कालो हारितः । तत्स्थाने यद्यहमभविष्यम् कुबेरस्य विरोधे क्रान्तिमकरिष्यम् । अलकावासिनः सर्वान् संघटय्य, संघर्षसमितिं संकलय्य कुबेरस्य जीवनं नारकीयमारचयिष्यम्, यद् वा, सर्वोच्चन्यायालयेऽगमिष्यम् । मन्यसे चेद् वचनं मदीयम्, त्वया तदिदमेवाऽधुना करणीयम् यदेकं वर्षं तु ते पृथग् वासो जातः, एकोऽपरो वत्सरो यदि पार्थक्ये निर्यातः वर्षद्वयस्य पृथक्त्वे विवाहविच्छेदः संभवति न्यायव्यवस्थातः ।" + वर्षद्वयस्य पृथग् वासः (Judicial Seperation) विवाहविच्छेदस्य कृते मान्यो भवतीति न्यायव्यवस्थाऽत्र सङ्केतयितुमिष्यते । ३० For Personal & Private Use Only Page #40 -------------------------------------------------------------------------- ________________ एवंविधाः कथा आलपति दास्याः पुत्रः किन्तु मा भूश्चिन्तितः, त्वमेव स्थास्यसि मे पतिरेकच्छत्रः । यदि श्वोऽपि गन्धर्वोऽयं तथैव प्रलपिष्यति । प्रदाय पारिश्रमिकं विसर्जयिष्यामि, यथाऽऽगतं गमिष्यति । त्वं तु पं प्रत्यायाहि द्रुतम् शापान्तस्ते देवोत्थान्याम् इति सर्वैः श्रुतम् । मा कोऽपि गन्धर्वोऽधुना मामेकाकिनी वीक्ष्य प्रणयाऽऽवेदनस्याऽवसरं निरीक्ष्य समायातु धनपतिगृहानुत्तरेणाऽस्मद्भवने । किं च, करणीयमस्ति बहुतरमस्मिन् सदने । याऽऽसीत्ते पैत्रिकी मरकतसोपानमयी वापी तद् वर्णनमाकर्ण्य कश्चित्, पापी राज्यशुल्कनिरीक्षकात् पिशुनयामास क्रीडाशैलं, कनककमलान्यखिलं सूचयामास । समागतमेकदा करनिरीक्षकाणां दलम् । मयोक्तं, साम्प्रतं भवतामाक्रमणेन अलम् अचिरमेव गृहपतिः समागन्ता स एव गृहान्वेषणाय अनुमन्ता । अतस्त्वम् आयाहि त्वरितम्, येन समाधीयेत सर्वमिदं दुरितम् तव सन्देशेनैव सर्वमिदमाचरितम् यद् गोपनीयमिदं सर्वसमक्षमुर्वरितम् । किमधिकम्, त्वया व्याकुलं मानसं रोधनीयम् अल्पं लिखितमधिकं बोधनीयम् ॥ अध्यक्षः, आधुनिकसंस्कृतपीठस्य, जगद्गुरुरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालये; प्रधानसम्पादकः "भारती'संस्कृतमासिकस्य; भूतपूर्वोऽध्यक्षः, राजस्थानसंस्कृतअकादम्याः, निर्देशकचरश्च संस्कृतशिक्षा-भाषाविभागयोः (राजस्थानशासने) सी-८, पृथ्वीराज रोड, सी. स्कीम, जयपुर-३०२००१ (राजस्थान) ३१ For Personal & Private Use Only Page #41 -------------------------------------------------------------------------- ________________ क्रमशोऽत्र प्रवर्तते ॥ प्रो. कमलेशकुमार छ. चोकसी वारेषु प्रथमो वरः सोमवारः प्रकीर्तितः । द्वितीयो मङ्गलः प्रोक्तस्तृतीयो बुध उच्यते ॥१॥ गुरुवारोऽस्ति तुरीयः पञ्चमः शुक्रवासरः । षष्ठः शनी रविरत्र सप्तमोऽन्तिम उच्यते ॥२॥ पर्यायत्वेन शब्दानां प्राप्तिरस्त्यपरिमिता । रुचीनामथ वैचित्र्याद् विविधं नाम वर्तते ॥३॥ सोमश्चन्द्रस्तथा रविः प्रोक्त आदित्यवासरः । मङ्गलो भूमिपुत्रत्वाद् भौमवासरः कथ्यते ॥४॥ देवतानां समेषां हि गुरुर्बृहस्पतिः स्मृतः । तस्माद्धि गुरुवारोऽयं बृहस्पतिर्निगद्यते ॥५॥ वीरत्वाच्च यथैवाऽयं वीरवासर कथ्यते । तथा शनैश्चरतीति शनिः शनैश्वरः स्मृतः ॥६॥ एवं सोमादिवाराणां नामानि विविधानि वै । लोके प्रचलन्तीति नामभेद: प्रवर्तते ॥ ७ ॥ आसीद् ह्यो रवेर्वा द्याऽस्ति सोमवासरः । अवश्यं श्वो भविताऽसि अयि मङ्गलवासरः ! ॥cu रविते दिने यस्य तस्य सोमोऽद्य वर्तते । यस्य गते दिने सोमः कथमद्य प्रवर्तते ? ॥९॥ यस्य गते दिने भाति दुःखमद्य न दृश्यते । गते भाति दिने यस्य सुखमद्य न दृश्यते ॥ १० ॥ चारादनन्तरं चारो रविर्वा सोम एव वा । तथा सुखं च दुःखं च क्रमशोऽत्र प्रवर्तते ॥ ११॥ एतत् मनोगतं ज्ञानं सत्यं शिवं च सुन्दरम् । सर्वदा तत्प्रवर्तेत दुःखं कस्य प्रजायते ? ॥१२॥ ३२ संस्कृतविभागः, भाषासाहित्यभवनम्, गुजरात विश्वविद्यालयम्, अहमदाबाद- ३८०००९ For Personal & Private Use Only Page #42 -------------------------------------------------------------------------- ________________ प्राचीनं साहित्यम् सहसावधानसौधस्तम्भसमानश्रीमुनिसुन्दरसूरिविहिता त्रैविद्यगोष्ठी [वैक्रमीये १५तमे शतके सञ्जाता: सहस्रावधानिनः कूर्चालसरस्वतीति-बिरुदधारिणः प्रभूत-प्रकृष्ट-प्रशिष्टसाहित्यसर्जकास्तपागच्छाधिपत्यशालिन: पूज्याचार्यश्रीमुनिसुन्दरसूरीश्वराः स्वीये एकोनविंशतितमे एव वयसि विद्याग्रहणकाले विद्यगोष्ठीत्यभिधं ग्रन्थमिमं रचितवन्त आसन् । तेषां भाषाप्रभुत्वं रचनाप्रौढिविविधशास्त्राधिकारिता-इत्यादयो गुणा अस्य पठनेनैव वाचकानां कृते प्रकटिता: परिचिताश्च भविष्यन्तीति ।] भूमिका - आगमोद्धारकाचार्यश्रीआनन्दसागरसूरीश्वराः अवधारयन्तु विदितम्नवद्यविद्यावृन्दविदीर्णमोहान्धतमसो विदुषः परमवैदुष्यधुराधरणधौरेयानवद्यविद्याव्रजावदातात्मनां तत्रभवतां श्रीमतां मुनिसुन्दराह्वयानां त्रैविद्यनैपुण्यं ग्रन्थस्याऽस्य शैशवविहितस्याऽवधारणेन । लक्षणादिशास्त्रशिक्षारुचिरत्वमपि न कथञ्चनैतन्निरीक्षणेन क्षुण्णमवलोकयिष्यते तत्रभवद्भिर्भवद्भिः, सदाचारपरीक्षाक्षमत्वमपि क्षमाधराणामिवैषां पूज्यानामवलोकनेनैतस्याऽवतरिष्यत्येव वाग्गोचरातीतं दृष्टिपथं, यतोऽत्राऽवलोकनीयमवलोकनसौन्दर्यमत्रभवतां प्रयोगवैचित्र्यानुप्रासादिकमलङ्कारविद्वेद्यमत्र तत्रभवद्भिः । प्रथमं तावद्भट्टारका वितेनुः स्वीयं जयश्यङ्कविन्यासेन मङ्गलाचरणं जिनवरनतिमयं, पूज्यानां हि समयोऽयं यद् ग्रन्थारम्भे जयश्रीरान्तरारीणामित्यध्यात्मपूर्णहृदयोदध्युल्लासशशधरसमश्रीअध्यात्मकल्पद्रुमस्याऽऽद्यपद्ये, जयश्रियं रातु जिनेन्द्रचन्द्रमा इति अनल्पमहिमगुरुगणगुणगरिमोद्गिरणपवित्रविविधपद्यमय्यां गुर्वावल्यां च यथा विलोक्यते विजैस्तथा न्यसनीयो जयश्रीप्रदो जयश्रीशब्दः । स एव चाऽत्राऽपि । न केवलं गीर्वाणवदनावतारिण्यां गीर्वाणभाषायां किंतु स्वभावसुभगानेकार्थततिनिधानकल्पायां प्राकृतवाण्यामपि शान्तरसप्रधानायामयमेवाऽङ्को न्यासि न्यासनिपुणैरुपदेशरत्नाकरादौ जयसिरीत्याद्यवलोकनाच्छ्रीमद्विहिते । भवन्ति च पुरुषविशेषनिर्मिता ग्रन्था एवंविधाङ्काङ्किताः । यथा भगवद्भिः श्रीहरिभद्रसूरिपादैविनिर्मितेष्वगण्यगुणाकरेषु ग्रन्थेषु विरहाङ्कोऽङ्कि, वाराणसीवासजातमदोद्धरविपश्चित्ततिविजयावाप्तयथार्थन्यायविशारदपदसदालोकलोकलोचनलोभकानेकदुस्तरतरत्नाकरग्रन्थशतविधानवितीर्ण For Personal & Private Use Only Page #43 -------------------------------------------------------------------------- ________________ अ न्यायाचार्यपदाप्तक्रियाकरणासादितगण्युपाध्यायवाचकादिपदाः श्रीमद्यशोविजयचरणाश्च ऐकारावं संस्थापयामासुः प्रतिग्रन्थमारम्भे । परमाद्यानां प्रायश्चित्तप्रतिपत्तिसम्बन्धादन्येषां चोपगङ्ग-मैङ्कारजापविधानात्कवित्ववित्त्वप्राप्तिसद्भावाद्यथाङ्ककरणे स्पष्टतरमुपलक्ष्यते लक्षणादिदक्षैः प्रयोजनं, परं नैषां पूज्यानां प्रोक्तमन्तरेणाऽन्यत्, भविष्यति च कदाचित् तत्, परं न तदस्माभिर्व्यलक्षि । यदि परं स्यात्केषाञ्चित् ज्ञातं ज्ञापनीया वयमुपकारधिया । अनन्तरं चाऽपरगुरुस्मरणस्याऽऽवश्यकतामभिमन्यमानैरभियुक्तैरभियुक्तदेवतास्मरणस्थानीयं यथार्थाभिधानभृतां श्रीज्ञानसागरनामधेयानां स्मरणमकारि समुददीपि च प्रस्तुतप्रकरणप्रकरणपटिष्ठोपदेशनिदानताज्ञापनेन तेषां विद्यनदीष्णता । जायेतैव च जिज्ञासा जिज्ञासूनां श्रीमद्विषयिणी । सा च समापनीया सुधीभिः प्रकरणकृद्विहितगुर्वावलीगततत्प्रकरणवलोकनेन । तद्यथा - श्रीसोमसुन्दरगुरुप्रमुखास्तदीयं, त्रैविद्यसागरमगाधमिवाऽवगाह्य । ... प्राप्योत्तरार्थमणिराशिमनर्घ्यलक्ष्मी-लीलापदं प्रदधते पुरुषोत्तमत्वम् ।।१।। श्रीसोमसुन्दराचार्यप्रवरा ये प्रकरणकृदुरवस्तेऽपि श्रीपूज्यपादवितीर्णोपदेशामृतपानपीनाः । अनेन य आचचक्षिरेऽनवलब्धग्रन्थसत्तत्त्वाः यदुत 'न भट्टारकाः श्रीसोमसुन्दरपादान्तेवासिनः, कथमन्यथा भवेयुर्द्वयेऽपि सहाध्यायिनः ? कथङ्कारं, च प्राय: समानवयस्कानां गुरुशिष्यभाव: ? असम्भव्येव च लघीयद्भ्यः शिष्यार्पणं पूज्येभ्यः कुर्युः श्रीदेवसुन्दरमिश्राः इतीति केचित्, परमविचारितरामणीयकमेतत् । यतः ख्यापयन्त्येव पूज्यपादाः स्वयमेव श्रीमद्दीक्षितत्वमात्मनां शिष्यतामप्रतिमां च । "शिष्यस्तदीयोऽयमपीति मन्यते, श्रीवाचकेन्द्रेष्वगुणोऽपि मादृशः । ग्रहप्रभोः पुत्र इति ग्रहावलौ, न पूज्यते पङ्गुरपीह किं शनिः ? ॥२०॥ अहो तेषां कराम्भोजवासानां सुप्रभावता । जातो यैौलिगैर्योग्योऽप्यहकं मुनिसुन्दरः ॥२१॥" इति गुर्वावलीगौरवाविष्कल् गुर्वावल्याम् । तन्न प्राक्तनाः कल्पनाशिल्पनिर्मिता विकल्पकल्लोलाः प्लावयितुं स्युः श्रीसोमसुन्दरसूरिपट्टे एकपञ्चाशत्तमः श्रीमुनिसुन्दर इत्यादिव्याख्यानकुलिशं प्रभविष्णवः । प्रायः समानवयस्कत्वादिकारणानि चाऽलक्षितसाधुपदगौरवार्हाणामेव चेतसि विदध्युर्वासनां न तु विज्ञातगुरुपदैदम्पर्येतिहासानाम् । यच्च विद्यमानेष्वपि किमिति सोमसुन्दरसूरिषु श्रीमद्देवसुन्दरपादवर्णनमित्यनूद्यते तदप्यसमञ्जसमेव । यतो द्वयेऽपि वेविद्यमाना एव ते, सत्सु च देवपादेषु यत्सोमगुरुपादवर्णनं तदेव तेषां तच्छिष्यतासूचकमित्यलं विशेषेण । ___ वर्णनीयता तु श्रीमद्देवसुन्दरपादानामसमभक्तिप्राग्भारनिभृतहृदयस्मरणीयत्वद्योतनाय । बृहद्गच्छाधीशत्वेन पूज्यपूज्यानां चाऽतिशयितपूजास्पदत्वस्याऽव्याहतेश्चाऽत एव च तद्विनेय इत्यभिहितं श्रीमद्भिः सामान्यतस्तदियता प्रबन्धेन श्रीमतां दीक्षागुरवः श्रीसोमसुन्दरचरणा, ज्ञानगुरवः श्रीमन्तो ज्ञानसागरा ज्ञानसागरा गच्छाधिपाश्चोद्देशाद्यतुच्छफलकल्पनकल्पमहीरुहमाना देववदाराध्यपादाः श्रीयुतो देवसुन्दरसूरय For Personal & Private Use Only Page #44 -------------------------------------------------------------------------- ________________ इति निर्णयोऽनाबाधोऽव्याहतश्च । ज्ञानसागरगुरूणां त्रैवैद्यविषयोपदेशाश्रय इति तदणीयोमहिमाख्यानम् । ततो गोष्ठीविधानभूमिकल्पो विद्वद्विधानयोग्यायोग्यपरीक्षणसम्यग्विज्ञातवाङ्मयविद्वत्समागमोद्भवानन्दनन्दिश्चक्रे वक्रेतराशयैः । पश्चाच्छास्त्राभ्यासानुयोगावसरोदीर्णप्रतिभाविशुद्धबुद्ध्याभोगः १, सद्गुरुसमायोगः २, सद्गुरुविनयप्रयोगः ३, पुस्तकप्राप्तियोगः ४, प्रमत्ततावियोगः ५, सततोपयोगः ६, शुद्ध्यभियोगः ७, देहारोग्यभाग्यादीनि साधनान्यैदंयुगीनान्तेवासिवर्गविमृश्यतमान्याचख्युः ख्यातमाहात्म्याः ।। आख्याय च विद्वद्गोष्ठीगुणगणान् ज्ञानद्रुमोन्मूलनमातङ्गत्रिवर्गविध्वंसनव्यग्रदपाकरणप्रकरणेऽनेकाननणुप्रभाववारांनिधीन् पुरुषसिंहान् यथार्थावाप्ताभिधानश्रीमद्दिवाकरवादिचक्रचूडामणिप्रभश्रीमल्लवादिमनोहारिभद्रभरनिर्जितमोहमोषकोपद्रवश्रीमद्धरिभद्र-सर्वविसंवादिनिर्मूलस्वकल्पनाशिल्पिमात्रनिर्मितग्रन्थततिवितननविज्ञापगतलज्जदिगम्बरमदनिर्मथनदेवसूरिसख्यश्रीदेवसूरि-ब्रह्मगोचरातिगनिरवद्यचातुर्विद्यविधानविज्ञामारिपटहोद्घोषणख्यापिताभयप्रदत्वगुणमहिममहीपालकुमारपालकुमुदकौमुदीपतिश्रीहेमचन्द्राचार्यप्रभृतीन्, ज्ञानरत्नरत्नाकराणां कृत्यमतनुप्रभावं, गुणोपार्जनावश्यकतां गुणवद्गृह्यतां लोकानामाराध्यतमतां च गुणिनामाविर्भावयामासुः । लक्षणगोष्ठ्यामन्तरेणे अध्ययने इति धातुम् अधीये इति १, उच्यतीति २, व्याघ्रा इति ३; जागृक् निद्राक्षय इत्यन्तरा जागर्ति इत्यादीनि त्याद्यन्तानि; पञ्चड्डलानीतिसमासे त्यादौ त्रयोदशरूपाणि धातोरेकस्या-ऽसंसृष्टानि; विना गर्मि जगामेति; मारिरेकाम, मामिनीभाम, माद्भ्यां (माभ्यां), दधिसेक् इत्यादीनि रूपाणि; गतिकारक इति, नित्यादन्तरङ्ग बलीय इति च न्यायः । छन्दोनुशासनगोष्ठ्यां मागध्यां ५७५००००००, उपहासिन्यां ४५५९७५००००, आर्यायां ८२९२०००० भेदाः; प्रस्तारादयः षट् प्रत्ययाः ।। काव्यगोष्ठ्यां काव्यलक्षणं, शब्दार्थभेदाः, दोषा, गुणा, भूषणानि, अर्थवैचित्र्यहेतवः । प्रमाणगोष्ठ्यां च प्रामाणिकभेदाः, देवगुरुधर्मतत्त्वलक्षणानि । प्रस्तावनामात्रमेतदखिलमर्हद्देवनिर्ग्रन्थगुरुनिष्कलङ्कधर्मयथास्थितवस्तुतत्त्वप्रतिपादनस्य । देवलक्षणं तत्र तावद्विपश्चिद्वन्दवेद्यविद्यावर्यता निजगदू रागादिदोषानालीढत्वममलकेवलपरिवृढितां, प्रतिहतात्मगुणप्रहननप्रत्यलघातिकर्मनिचयतां, प्रशमामृतनिमग्नवदनेन्दुविकस्वरारविन्ददलप्रख्यनयनद्वन्द्वज्ञापितक्रोधादितिरस्कृति, बालकमनीयकामिनीशून्याङ्कानुमापितस्मरतिरस्कार, द्विषद्दारणदृप्तास्त्रायोगख्यापितदोषप्लोषम् । व्यतिरेके निदर्शयामासुरन्येषां विस्तरतोऽतथात्वमरक्तद्विष्टानां देवतत्त्वपरीक्षणाय परीक्षाचणाः । प्रोक्तवन्तः प्रवचनसौधस्तम्भश्रीमद्धारिभद्रीयलोकतत्त्ववचांसि नेत्रनिरीक्ष्येत्यादितो यस्य निखिलाश्च दोषा इत्येतदन्तं श्लोकितदेवतत्त्वाय स्तोकश्लोकास्पदाञ्छ्लोकान् । तथेशः किमिति, ब्रह्मा चर्माक्षसूत्रीति च पद्ययुगल्यामलया परोक्तमप्यन्ववादिषुर्देवस्वरूपनिरूपकम् ।. प्रतिपादितौ परेण मनुष्यमात्रासर्वज्ञत्वाख्यावदेवत्वदर्शकौ निषेधाय देवत्वस्याऽसिद्ध्यादिदोषाघ्रातत्व For Personal & Private Use Only Page #45 -------------------------------------------------------------------------- ________________ दर्शनेन निरस्याऽसमकल्याणकरणप्रवणकल्याणकमहिमोद्भावनेन निरचैषुश्चेतनाभृच्चणाः श्रीजिनस्यैव यथार्थां देवतत्त्वावतारितां, लोकातिगावाप्तावस्थानां च सिद्धानां प्लुष्टानन्तकालप्रचितमूलनिचयकर्मनिकराणां स्वभावज्ञानदर्शनवीर्यसुखानन्त्ययुक्तानामिति । गरिमगुरुतास्पदश्रीगुरुतत्त्वपरीक्षणे समस्तश्रेयोवितरणदक्षसम्यग्दर्शनज्ञानचरणाराधनचञ्चवस्तदुपदेशनपराः पञ्चमहाव्रतीधुर्धरणधौरेया गौरवार्हा गुरवो निरचायिषत निश्चयाख्याननिपुणैः । प्रणिगदितं चाऽऽगमनिष्णातैरारम्भपरिग्रहनिरतानामगुरुत्वं माध्यस्थ्येन ।। अभ्युदयनिःश्रेयससाधनसाधीयोधर्मनिरूपणे अभयदानं मिथ्यावचनादत्तादानाब्रह्मपरिग्रहेभ्यो निवृत्तिः, क्रोधमानमायालोभाभिधानकषायचतुष्कधिक्कृतिः, विनयार्जवादिगुणाधिकारश्च यत्र सुप्रयत्नप्रतिपादितः स एव धर्मः । कुतीर्थिककथितस्य तु तस्याऽतथात्वं जीवतत्त्वावबोधतद्रक्षणप्रयत्नाभावादसर्वज्ञप्रणीतत्वान्निस्त्रिंशपरिगृहीतत्वाच्च ततं ततबोधांशुभिः पूज्यैः । तत्राऽऽद्ये हेतौ स्नानादेर्धर्मता सप्रसङ्गं निराकृता, प्रतिष्ठापितं चाऽपां सजीवत्वं, प्रकरणतो वीतरागाणामेव यथार्थवादित्वं च । द्वितीये च तदागमतत्प्रकाशकानामसर्वज्ञत्वं, तदागमानां च परस्परविरुद्धार्थाविर्भावकताविनाभाविता हिंसाद्यतिनिकृष्टोपदेशदानपटुता च साधिता । तृतीयस्मिंस्तु तस्मिन् सविस्तरं तत्परिगृहीतॄणां निस्त्रिंशता भवाभिनन्दिता च प्रादुर्भाविता । ____ तदेवं देवगुरुधर्मरूपा तत्त्वत्रयी अत्राऽऽतताऽतनुबोधैः शैशवेऽप्यशैशवमतिभिरिति यथार्थाभिधाऽस्य त्रैविद्यगोष्ठीति । यतो नाऽत्र विश्वे वेविद्यते काऽपि विद्यावदातकल्याणाऽपरा विहायैतत्तत्त्वत्रयीम् । वेदनाद् विचारणात् प्रापणार्हत्वाच्चाऽस्या नांऽशतोऽपि विद्यात्वं जङ्घन्यते । यथावदवबोधश्चाऽऽसमाप्ति निरीक्षणादेवाऽस्या भावी । न हि सूर्यप्रयोजनं मुकुराक्रान्ततद्विम्बेन बोभूयमानमवलोक्यते । तथा चाऽऽशासे लब्ध्वाऽनया प्रस्तावनया प्रमेयं प्रमेयं समग्रमेनामध्येतुं श्रोतुं वा प्रयतेरन् प्रवर्तेरंश्चैतदभिहिते तत्त्वत्रयाराधनेऽनल्पकल्पनातिगफलसम्पत्तिसम्पादनसमर्थ इति सागरान्तानन्दनामधेयः ।। ३६ For Personal & Private Use Only Page #46 -------------------------------------------------------------------------- ________________ सहस्रावधानधुराधरणधौरेयश्रीमुनिसुन्दरसूरीश्वरकृता श्रीत्रैविद्यगोष्ठी । नमः सर्वविदे । विघ्नवल्लिविध्वंसिने कुठाररूपाय गुरवे नमः । ऐनमः ।। जयश्रीलीलालीवितरतु ममाऽनन्तमहिमा, जिनः श्रीमान् वीरस्त्रिभुवनविभुः सर्वकलनः । प्रवादा यस्यैवाऽऽगमजलनिधेरत्र निखिलाः समादाय स्वैरं कतिपयलवान् सत्त्वमभजन् ॥१॥ श्रीज्ञानसागराह्वस्वगुरूणां ज्ञानवारिधिम् । उपजीव्योपदेशं च कुर्वे त्रैविद्यगोष्ठिकाम् ॥२।। नमो विततैकान्तिकात्यन्तिकहितहेतुभ्यः श्रीमद्गुरुभ्यः । इह किल स्वपरसमयार्थसार्थादृष्यवैदुष्यपरिकर्मितमतयो विज्ञपतयः प्रायस्त्रैवैद्यगोष्ठीरतयो भवन्तीति तन्मनोविनोदाय तद्विषये किञ्चिदुच्यते । तत्र त्रैधाः प्रायो विदग्धा उपलभ्यन्ते तथाहि - केचन परमतमप्राचीनागण्यपुण्यप्रचयोपलब्ध श्रीमद्गुरुचरणपरिचर्याप्रसादप्राप्तानवद्यविद्याविलासोपहृतसहृदयहृदया अपि अवगतवस्तुसतत्त्वतया न कदाऽप्यभिमानकालुष्यमाशेश्लिष्यन्ते । केचन च किञ्चित्प्राचीनप्रचिताप्रधानकर्ममर्मवशतो निष्प्रतिमप्रतिज्ञातिरेकोद्भवाहङ्कारप्रचारप्रचारिताविवेका अपि सुयुक्तियुक्तोपदेशश्रवणादिना, स्वतोऽप्यधिकतरप्रज्ञाप्रकर्षप्रतिहतप्रवीणप्रकराप्रमाणप्रज्ञिलत्वाभिमानप्रकृष्टप्राज्ञपुरुषविशेषसमीक्षणादिना वा, व्यपहायाऽवलेपाक्षेपं सम्यग्गुणानुरागसङ्गिनो बोभूयुः । __इह कतिचित्पुरुषा अनादिकालमपारसंसारकान्तारोदरप्रसरणोपार्जितानिष्टकष्टौघहेत्वष्टपुष्टदुष्टादृष्टरक्षोधिष्ठिता विशिष्टमार्गसंसर्गिणः कथमपि परमतमप्रयासप्रसाधितकतिपयशास्त्राभ्यासा अपि परमार्थतो निबिडजडिमप्रचण्डिमावष्टब्धचेतस्कतया शृण्वन्तोऽपि तत्तन्निर्व्यपदेशोपदेशं, पश्यन्तोऽपि च बहुरत्नायां वसुन्धरायां तारतम्येन स्वतोऽधिकाधिकतरनिस्तुषमनीषासमुन्मेषोल्लासिप्रवीणवातान्, अखर्वगर्वपर्वतारूढमूढचेतोवृत्तितया न कदाऽपि गुणानुरागानुषणपूर्वकं मार्दवं बा भजन्ति । अनर्हाश्चैते सर्वथा असाध्यामयप्रचयप्रपीडिताङ्गाङ्गिवत् सदुपदेशादिप्रतीकारस्य । अनधिकृताश्च ते प्रबुद्धैरविबुधा विबुधजनोचितप्रशस्तशास्त्रगोष्ठीसुधापाने । आद्या द्वैधा अपि चाऽधिचक्रिरे तत्र सूरिभिः, परं द्वितीयाः साध्यव्याधिव्यथिताङ्गभाज इव प्रधानतरौषधविधानेन यथाप्रस्तावमहङ्कारनिराकरणविषयोपदेशलेशेन प्रतिबोधनीया इति । अथैतेषामन्यतमभाग्योपलभ्ये सङ्गमे समुपजाते सति यथोचितवचनादिप्रतिपत्तिपूर्वकमेवं स्याद् गोष्ठी । तथाहि - आगम्यतां भोः कोविदकुलावचूल ! अलङ्क्रियतामिदमासनं, किञ्चित्कलयथ प्रतिकलमतुलकुशलकमलाक्रीडाक्रोडासंक्रीडने भृङ्गभूयं यूयं, प्रमोमोदीदद्य शुभवतां भवतां कलावतां दर्शनेन सद्योऽस्मच्चित्तचकोरः । उल्लसत्येव हि कलावतः समुदये अप्रत्नगुणरत्नरत्नाकरः । दुर्लभो हि धर्मव्रततिवितानोच्छेदकरालकरवाले बहुलदोषजालेऽस्मिन् कलिकाले विमलगुणमण्डलाभरणभारिणां ३७ For Personal & Private Use Only Page #47 -------------------------------------------------------------------------- ________________ परमसौजन्यधारिणां .दुर्गस्वर्गापवर्गमार्गप्रचारिणाम् अनवद्यविद्याविलासामराचार्यानुकारिणां सुविचारिणां सदाचारिणां सङ्गमः । गमयत्येवाऽयमनुत्तरो ह्युत्तरोत्तरोत्तमानेकगुणविवृद्धिहेतुः सेवधिरिव विधिवद्गुणिजनसन्निधिः परमसुखसम्पदं पदां विनयादीनां नरम् । किं नोक्तं चतुरचेतश्चमत्कारकारिहारिप्रचुरवाक्प्रबन्धेन श्रीमता हर्षमिश्रेण सकलकविकुलप्रबलमदगदौषधे नैषधे नाम महाकाव्ये, तथा हि - प्राणप्रियप्रणयिनी - प्रवरगुणगणप्रगुणनप्रकटितप्रणयप्रकर्षं राजहंसावतंसं प्रति प्राह नल ईलापतिः भृशतापभृता मया भवान्, मरुदासादितुषारसारवान् । धनिनामितरः सतां पुनर्गुणवत्सन्निधिरेव सन्निधिः ॥१॥ तद्युक्तमेवैतत् सकलकलन्दिकाकलनाविकलकौशलशालिनां विमलविनयविवेकाद्यनणुगुणमालिनां शुभवतां भवतां सङ्गमेन यदद्यामन्दानन्दसन्दोहास्पदं भवामहे वयम् । किञ्च भो ! यः खलु प्रबलकलिकालानुभावप्रसरद्दोषचक्रवालोच्छलद्बहुल धूलीपटलध्यामलितान्तराले सकलेऽपि क्षितिमण्डलतले दुर्लभतरमुपलभ्याऽपि प्रथितप्रवीणप्रकरप्रार्थितप्रगुणगुणगणसङ्गमं गुणिजनसङ्गमं तत्तद्गुणानभिज्ञतया गुणिमत्सरितया वा न प्रकृष्टप्रमोदामोदमेदुरतां बिभर्त्ति स खलु न प्रेक्षाचक्षुषां चक्षुषा प्रेक्षणीयः । यतो गुणानुराग एव मुख्यं लक्षणं वैचक्षण्यस्य, गुणानुरागश्च गुणवत्प्रेक्षणक्षण एवाऽक्षुण्णप्रमोदप्रकटनेनैव लक्ष्यः खलु दक्षैरक्षोदीयान् । नागुणी गुणिनं वेत्ति, गुणी गुणिषु मत्सरी । गुणी च गुणरागी च विरलः सरलो जनः ॥ १ ॥ - तदद्य बन्धो ! कृतकृत्याः स्मोऽनभ्रवृष्टिन्यायेनोपपन्नगुणवतां भवतां सङ्गमेन । परं पीयूषेणेव तोषयितुमिच्छामः श्रवणौ भवन्निवासावासग्रामग्रामणी - ग्रामनामसंश्रवणेन । कुतो वा विपुलविपुलामण्डलमण्डलाखिलमण्डलमण्डलाखण्डलाम्बरान्मण्डलादत्र युष्मत्समागमः । अथ हंहो धीधनाः ! कै: कैः प्रशस्तशास्त्रशस्त्रैर्निहथ निखिलप्राणिप्रकरप्रेष्यताप्रदायिप्रसरद्विक्रमक्रमोद्रेकभाजं मोहराजम् ? दक्षिणा ! क्षमध्वे लक्षणे विचक्षणाक्षोदीयोऽक्षुण्णाक्षामक्षोदम् ? कस्मिन् वा ऐन्द्र १ - जैनेन्द्र २ - सिद्धहेमचन्द्र ३ - चान्द्र ४ - पाणिनि ५ - सारस्वत ६ - शाकटायन ७ - वामन ८विश्रान्त ९ - बुद्धिसागर १० - सरस्वतीकण्ठाभरण ११ - विद्याधर १२ - मुष्टिव्याकरण १३- कलापक १४भीमसेन १५-शिव १६- गौड १७ - नन्दि १८ - जयोत्पल १९ - जयदेवा २० - दिव्याकरणेष्वाम्नातिनो भवन्त: ? । कं कं वा साहित्यशर्करारसं स्वादं स्वादं परमानन्दपीयूषे निमग्ना भवच्चित्तवृत्तिः ? तथा आटीकन्ते भवन्तः सुघटनाटकपेटकाभ्यासपटुपाटवप्रकटनैः स्फुटं नाटयन्तः कीर्त्तिनटीं नाट्याचार्यतासण्टङ्कम् ? । कैः कैरलङ्कारवारैरलङ्कारवारैरिव अलं समलङ्कृतं भवद्वदनम् । आस्ते तावत्कर्कशतरतर्कवितर्कसम्पर्ककर्कशधीत्वम् ? केषु केषु वा जैन - जैमिनि - सुगत - कणभक्षसाङ्ख्याक्षपादादिमतसम्बन्धिनानातर्कग्रन्थसन्दर्भेष्वधीतिनो यूयम् ? केषु केषु चाऽपरेष्वपि निश्छद्मच्छन्दोज्योतिःप्रभृतिप्रशस्तशास्त्रप्रकरेष्वधीतिनो भवन्त इति ? ३८ For Personal & Private Use Only Page #48 -------------------------------------------------------------------------- ________________ धीमन् ! युक्तमेवैतत् भवादृशां विशुद्धबुद्धिस्पृशां सम्यक्सारेतरवस्तुदृशां चारुचारिमोदारवर्यचातुर्यचमत्कृतचतुरविशां, यदेवं तेषु ग्रन्थेषु क्रोडीकृतव्यासः सदभ्यासः । किल शास्त्राभ्यास एव हि सारमसारसंसारे । तद्वतामेव यत्र तत्र तत्रभवता दर्शनात् । किञ्च, अस्तमीयिवांसः खलु ते त्रिभुवनभवनाभोगभासिनः सकलजगज्जन्तुजातामितैकान्तहितानुशासिनः प्रध्वस्ताशस्ततिमिरनिकराः सर्वज्ञदिवाकराः । अचकलच्चाऽविकलं सकलेऽपि क्षितितले कलिकालकालप्रदोषः स्वविलासकरालताप्रागल्भ्यम् । __ अथ च, प्रासरिसारिषुः सर्वतोऽप्यनिवारप्रचाराः प्रचुरतरतिमिरप्रारभाराः । अबोभवुश्च दक्षैरप्यलक्ष्या विशिष्य मोक्षपुराध्वानः । एवं च सति प्रशस्तशास्त्रप्रदीपा एव प्रगल्भायन्ते प्रदीप्रा जगति दुर्गापवर्गमार्गोपदर्शकतया । किञ्च, बाह्यान्धकारनिकुरम्बमात्रोपसंहारकारिणः सहस्रकिरणादप्यतिरिच्यते ह्येष निर्विक्रोष्यबाहीकान्तरतिमिरनिकरापहारकारी शास्त्रविसरः । तथा परिदृष्टपुष्टालोकादिविशिष्टपरिस्थूराविदूरार्थसार्थावगमनालङ्कर्मीणे लोचने अप्यवगणयत्येतदतीन्द्रियेतरवस्तुव्यतिकरप्रबोधप्रत्यलं शास्त्रमण्डलम् । किञ्च, महाचित्रनिधिरयं शास्त्रकोशो विधिवत्प्रदीयमानोऽपि यो विचक्षणैर्दक्षिणशिष्येभ्यो न कदापि क्षयितां शिक्षते, परं सुरक्षितव्य, एव खल्वमर्यादप्रमादादिदस्युभ्यः । तस्मान्निरन्तरं प्रमादपरिहारेण तदवबोधप्रसाधनावधानानुसन्धानविधानैर्भाव्यं विबुधधुरीणैः । तैविना अपहेयोपादेयोपेक्षणीयवस्तुनिकरव्यतिकरे तत्तत्तदुदर्कोपलम्भकतया, तथा विवेचनैकविकलत्वेनाऽक्षय्यमोक्षसौख्यादेः प्रापकत्वेन स्वहितस्य सम्यग्ज्ञानक्रियादेः प्रसाधयितुमशक्यत्वात् । न च तान्यप्रयत्नोपलभ्यानि, तत्तत्तत्प्रसाधनप्रधानसाधनसन्निधानविधानं विना तदध्ययनसाध्यस्याऽसिद्धेः । ___ तत्साधनानि च विशुद्धबुद्ध्याभोगः १, सद्गुरुसमायोगः २, सद्गुरुविनयप्रयोगः ३, पुस्तकप्राप्तियोगः ४, प्रमत्ततावियोगः ५, सततोपयोगः ६, शुद्धयभियोगः ७, देहारोग्य ८भाग्या ९दीनि । दुरापाणि चैतानि । यतो जगत्कर्ममर्मवशादधर्माशर्मबाहुल्येऽस्मिन् कलियुगे प्रतिक्षणं प्रहीयमाणप्रधानमेधादिबलत्वेन क्व तावान् प्राचीनमुनीन्द्रचन्द्रशेमुषीविशेषानुयायी विशुद्धबुद्ध्याभोगः ? अगण्यपुण्यप्रचयपरिपाकिमहिमोपलभ्यः खलु समग्रग्रन्थार्थप्रबोधपटिष्ठविशिष्टतरामितहितनिधिश्रीमद्गुरुसमायोगः । तथा विकुत्स्यातुच्छम्लेच्छादिकृनृपतिततिविध्वस्तानेकवलभ्यादितत्तन्महानगरस्थानेकलक्षणप्रमाणागमादिसदादर्शोच्छेदेन कौतस्कुतस्तावदज्ञानान्धकूपप्रपतत्प्राणिप्रतिहस्तकप्रायप्रशस्तपुस्तकप्राप्तियोगः? तथा तत इतो दृश्यमाननिरुपमानमिथ्याभिमानाविरामाद्युन्मत्तकुनयोपचयप्रधानकुभूपतितत्पत्तिगृहीतोगविग्रहाग्रहग्रहोद्यत्प्रमादानाभोगरोगाद्यनुरोगाद्यनुमेयाभाग्यादिधुर्येऽत्र कलियुगेऽतिदुरापाणि तथाविधस्वास्थ्याप्रमत्ततोपयोगाभियोगारोग्यभाग्यादीनि । ततश्चैवं दुरासदान्यप्यासाद्य कथमप्येतानि नाऽधीयोरन् ये विधिवन्निरवद्या विद्याः, वञ्चितः खलु तैरविबुधधुरीणैः स्वात्मैव तदुत्थोच्चश्रेयोभ्यः । अधीत्याऽपि च ये शास्त्राणि सततानवधारणेन वृद्धिविधुरतया विदधीयेरन् तदनुक्रमाद्धानिभाञ्जि सुशास्त्राणि, ते च समधिकतरं स्वात्मवञ्चनेन वञ्चनीयतामङ्गीचेक्रीयन्ते । त एव हि धन्याः, ३९ For Personal & Private Use Only Page #49 -------------------------------------------------------------------------- ________________ प्रबुद्धजनमनोमान्या, ये विधाय विधिवत् शास्त्राध्ययनं पुनस्तदवधारणादिना प्रतिदिनं विवृद्धिमेव दधति तानि विदध्युः । तद्विवृद्धिश्च प्राय: पटुतरतदभ्यासव्यासप्रयाससाध्या, सोऽपि प्रायस्तद्विषयोत्साहपूर्व इति प्राहुः प्रबुद्धाः । एषोऽपि गुणिजनप्रष्टैः श्रेष्टिगोष्ठीविधानदधद्बढिमानमुपलभ्यते । अतो बहुगुणत्वादेषाऽपि ज्ञानादिगुणप्रकर्षप्रापकतया परम्परया साधनमेव जेगीयते श्रेयोमार्गस्य । तेन यथासमयमेतामप्यादरिदारिषुर्विदुराः श्रीसर्वज्ञोपज्ञसज्ज्ञानोत्साहादिगुणोपचयहेतुमिति । यत उच्यते - ज्ञानोत्साहो गुणावाप्तिः, प्रागल्भ्यं बहुदशिता । तत्त्वबोधः श्रुतावाप्तिः, साधुगोष्ठीगुणा ह्यमी ॥१॥ किञ्च, इयमेव स्वमधुरिमविधुरितो/धोलोकाधारसुधाभिमाना वसुन्धरावलये विचरद्विबुधततितुष्टये प्रभवति । अतः पापीयध्वं क्षणं दक्षिणाक्षुण्णदक्षणप्रायं सममस्माभिरचतुरवचनप्रपञ्चश्रवणोद्भूतप्रभूततापापहारप्रवणं त्रैवेद्यगोष्ठीपीयूषयूषपूरम् । अथ केचिदहङ्कारमषीशितिमानमात्मन्यादधतो न दरीध्रति तथाविधोज्ज्वलगुणानुरागम् । ते चैवमखर्वगर्वाध्मातमानसा न तामहतीति तान् प्रत्युपदेशलेशः प्रपञ्च्यते । तथाहि - तथाविधमवसरमुपलभ्य विद्वन् ! कथङ्कारं भवद्हृदयगुहायामुद्यच्छास्त्रखरकरनिकरप्रचारेऽपि क्वचित्तत्तद्वचनान्यथानुपपत्त्यनुमेयापहेयाहङ्कारान्धकारप्रचारः । विमरीमृश्यतामचिरस्य मोहस्य लास्यम् । किं युज्यते भवादृशामपि प्रेक्षादृशां हृदयेष्वन्तरुद्यच्छास्त्रप्रकरध्वान्तारातेः किञ्चिद्वस्तुतत्त्वानवबोधावरणमनुमापयदहङ्कारशावरम् ? किञ्च अन्तर्चलद्विनयनयविज्ञानादिगुणतृणभरोद्भूतप्रभूतजाड्यज्वलनमनुमेमीयन्ते तदन्यथानुपपन्नायाः सर्पद्दर्पोद्दामधूमस्फीतताया दर्शनेन प्रबुद्धाः ।। ___आः किमिदं हतविधेर्विततललितमिदं, यद्विवेकिनराणामपि बुद्धितरुष्वेवं गर्वगुर्वविवेकातिरेकोदकप्रकरनिषेधः ? पुरापि के के ह्येकेनाऽप्यनेकाविवेकोत्पादकेनाऽनेन च्छेका अपि नैकलोकनिकायाः कानि कानि नाऽऽचरिकारयिषताऽकृत्यानि ? कृत्यानि वा कानि कानि न व्यसरिस्मारयिषत् स्मयेनाऽनेन विस्मयस्फीतताधायिस्फुरत्तरस्मृतिनदीष्णोरपि? तन्नूनं विधेरेवेदमवध्येच्छाप्रागल्भ्यं परिपोस्फुरीति, तेषु तेषु पदार्थेषु उपपनीपद्यमानानामनुपपनीपद्यमानानां वा तत्तत्तद्गुणागुणानां तथा तथा नियोजने वियोजने वा प्रत्यलं, यद्भवादृशेषु विमलविद्याजलप्रधौतावदातहृदयेष्वप्येवमहङ्कारमषीकृष्णिमावलिप्तता । तथा चाऽवावादीत् श्रीहर्षः कविमचर्चिका - अवश्यभव्येष्वनवग्रहग्रहा, यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयाऽनुगम्यते, जनस्य चित्तेन भृशावशात्मना ॥१॥ अथवा कोऽयं विधिर्नाम ? का वा तस्येच्छा ? किं वा तया सेषिद्धयेत ? पुरुष एव हि अनवगतत्रयीतत्त्वतया स्वस्वरूपविवेचनादिविकल: सत्कृत्येषु गजनिमीलकाद्यवलम्बी प्रमादानाभोगादिकुमित्रसम्पर्कवशादवितक्यैवोदकं तत्तदसत्क्रियाप्रवृत्तस्तत्तदुःखफलोपभोगभाजनं बोभूयेत । स एव च यदा श्रीसर्वज्ञोपज्ञप्रशस्तशास्त्रोपदेशप्रदीप्रप्रदीपोपलब्धसमस्तवस्तुसतत्त्वतया सम्यग् विविच्य तद्गुणागुणस्वरूपं ४० For Personal & Private Use Only Page #50 -------------------------------------------------------------------------- ________________ तदुपादानहानयोः प्रयायत्येत, तदा समासादयत्येवाऽयमुत्तरोत्तरतत्तच्छुभफलभरभ्राजिष्णुः क्रमात्परमपदसम्पदमपि । यदुच्यते - तावत्कलयति पुरुषो, हतविधिललितोत्थदुःखसङ्घातम् । चिन्तयति नेति यावत्कोऽहं ? किं मे हितं चाऽन्यत् ॥१॥ इति च विविच्य विबुध्य च, हिताहितप्राप्तिहानियत्नवतः । सा नाऽस्ति काऽपि सम्पत्, लुलति न या करतले यस्य ॥२॥ अत: परिज्ञातज्ञेयगुणागुणगरिमाणो विचारचारिमाखण्डपण्डितिमानश्च विचारयन्तां स्वचेतसा, किं चतुराणां चेतश्चमत्कारकारी स्यात् कदाऽपि चेक्रीय्यमाणोऽयमवलेप: ? किञ्च, इह हि दुरन्ते कलिकालविलासे विस्फुरत्प्रबलमोहभूपालकुतूहलोत्तालबलोच्छलत्कोलाहलोच्चालिताखिलमञ्जुलोल्लासिबहुलगुणचक्रवालाकलितवित्रासे कुतस्त्यं तावन्निरवद्यहृद्यचातुर्वैद्यवैशारद्यम् । न हि कोऽप्येवंविधः पुरुषविशेषोऽत्र समीक्ष्यते, यः किल कलयत्यविकलं सार्ववैद्यावबोधविशदिमानम् । यतो गलन्त्येव हि प्रतिकलमधुनातनेषु तमोजनेषु सच्छिद्रभाजनोदरपूरिपूर इव शुश्रूषा-श्रवण-ग्रहण-धारणोहापोहार्थविज्ञान-तर्कविज्ञान-तत्त्वज्ञानलक्षणा अमी मनीषागुणाः । गलत्सु च तेषु तदग्रिमनिदानानि विधौ प्रधानानि विद्यानिधानान्यपि परीस्पृशन्त्येव हि क्रमेणा-ऽपहानिपदवीम् । एवं च क्रमेण हीयमाने विद्यासौन्दर्ये साम्प्रतकालीनेषु जनेषु ज्ञानलवा एव परिपोस्फुरति । तथाऽपि योऽचतुरचेतस्को विद्याघ्रातमात्रतयैवाऽमानाहङ्कृतिभाजनमानुषङ्गरङ्गद्वङ्गसंसर्गी सञ्जायते, नाऽर्हत्येवाऽयमप्रतिमप्रामाणिकश्रोत्रियपरिषदि प्रवेशम् । भवते च स खल्वदृष्टाश्रुतस्वीयज्ञानाणुताप्रदायि-पुरातनानेकमौनीन्द्रवृन्दोदारचित्रचरित्रः कूपमण्डूक इव बहुश्रुतसदस्सु हास्यास्पदत्वमिति । ततो विचक्षण ! समीक्षस्व क्षणमान्तरचक्षुषा, कस्ते नाऽज्ञानातिशयो, येनैवं दुर्द्धरदर्पोद्धरकन्धरीभवसि । धीमन् ! नयस्व क्षणमेकं स्वीयमानसं स्थिरस्थेमानम् । अवधारय वैबुध्यधुराधरणधीरोदारपुरातनानेकमुनीन्द्रचन्द्रो-दग्रविद्याशक्त्यादिसौन्दर्यम् । तथाहि - इह हि अहमहमिकावनम्रकम्रनिःशेषवृन्दारकासुरनिकरेश्वराखिलविपुलावलयप्रौढपरिवृढ श्रेणिशीर्षावलीशेखरांसङ्गिरत्नोकरोल्लासिरश्मिमण्डलीमिलदविरलपदयुगलनखोन्मिषत्सिन्दूरपूरारुणरुचिरोचिनिकरकर्बुरिताम्बरोदरश्रीमज्जिनपतिगदितोत्पादव्ययध्रौव्याद्यनन्तधर्मात्मकाशेषजगद्व्यवस्थाप्रकाशकामलपदत्रयीसमाकर्णनानन्तराविर्भवत्प्रतिभाप्राग्भारप्रकर्षप्रबुद्धाशेषभुवनान्तर्वर्तिपदार्थसार्थोपनिषद्याथातथ्यगणधरपदवीप्राप्तप्रतिष्ठश्रीमद्गौतमप्रभृतिगणपतयोऽन्तमुहूर्त्तमात्रकालेन चराचरोदरविचरन्मोहान्धकारसम्भारसंहारोद्यत्तरुणतरणिकरनिकरानुकारिभिः शेषज्ञेयोपनिषत्परिज्ञाननिधानप्रधानतरानन्तार्थाक्षय्यकोशात्मद्वादशाङ्गीयशःस्तम्भसमुत्तम्भनं विरचयाञ्चक्रुः, तेष्वेव व्यलासीद् विश्वत्रयानुत्तरावबोधसम्पत् । तदनु पुनरवलम्बिततरतमभावप्रज्ञाविभवाद्बहवोऽप्यभूवन्नित्यादिप्रज्ञाप्रकर्षप्रतिहताशेषबुधम्मन्यविद्याखर्वगर्वसर्वस्वाः सक्षुभिक्षुक्षितिपतयो यतिपतयः । ये हि किलैकपदश्रवणतोऽप्यविकलं कलयाञ्चकुर्ग्रन्थकोटीकोटीरपि । कः खलु परिमितजीवितैकजिह्वो निजशेमुषीसमुन्मेषैः सुरगुरूयमाणोऽपि कोष्ठकबुद्धिबीजबुद्ध्याद्यनेकप्रकारप्राचीन ४१ For Personal & Private Use Only Page #51 -------------------------------------------------------------------------- ________________ प्राज्ञप्रज्ञामहिमानं प्रथयितुमलम् । तथाऽपि चतुरचेतश्चमत्कृतये केषाञ्चिदुच्यते । तथाहि - विलेसिवान् चिरमनिवारप्रचारोद्यद्वादिदर्पान्धकारसंहारदिवाकरकरनिकरप्रतिमवाग्विलासः श्रीसिद्धसेनदिवाकरो नाम सूरिवरः । यस्य किल समारूढस्य प्रौढवादरणाङ्गणे प्रज्ञाज्ञैश्वर्यादिगुणसदःसदःपतिप्रतिभाधारणाबाहुश्रुत्यक्षान्ति-माध्यस्थ्यादितत्तद्गुणग्रामरमणीयानेकसभ्यावलीसमक्षमक्षोदीयोऽक्षुण्णक्षोदक्षमानल्पविकल्पकल्पिताकल्पजल्पकेलीकलामाकलय्य मषीविलिप्तवदना इव प्रत्यग्रपराभवाविर्भावप्रभवद्विषादासादनोदितश्यामलिमान: पञ्चाननरावसंश्रवणादिव जलधरधोरणीधौताञ्जनगिरिगरीयःसोदरोद्धरसिन्धुरपरम्परेव तत्रसुः सर्वतोऽपि प्रचण्डपाण्डित्यपाटवाखण्डवाडिण्डिमाडम्बा(म्बरा) अपि प्रतिवादिसन्दोहाः । यः किल भगवान् स्वीयौन्नत्यप्रकर्षामरगिरिगरीयःशृङ्गप्रस्पर्द्धिऋद्धिजिनालयश्रेणिशिखरशिरोऽसंस्थितादभ्रकिङ्किणीजालनिक्वणव्यतिकरवाचालिताखिलदिक्चक्रवालप्रचलदुज्ज्वलोद्यद्विपुलपताकावलीसङ्करोच्छिन्नखरकरनिकरप्रचाराविर्भवत्तापसम्भारायामुज्जयिनीमहानगर्यामपहतहरगिरिगुरुशैखरौन्नत्यमदगरिमोन्मादे महाकालाभिधप्रासादे श्रीमद्देवाधिदेवानुपमस्तुतिविरचनवशात् प्रस्फुटच्चण्डचण्डीशलिङ्गोत्थखण्डान्तराविर्भूतायां श्रीमज्जिनपतिप्रतिमायां चमच्चेक्रीयमाणचित्ताक्रमाक्रान्तदिक्चक्रविक्रमोद्भासितश्रीविक्रमादित्यभूपतिप्रभृतिप्रवीणततिविततसदसः श्रीमद्देवाधिदेवानणुगुणप्रख्यापनपूर्वं तत्त्वत्रयीप्रबोधप्रदानेन प्रभावयाञ्चकृवान् श्रीमज्जिनशासनं, सुरगुरुरप्यचतुर एवैतस्य गभीरतरार्थानन्दिसकलतार्किकचक्रचूडामणिपरिषत्सम्मत्याद्यप्रतिमग्रन्थरत्नोत्करप्ररोहरोहणगिरेरित्यादिविशदावदातविवर्णने ।। तथा पवित्रयाम्बभूव क्षितिवलयं सूरिवरः श्रीमल्लवादी नाम महावादी । यस्य भगवतोऽनतिशैशववयसोऽपि क्षपिताशेषविपक्षक्षितिभृच्छिलादित्याभिधप्रौढप्रतापशालिमेदिनीवासवोदारसंसदि प्रक्लृप्ते षण्मासावधिवादमहासङ्गरे निर्जितदुर्जयोजस्विप्रतिभाप्राग्भारालयाखिलसौगतावलीप्लुष्टगरिष्ठयशःप्रकराविर्भूतायशोङ्गारगणप्रसङ्गसादितप्रवरस्थिरतरतागुणो यशोभरघनसारः सुरभयामासिवान् त्रिभुवनभवनोदरम् । अद्याऽपि हि यत्प्रभवं नयचक्राख्यग्रन्थचक्रं समुच्छिनत्ति प्रसरढुर्वादिदर्पचक्रम् । तथा उपचक्रे भगवान् अपारसंसारपारावारपरिमज्जज्जन्तुजातमविकलकरालकलिकालविलासेऽपि त्रिभुवनभर्तृश्रीमज्जिनपतिगदितानवद्यनिःश्रेयसाध्वप्रदर्शनेन कृतत्रिभुवनभद्रो हरिभद्रो नाम सूरीन्द्रः । यतः क्षमाधरगुरोः प्राप्तप्रभवा सललितबहुलविमलाबालनिष्प्रतिमोदाराव्यर्थसदर्थसाक्षुण्णाक्षरनिकरनीरपूरनिरन्तरा, क्वचिद्विरचितातुच्छमात्सर्यालयाशेषपरप्रवादिप्रभवानेककर्कशतर्कसम्पर्कप्रतिघातार्थोपस्थापितनिष्प्रतिमोत्तमोत्तमयुक्तिव्यतिकररत्नोत्करकरम्बितान्तरा, क्वचिदुद्दण्डदण्डककदम्बकप्रोच्छलद्धवलामललोलकल्लोलमालोत्पतत्सीकरप्रकरासारव्ययितत्रिभुवनजनसन्तापा, क्वचित्कवलितासारपरप्रवादिप्रथितागण्यानुमानमीनावलीकदुःशकव्यभिचारप्रचारा, असङ्ख्येयाध्यक्षमुख्याक्षुण्णक्षोदक्षमाप्रौढप्रमाणप्रकरप्रसर्पत्तिमिङ्गिलगिलावलीसङ्कलान्तराला, क्वचिन्निरवद्योदारहृयपद्यावलीधवलविलसन्मरालमण्डलीसमाकुलविपुलपुलिनाभोगभोगा, क्वचिदतिगूढप्रौढप्रचुरगभीरार्थसार्थस्वल्पाक्षरानल्पगद्यपद्यावलीविकटपुटभेदपेटकोद्घाटिताकालबालावलीसाध्वसव्यूहा, क्वचिदमृतरसनिस्यन्दिश्रवणसुखदानेकग्रथितगाथागणागाधगूढप्रौढ ४२ For Personal & Private Use Only Page #52 -------------------------------------------------------------------------- ________________ ह्रदसन्दोहदुःशकापाठीनाधीवरप्रवेशा, आनन्दितसकलसहृदयहृदया, सङ्क्लृप्ताखिलसंश्रितासङ्ख्यविपश्चित्कल्मषविलया, चतुर्दशप्रकरणशतीनिर्झरिणी पवित्रयाञ्चक्रुषी निखिलभूवलयम् । येन किलोद्दामवादमहारणाङ्गणे क्षणमात्रादेव प्रतिहतवितताभिमाना धिक्कारकारितत्तत्सभ्यादिवाक्कोटिलकुटतटाघातशून्यीभूतहृदया बौद्धा अपि माध्यमिकाः सन्तोऽपि सरलतरतालहिज्जलज्वलनसलिलजलधिद्विकलमलावलीरङ्गत्तुङ्गतुरङ्गभृङ्गकुरङ्गाङ्गारगिरिकान्तारहारविहारोदारप्राकारपुरप्रमुखानेकपदार्थसार्थानपश्यन्तः शून्यवादित्वमेवोररीचक्रिरे । __तथा प्रसर्पदर्पसम्भारोद्धरकन्धरा अपि प्रारब्धे येन सहोदारवादसङ्गरे क्षणमात्रादेव समीक्ष्य स्वीयाखर्वगर्वसर्वस्वहासं क्षणिकत्वमेवाऽशेषसंस्काराणां सूत्रयामासुः सौत्रान्तिकाः ।। ____ यस्य हि परमकोटिप्राप्तोदारज्ञानरमया आसादिताखिलभूमण्डलाखण्डलमण्डलीमहनीयमहिमानं समीक्ष्य विज्ञानस्यैव सारत्वं मन्यमाना अखिलत्रिभुवनवलयस्याऽपि तन्मयत्वमेव शरणीचक्रुर्योगाचाराः । इह हि षट्दर्शनाशेषवादि(त्व)सन्दोहा यदभिधानश्रवणादपि माद्यन्मदझरनिर्झरिणीप्ररोहोत्तुङ्गशृङ्गधराधरानुकारिस्फुरद्गन्धसिन्धुरोद्धरगन्धप्रकरविधुरितापरसिन्धुरधोरणीव विमुक्ताशेषमदोत्कट्या निर्व्याजोल्लसद्भक्तियुक्तीः प्रकटयन्तः प्रकटमेव यन्निकटमाटाटिषुः क्रमयुगलवरीवस्याघटनायै । __ तथा प्रीणयामासिवानमृतरसनिस्यन्दिवाग्विलासैस्त्रिजगतीं निजप्रतिभावैभवाभिभूतदेवसूरिदॆवसूरि म सूरिः । यस्य किलाऽशेषवादीन्द्रशिरःशेखरस्य पृथिवीप्राप्तप्रतिष्ठश्रीसिद्धचक्रवर्तिश्रीजयसिंहदेवोदारपरिषदि सङ्क्लृप्तोद्दामचतुरशीतिवादप्रतिवादिनिर्जयनोर्जिताखण्डपाण्डित्यरञ्जिताखिलभूपालचक्रवालप्रदत्तोत्तालमरालमण्डलोज्ज्वलचपलचारुचामर श्रेणिधवलविपुलातपत्रसिंहासनावलीचङ्गरङ्गत्तुङ्गतुरङ्गकिङ्करप्रकरप्रभृतिपरिच्छदापूर्णनिकटतटोत्कटाहङ्कारसम्भारभारितातन्द्रकुमुदचन्द्राभिधानाखिलव्योमाम्बराखण्डलविजयाजितप्रौढसत्कीर्तिनर्तकी जगत्त्रयोत्तुङ्गवंशाग्रनर्तनशीला कुरुतेऽद्याऽपि सकलसहृदयान् आनन्दसमास्कन्दास्कन्दान् । यन्निम्मितानेकयुक्तिव्यतिकराञ्चितोद्दण्डदण्डकस्फारवृत्तोत्कराप्रत्नरत्नरत्नाकरस्याद्वादरत्नाकरप्रमुखानेकसत्तर्कग्रन्थावली क़ां कां न चमच्चरीकरीति कोविदावलीम् । तथा उद्योतयामास श्रीमज्जिनशासनं दुःषमान्धकारसम्भारसंहारोद्यत्तरुणतरतरणिकरनिकरानुकारिप्रवरवाक्प्रचारः कोविदवृन्दवर्यः श्रीहेमचन्द्राचार्यः । यस्याऽविरलविमलवाग्लहरीनाशितानादिकालालीनदुर्निवारविस्फुरन्मोहाहिविषप्रसरः श्रीमद्गुर्जरधराधुराधरणधुरन्धरतामादधानः श्रीमत्कुमारपालभूपालः समुद्घोषयामासिवान्निखिलभुवनवलयेऽपि समस्तजगज्जन्तुव्रातरक्षोद्घोषणेन विलसद्यशःपटहम् । यस्य किल कलिकालसर्वज्ञेतिबिरुदानन्दितसज्जनमनसः सपादलक्षलक्षणच्छन्दोनुशासनालङ्कारचूडामणित्रिषष्टिशलाकापुरुषचरित्र-योगशास्त्र-प्रमाणमीमांसाप्रमुखानेकसत्तर्कग्रन्थग्रथनानुकम्पिताशेषविशेषविशेषज्ञस्य वैदुष्यविशेषव्यावर्णने किं ब्रूमः समधिकं मूढतारूढचेतोवृत्तयो, निखिलत्रैलोक्यवन्दनीयपादारविन्दयुगला भगवती शारदाऽपि न देध्रीयते सामर्थ्यम् । कोविदोत्तंसा बहवोऽप्यभूवन् विविधज्ञानादिगुणगुरवः श्रीमद्गुरवः । न खल्वेतेषां गुणपारावारपरपारं ४३ For Personal & Private Use Only Page #53 -------------------------------------------------------------------------- ________________ प्राप्नुयाद् वर्षसहस्रैरपि कश्चित् परं नैकोऽप्येतेषु कश्चिदहङ्काराद्यनघगुणकालुष्यकलुषितमात्मानं बभार । हन्त तर्खेतदपेक्षया कः खलु ज्ञानातिशयः साम्प्रतकालीनानां जनानाम् ? किञ्च – एतन्निष्टङ्कितमिह जानीहि, यत्राऽहङ्कारान्धकारप्रचारो, न तत्र निर्मलज्ञानदिनकरकरप्रचारः, विद्याहङ्कारयोः सहाऽनवस्थानस्वभावविरोधविधुरत्वात् । एकतरसम्भवे इतराभावस्य स्पष्टनिष्टङ्कनात् । कुत्रचिदहङ्काराभावेऽपि विद्याविरहदर्शनेन नाऽत्र व्यभिचारचौरप्रचारः शङ्कनीयः । तत्र तदुत्पादकाध्ययनादिसमग्रकारणभावहेतुकोदारविद्यानुपलम्भेपि तद्योग्यताया विद्यमानत्वात् । न च वयं निरहङ्कारत्वमेव सर्वथा विद्याहेतुं ब्रूमः, तदन्येषामप्यध्ययनादितद्धेतूनां विद्यमानत्वात् । न च विद्यारूपस्वकार्योत्पादनासमर्थत्वात् तस्य तद्योग्यताया अप्यभाव, इति वाच्यं, तदन्यकारणाभावनिमित्तकत्वात्तदनुत्पादनस्य । न च मुख्यहेतुसम्भवेऽप्यपरहेत्वनपेक्षं कार्योत्पादः सम्भवति, तेषां तदनिदानप्रसक्तेः । यो यदभावेऽपि भवति, न तत्तस्य कारणं, घटस्येव तन्तवः । तन्नैवं तत्र तद्योग्यताभावः साधयितुं शक्यः न चैवं साहङ्कारस्याऽपि तद्योग्यता भवत्विति चिन्त्यं, तस्य कदाऽपि तददर्शनात् । अथाऽऽचक्षीथाः प्रत्यक्षमृषावादित्वमेतत्, यदहङ्कारिपुरुषव्रातानां सन्तमपि विद्याप्राग्भारमपहृध्वे । दृश्यन्ते हि बहवोऽपि सुधियोऽप्रमाणोन्नताहङ्कारशिखरिशिखरमारूढचेतसोऽपि विद्यावैशारद्यापहृतसहृदयहृदया इति । तदेतदज्ञानमदिरापानविह्वलचेतसां प्रलपितम् । तत्पुरुषाणां चातुर्वेदस्य विद्यात्वायोगात्, तदयोगश्च तत्फलविरहात् । विद्या हि ज्ञानमुच्यते, तस्य चाऽनन्तरफलं कुमार्गविरत्यादि, सन्मार्गासेवनादि च । तथा चोक्तम् - ज्ञानस्य फलं विरतिरित्यादि । तथा 'तज्ज्ञानमेव न भवति, यस्मिन्नुदिते विभाति रागगणः । तमसो हि कुतः शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥ इत्यादि । अहङ्कारस्य रागाद्यविनाभावित्वात्तत्त्वतस्तदभेदाच्चेति । न चाऽहङ्कारः सन्मार्गस्तस्य भवहेतुत्वात्, शिष्टनिन्दितत्वाच्च; आखेटकादिवत् । इति सिद्धं यत्राऽहङ्कारघोरान्धकारप्रचारो, न तत्र ज्ञानदिनकरकरविहार इति दर्पापाकरणम् । अतः परित्याज्योऽयं सर्वथा प्रशस्यश्रेयोमार्गाराधनप्रधानसाधनानवद्यविद्याविशारदादिभिः साभिलाषिभिरवलेपाक्षेपः । विधेयोऽनवरतमप्रतिमगुणानुरागसङ्गः, उपार्जनीयाश्च सम्यग्ज्ञानविनयनयविवेकादिगुणनिकराः । यतो गुणा एव दुष्प्रापाः प्रबलकलिकालविलासानुभावस्फुरदोषजालबहुलेऽत्र क्षितितले, गुणवानेव च त्रिविष्टपेऽपि विशिष्टजनेषु स्पष्टप्रतिष्ठास्पदं जञ्जभ्यमानः समीक्ष्यते दक्षैः । यतो गुणाः सर्वत्र पूज्यन्ते । तथा गुणवन्तमेव हि वरीवृणीयुरहमहमिकया निरस्तापदस्तत्तत्सकलसम्पदः । ऋद्धिसमिद्धा अपि दुर्लभतरगुणवच्चरणपरिचर्यालालसमानसाः सर्वतस्तदभ्यासदेशालङ्करणं बोभूयेरन् । अप्रार्थिता अपि च तद्गुणप्रकरप्रेक्षणप्रहृष्टमानसा निर्व्याजभक्तिभावितान्तःकरणतया गुणवत्पदयुगलं स्वमौलौ मौलिलीलामवलम्बयेयुः । ४४ For Personal & Private Use Only Page #54 -------------------------------------------------------------------------- ________________ स्वभावादेव च प्रथयन्ति कविप्रकाण्डगन्धवाहा दिक्षु विदिक्षु च गुणवद्गरीयोयशःकर्पूरपूरसौरभप्रतिमानम् । यतो नहि विकसत्तरमम्भोजन्म अधर्मकर्मकृज्जन्मवल्लभवलक्षचक्षुरनध्यक्षलक्ष्म्याः स्वस्मिन्निवासाय प्रार्थनाचाटूनि घटयदुपलभ्यते, किन्तु गुणगरिष्ठश्रेष्ठस्थानतया तत्रैव वावसीति सा । न चाऽपि राजद्राजीवराजी रणरणकारकारिमधुकरनिकराकारणाय क्वचनाऽप्यरियरीति, किन्तु स्वयमेव तद्गन्धसौरभलोलुपास्ते मधुपा गायन्त इव तद्गुणनिकरान् झणझणाकारिरावप्रकारैः परिवरीव्रतः सर्वतः तदलङ्करणभूयं सम्प्रतिपनीपद्यन्ते । अनभ्यर्थिता अपि च स्वस्यैवोद्यच्छोभाविशेषसमुन्मेषाय तथैवाऽर्हतया नरविसरोत्तमा अपि निवेशयेरंस्तां निजोत्तमाङ्गभागे स्वेनैव च वितन्तन्यन्ते तद्गन्धसौरभपूरं सर्वतो दिगुदरविवरेषु गन्धवाहाः । तस्माद्गुणानेवेह बंहीयोमहिमप्रारभाराऽप्रतिहननहेतुतया निरूपयामः खल्वपि । किञ्च, वचनमपि गुणवन्मुखादेव समुत्थितं सम्यगादेयतामादधानमादेद्रीयन्ते विबुधधुरीणाः । तथा चाऽवादिषुर्विदुराः - क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातुः स्तनात्पिबतः ॥१॥ तद्वत्सुभाषितमयं क्षीरं दुश्शीलभाजनगतं तु । न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पतितम् ।।२।। तस्मादनणीयः श्रेयःसाधनप्रगुणगुणानुरागादिगुणोपार्जन एवाऽऽहितावधानैर्भवितव्यं स्वहितैषिभिर्मनीषिभिः । त एव चाऽर्हन्ति श्रेष्ठशिष्टगोष्ठीमपि । तेनाऽथ अर्हथ प्रथीयःसद्गुणानुरागासङ्गितया यूयमिदानीमिमाम् । वयमपि च सम्यगुपासितश्रीगुरुचरणसरोजाऽप्रतिमप्रसादादधिकारिण एवाऽत्र । यतो द्रढीयोद्रढिमजडिमप्रचण्डिमावष्टब्धचेतस्का अपि श्रीमद्गुरुवदनोद्गच्छद्वचनप्रपञ्चोद्यद्दिनकरकरनिकरप्रतिहतान्तरतमःपटलपटिमतया समबोबोधिष्टाऽक्षोदीयोलक्षणाप्रतिमप्रमाणच्छन्दोऽलङ्कृत्यादिप्रशस्तशास्त्राणि । यतो नास्तीह तत्किञ्चिदवद्यं, महतां चरणपरिचर्यापि यत्पाटने न पटुपटिमानं प्रकटयति, घटयत्येवेयं दुर्घटोत्कृष्टविशिष्टश्रीघटानामपि सण्टङ्कम् । विघटयत्येव च स्फुटं कटतटानीव घटपेटकं विकटतरदुरितकोटीरपि । सामान्यजनेष्वपि किञ्चिद्गरिष्ठपुण्यस्थविमवशात्तुष्टिपुष्टिमुपगताः श्रीगुरुपादा जायन्ते एव जगज्ज्येष्ठस्थेष्ठसम्पत्साधनपटिष्टाः । यदुक्तं - गुरुयाणं चलणसेवा न निप्फला होइ कइया वि । ततः सुखेनैव तथाविधधिषणासाधिमविधुरा अपि श्रीमद्गुरुगुरुप्रसादमध्यासीना अध्यगीष्महि, अधीमहे चाऽद्याऽपि विशुद्धबुद्धिप्रबोध्यमेध्यशास्त्राणि । तथा तत्तद्वस्तुव्यतिकरेषु तत्त्वातत्त्वविचारणचतुरचेतोवृत्तितामपि प्रतिकलं कलयामः । नहि श्रीमद्गुरुप्रसादकल्पद्रुमप्रभाववैभवस्येयत्ता काऽपि समस्ति । तथा स्वभावात् श्रीगुरूपदेशाच्च गुणवत्प्रेक्षणप्रहर्षिणोऽपि वरिवृत्मः । तथा तथाविधबुधप्रष्ठप्रेष्ठवरिष्ठगोष्ठीरसिकस्वान्ततामपि देध्रीयामहे । अतो युक्तिमत्येव सम्प्रत्यावयोरेषा शास्त्रगोष्ठी । ततो विधीयते क्षणम् । [अनुवर्तते] For Personal & Private Use Only Page #55 -------------------------------------------------------------------------- ________________ आस्वादः प्रगाढ़विचाराः डॉ. मदनलालवर्मा यथा सागरस्य समुत्थितास्तरङ्गा अन्तरिक्षालम्भनस्य प्रयासं कुर्वन्ति, तेनैव प्रकारेण मानवस्येहा बलवत्यो भूत्वा संसृतेः सकलानन्दप्रापणस्य प्रयासं कुर्वन्ति । वृत्तमिदं कुत्रपर्यन्तं सत्यमस्ति, इत्यत्र चिन्तनस्याऽऽवश्यकता वर्तते । निजनिर्दिष्टस्थानं प्रापणायाऽस्माभिः कण्टकाकीर्णमार्गेष्वपि प्रचलनीयं भवेत्तर्हि विकलैर्न भवतिव्यम् । प्रणयः प्रसह्य केनाऽपि साकं न विधातुं शक्यते । इदं हि पूर्वसंस्कारगतभावनाधारेण जायते । प्रणयार्थं काश्चन विशिष्टाः परिस्थितयोऽपगम्याऽऽयान्ति । तासु दशासु बद्धो जनः स्वत एव प्रणयमार्गेऽग्रेसरो भवति । उपवने विकसितानां पुष्पाणां सुरभिरस्मभ्यमिदं दिष्टं प्रेषयति यद् यूयमपि स्वचरित्रस्य सौरभं सर्वत्र प्रसारयथ, तथा यथाऽन्ये जनास्तदनुभूय हर्षिता भवेयुस्तथा च युष्मदर्थे सद्विचाराणां सृष्टिं कुर्युः । ___ अस्मान् स्वतोऽस्य वृत्तस्य स्मरणं न जायते यद् वयं कुत्र गच्छामः । परिस्थित्या समाधानं विधाय गन्ता जनः कदाचिद् वञ्चितो भवति । परिणामस्य विषये शोचनस्याऽपेक्षया कर्मलीनेन भवितव्यम् । येन ब्रह्मणा जन्म प्रदत्तं, तस्याऽधिकचिन्ता वर्ततेऽस्मभ्यम् । याथार्थ्येन तेनैव प्रकारेण, यथा कस्यचिदबोधस्य शिशोश्चिन्तनं तस्य जननी करोति । दीपके शलभाः स्वत आगत्य वारं वारं ज्वलन्ति । अनेनाऽस्माभिरपि चिन्तनीयं यद् वयमेषां हितायाऽऽत्मानं समर्पयेम । 'परहितसमा निष्ठा न भ्रातः !' एतस्य विचारस्याऽऽत्मसात्कर्ता जनोऽन्तरात्मनि सानन्दो वसति । असावनेन शान्ति लभते । अन्ये जना यथाकामं किमपि चिन्तनं कुर्युरस्माभिः स्वकर्त्तव्ये आस्तिकबुद्ध्या पुरतो गमनीयम् । ४६ For Personal & Private Use Only Page #56 -------------------------------------------------------------------------- ________________ यदा मानवो वृद्धो भवति, तदा तस्य जीवनादुल्लासा आह्लादाश्च दूरीभवन्ति । तेन प्रतीयते यत् तस्य जीवनं नीरसं जातमस्ति । यथाऽऽम्रस्य शाखा शुष्यति तस्यां च कोकिला समागत्याऽऽलापान्न करोति, तेनैव प्रकारेण जरठस्य जीवनेऽप्यनुरागं प्रबोधयिता कोऽपि नाऽऽगच्छति । ये जनास्तस्य यौवने पौन:पुन्येनाऽऽगत्य तस्य संलापैः सानन्दा भवन्ति स्म, तेऽधुना नैवाऽऽगच्छन्ति । या प्रेमिका हरितयवसे समुपविश्य तया साकं सप्रणयमालपति स्माऽधुना साऽपि नाऽऽयाति । तदेत्थं प्रतीयते यथा मनसि भयावहकृष्णरजन्याः साम्राज्यमावृतं भूयात् । संसारोऽयमेकमेतादृशं बन्धनमस्ति, यस्मिन् बद्धौ जनः सदैव क्षुभ्यति सततम् । अत्र जनाः स्वार्थे निमग्नाः सन्ति निरन्तरम् । स्वार्थपूरणानन्तरं तु उपेक्षन्ते । संसारेऽस्मिन् यथार्थत्वं तु नैवाऽस्ति । यथा कल्पनस्यैकोऽगाधमहातटाको वर्तते विश्वमिदमस्य भयङ्करत्वेन मानवस्य लघुकलेवरं प्रतिक्षणं भयान्वितं भवति । मनुजाय किमपि हरितं सम्बलं नोपलभ्यते । अन्ततस्तेन स्वपरमेश्वराय प्रार्थनाया विधानमपेक्ष्यते । स आत्मनि चेतनताया अनुभूतिं विधास्यन् कदापि परमात्मानं न विस्मरेत् । सर्वप्रथमं सुन्दरतमं प्रियमवलोक्य मनसि विचारो विद्योतते यत्तदेतदपूर्वं किमर्थं नाऽवलोकितं मया? आतपस्य निर्मलत्वेन निखिलं जगत् सौन्दर्यसमन्वितं प्रतीयते । किं धरा, किं गगनं, किं वनस्पतयः, किं प्रसूनानि - निखिलान्येवाऽपूर्वमनोज्ञानि प्रतीयन्ते । दूरं दूरं यावदाप्यायितहरिद्राभसर्षपा इत्थं प्रतीयन्ते, यथा पीताभतरङ्गानां नर्तनं भवति । यदा प्राकृतिकातप इयान् मनोज्ञो भवति यत्तस्य प्रभावेण सर्वाण्येव वस्तूनि सुन्दराणि प्रतीयन्ते, तहि किं मानव इयान्मनोज्ञो भवितुं न शक्नोति, यत्तस्य प्रभावेण वसुन्धरा, वनस्पतयः, कुसुमानि सर्वाण्येव भव्यानि भवितुं शक्नुयुः ? जीवनमेतद् विनश्वरमस्ति । क्षणमात्रस्याऽपि प्रत्ययो नास्ति । अतो मनुजेनाऽहङ्कारो न करणीयः । एषां दशदिवसानां जीवने. मनुष्येण स्वसमयो निरर्थकं न विनष्टः करणीयोऽपि तु प्रभोर्नामस्मरणेन यापयितव्यः । बाह्यप्रदर्शनेन छामिकतया च किमप्यनुष्ठानस्याऽऽवश्यकता नास्ति । मनसो वैशयेनैव प्रभो म्नस्तत्त्वमवगन्तुं शक्यते । शास्त्राणां वेदानां स्मृतीनामध्ययनादिकैः सत्यभाषीभवितुं न शक्नोत्यपि तु मूलरूपस्य प्रभुनामक-शब्दस्मरणमात्रेणैव यथार्थं सुधीर्भवितुं शक्नोति मानव इति । -x ४७ For Personal & Private Use Only Page #57 -------------------------------------------------------------------------- ________________ पत्रम् मुनिधर्मकीर्तिविजयः आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । अत्र सातं वर्तते । सर्वेषां गुरुभगवतां देहः समीचीनो वर्तते । तत्राऽपि सर्वेषां कुशलं कामये । कर्णावतीनगरे 'शासनसम्राट्भवन'स्य समारोहः कृत आसीत् । अस्मिन् भवने जिनशासनोद्योतकानां महापुरुषाणां शासनसम्राटश्रीविजयनेमिसूरीश्वराणां च नयनरम्याणि चित्राणि मनोहरा रचनाश्च प्रदर्शिताः सन्ति । सहैव लक्षाधिकानां पुस्तकानां चित्कोषोऽपि विद्यते । एतद्भवनस्योद्घाटनेऽनेकेषां विद्वज्जनानां साहित्यसंगोष्ठिः सङ्गीतविदां च सङ्गीतसभाऽपि आयोजिताऽऽसीत् । एतत् सर्वं कार्यं निष्पाद्य गोधरानगरे आगतवन्तो वयं स्मः । बन्धो ! अद्य ज्ञानमुद्दिश्य किञ्चिल्लिखामि । स्वभावलाभस्य यत् कारणं तद् ज्ञानमुच्यते । दुर्गुणरूपविभावस्य नाशे यत् कारणं तन्नाम ज्ञानम् । यस्य ज्ञानस्य वृद्ध्या सह गुणानामपि वृद्धिः स्यात्, गुणान् प्रति रागस्तथा गुणिजनान् प्रत्यादरो बहुमानश्चाऽपि विवर्द्धत, स्वकीयान् दुर्गुणानज्ञानं च प्रत्यपि दृष्टिपातो येन भवेत्, तदेव वस्तुतो ज्ञानत्वेनोच्यते । ___ ज्ञानवृद्धिना सह दर्शनस्य चारित्रस्य चाऽपि परिणतिर्वर्द्धनीया स्यात् । चित्ते भगवता समादिष्टायां क्रियायां प्ररूपिते मार्गे च श्रद्धा दृढीभवेद् । संसारिजीवत्वेन संसारकार्याणि कुर्वन्नपि चित्ते "एतानि कार्याणि करणीयानि न सन्ति, आत्मनः कृतेऽहितकराण्येव सन्ति, तथाऽपि कर्मवशेनैतानि करोमि" इति भावः स्थिरः स्यादेव । दर्शन-चारित्रादिगुणैः सह सारल्यक्षमौदार्यादिगुणानामपि विकासो येन भवेत् तद् ज्ञानत्वेनोच्यते । बन्धो ! शास्त्रस्याऽध्ययनमध्यापनं च सुकरमस्ति, किन्तु ज्ञानस्य चित्ते परिणमनं तु दुर्लभमस्ति । अद्याऽनेकग्रन्थानामध्येताऽध्यापको रचयिता च समाजे 'ज्ञानी'त्युच्यते, किन्तु वस्तुतः स एव ज्ञानी यः परिणतज्ञानोऽस्ति । यथा यथा शास्त्राध्ययनं क्रियेत तथा तथा चित्ते तज्ज्ञानं परिणतं भवेत् । जना ज्ञानप्राप्तेः शक्तिमवाप्नुवन्ति किन्तु तज्ज्ञानस्य परिणमनशक्तिं न प्राप्नुवन्ति, तद् दुर्भाग्यमुच्यते, यतो ज्ञानप्राप्तिरन्या ज्ञानपरिणमनं चाऽन्यद्, इति ज्ञेयम् । ज्ञानप्राप्तिर्दुर्गुणवृद्धः कारणं भवितुं शक्या, तथा तस्यैव ज्ञानस्य परिणमनं दुर्गुणनाशस्य कारणमपि भवति । परिणतज्ञानवशेन तस्य वर्तने भाषायां च सारल्यं स्यात्, सर्वानपि प्रति समभाव आदरश्च स्यात्, किन्तु कमपि प्रति द्वेषवृत्तिस्तिरस्कारवृत्तिश्च न स्यात् । सर्वैः सहौदार्ययुतं व्यवहारमेव कुर्यात् सः । ४८ For Personal & Private Use Only Page #58 -------------------------------------------------------------------------- ________________ परिणतज्ञानी कीदृशः स्यात् ? स गभीरः सरलो नीतिमान् सहिष्णुश्च स्यात् । यथा गभीरः यस्य चित्ते ज्ञानं परिणतमस्ति स सागर इव गम्भीरः स्यात् । केनाऽपि स्वप्रतिष्ठा खण्डिता, केनाऽप्यवमाननं कृतं, केनाऽपि निन्दा कृता, केनाऽप्याक्षेपः कृतः कस्याऽपि दुर्बलताऽज्ञानता च दृष्टा, कस्याऽपि स्खलना जाता - इति सर्वमपि दृष्ट्वा ज्ञात्वा चाऽपि सहते, किन्तु न निन्दति, न च क्रुध्यति । - - ज्ञानी सरल: स्यात् । मायाप्रपञ्चादिरहित एव स्यात् । तस्य मनसि वचसि काये चेति योगत्रये - ऽप्यैक्यं स्यात् । ज्ञानस्य फलं सरलता, न च वक्रता । हन्त ! अद्य सर्वं विपरीतत्वेन दृश्यते । ज्ञानं त्वबुधजनवञ्चनस्य साधनं स्यात् इति प्रतिभाति । बुद्धिचातुर्यस्योपयोगः कस्याऽपि जनस्य साहाय्यार्थं क्रियते तर्हि तत् सफलं, किन्तु कस्याऽपि कार्ये विघ्नकरणार्थं बुद्धिर्व्याप्रियते यदा तदा न तज्ज्ञानं (चातुर्यम्) अपि त्वज्ञानमेव ज्ञेयम् । पठितजनैर्यावती मायाक्रीडा क्रियते सा त्वनन्यसाधारण्येव । भो ! एकोनविंशं तीर्थकरं मल्लिनाथप्रभुं स्मर । पूर्वभवे धर्मक्रियायां मित्रैः सह माया कृता । मायाकरणे शुभभाव एवाऽऽसीत् तथाऽपि माया तु मायैवोच्यते, तत्र न कोऽपि रक्षणोपायोऽस्ति । अद्य प्रशस्तमाया करणीया - इति केचिद् वदन्ति, किन्तु तन्नोचितम् । यतस्तद् यद्युचितं स्यात्तर्हि भगवान् मल्लिनाथः स्त्रीरूपेण तीर्थकरत्वं न प्राप्नुयात् । ज्ञानस्य फलमेतदेव यत् सर्वेष्वपि व्यवहारेषु सरलता स्यात् । ज्ञानी नीतिमान् स्यात् । मानवीयविकासस्य मूलमस्ति नीतिरेव । तस्या नीत्याः संस्कारा अवाप्यन्ते शालातः । किन्तु हन्त ! तत्रैव यद्यनीतिरसत्यमसदाचारश्चेत्यादिकानि कुकृत्यान्याचर्यन्ते तर्हि जनैः कुतो नीत्यादिकं शिक्ष्येत ? अद्य कस्मिन्नपि स्थाने नीतिमान् जनो न दृश्यते । यदि कदाचित् कोऽपि सज्जनो नीतिमाचरितुं प्रयतेत तर्हि समीपस्था जना एव तं त्रासयेयुः । पूर्वमेतादृश: काल आसीद् यत्, शालायां पुस्तकस्थितज्ञानस्य मूल्यं नाऽऽसीत्, न च 'सी.ए., एम.बी.ए., एम.बी.बी.एस. इत्यादिबिरुदानामपि मूल्यमासीत् किन्तु नीतिमत्तायाः सदाचारस्य मानवता - याश्चैव मूल्यमासीत् । शालास्वपि शिक्षणस्य व्याजेनैतादृशानां गुणानां विकासे एव महत्त्वं दीयते स्म । इदानीं तु शालायां ज्ञानमुताऽज्ञानं पाठ्यते इत्येव प्रश्नोऽस्ति । एवं ज्ञानी, द्वेषी क्रोधी पक्षपाती तिरस्कारवृत्तिमाँश्च न स्यात् । यत एते तु दोषाः सन्ति, ज्ञानं गुणोऽस्ति । यज्ज्ञानेन चित्ते विकारा दुर्गुणाश्चोत्पद्यन्ते तद् ज्ञानमेव नोच्यते । उक्तं च तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥ बन्धो ! गोशालको दृष्टिपथमायाति । स भगवतो महावीरस्य शिष्य आसीत् । स भगवत: सकाशादेव बहु ज्ञानं प्राप्तवान् किन्तु तज्ज्ञानं न परिणतं जातं, ततश्चित्ते उन्मादो जागृतः । तदुन्मादवशेन ४९ - For Personal & Private Use Only Page #59 -------------------------------------------------------------------------- ________________ तेन स्वगुरोस्तीर्थकरस्य तिरस्कारोऽवर्णवादश्च कृतः । यदा भगवान् गौतमाय तस्य वास्तविकस्वरूपमकथयत् तदा क्रुद्धो गोशालकस्तीर्थकरस्योपर्येव तेजोलेश्याममुञ्जत् । किमेतद् ज्ञानमुच्येत ? नैवम् । येन चित्ते राग-द्वेषादिदोषा उत्पद्यन्ते तन्न ज्ञानमपि त्वज्ञानमेवाऽस्ति । भो ! अन्नस्याऽजीर्णं भवमेकं नाशयेत् किन्तु ज्ञानस्याऽजीर्णं तु बहून् भवान् नाशयेत् । अस्मिन् भवेऽपयशो मानहानिं चाऽवाप्नुयात् तथा परलोके तु केवलं दुर्गतिमेवाऽवाप्नुयाद् ज्ञानाजीर्णवान् सः । अतो न कदाऽपि ज्ञानस्योन्मादः करणीयः । ज्ञानी सहिष्णुः स्यात् । यः कश्चिदपि स्वसूक्ष्मबुद्ध्या ज्ञानस्य प्रकर्षतां प्राप्तुं शक्तः । ततः समा तस्य प्रशंसा स्यात् । तस्मिन् काले कदाचिदपि परिणतज्ञानी एष तु एतादृशो लघुः, एतादृशे कुटुम्बे जातोऽस्ति - इत्यादिकं न वदेत्, किन्तु तं प्रशंसेत् । - हन्त ! अद्यतनकालस्य महती दुर्बलताऽस्ति - असहिष्णुता । प्रतिजनं प्रतिगृहं प्रतिसमाजं प्रतिधर्मस्थानकं च क्लेशः प्रवर्तते, तन्मूलमस्ति - असहिष्णुता । सर्वेऽपि जना लघ्वीषु घटनास्वपि क्रोधं क्लेशं च कुर्वन्ति । सर्वे जना "मया यत्कृतं यदुक्तं च तदेव सत्यम्' इति मन्यन्ते, अन्येषां कृत्यं कथनं च सर्वदा तिरस्कुर्वन्ति । ततस्तेषां मध्ये संघर्षः प्रवर्तते । यदि कोऽप्यन्यस्याऽपि कृत्यं कथनं चाऽमुकापेक्षया सत्यं स्यात् इति चिन्तयेत् तदा न कदाऽपि क्लेशो भवेत् । किन्तु सर्वेऽपि जना असहिष्णवः सन्ति । भोः ! अज्ञानिजना यद्येवं कुर्युस्तत्तु क्षम्ययमस्ति किन्तु यदा ज्ञानिनो जना अप्यसहिष्णुतामाश्रयेयुस्तत्तु शोचनीयमस्ति । बन्धो ! सर्वस्या अप्यशान्तेर्मूलमस्त्यसहिष्णुता, यतोऽसहिष्णुता भय, शङ्का - आक्रोश - हताशादिदुर्गुणानुत्पादयति । एतेषां दुर्गुणानामधीनो जनोऽशान्तिमेवाऽवाप्नोति । एतत् कथनं कठोरं किन्तु सत्यमस्ति यद् अधुना प्रायो ज्ञानं घृणामहङ्कारं तुच्छतां क्षुद्रतां चैव वर्धयति - इति प्रतिभाति । ज्ञानिजनानां परस्परं क्लेशं घृणां च दृष्ट्वा मनसि प्रश्नो भवति किमेष ज्ञानी उच्येत ? १. मोटाओनी अल्पता जोइ थाक्यो नानानी मोटाइ जोइ जीवुं छं. एका पङ्क्तिः स्मर्यते पण्डितः पण्डितं दृष्ट्वा श्वानवद् घुघुरायते || - इदानीमेवैकं काव्यं पठितम् – महाजनानां लघुतां दृष्ट्वा व्यथितो जातस्तथा लघुजनानां महत्तां दृष्ट्वैव जीवामि । बन्धो ! जना महत्तां तदैव प्राप्नुयुः यदा जीवने ज्ञानं परिणतं स्यात् । अतस्त्वमपि जीवने ज्ञानं परिणमयितुं शक्तः स्यादित्याशासे । - - -X - उमाशंकर जोशी ५० For Personal & Private Use Only Page #60 -------------------------------------------------------------------------- ________________ सिद्धार्थः द्वितीयभागः जर्मनभाषायां मूललेखकः हरमानहेसः आङ्ग्लभाषायामनुवादकः हिल्डा-रोसनरः संस्कृतानुवादकः मुनिकल्याणकीर्तिविजयः १. कमला स्वीयवर्त्मनः प्रत्येकं पदे सिद्धार्थः किञ्चिन्नूतनं शिक्षितवान्, यतस्तस्य कृते सकलमपि जगत् परिवर्तितमासीत् खलु ! तेन च परिवर्तनेन सोऽत्यन्तमाह्लादितोऽभवत् । सोऽरण्ये पर्वतेषु च सूर्यमुदयन्तं निरीक्षितवान् तथा तालवृक्षाच्छादिते दवीयःसमुद्रतटेऽस्तमनमपि विलोकितवान् । निशि स सुविशालं तारकितं नभो दृष्टवान्, नीले प्रवाहे च प्रवहन्तं नावाकृति चन्द्रमसमपि स निर्वर्णितवान् । स वृक्षान्, नक्षत्राणि, प्राणिनः, जलधरान्, इन्द्रचापान्, शिलोच्चयान्, आरण्यकस्तम्बान्, पुष्पाणि, निर्झरान् सरितश्च, प्रभाते च वनस्पत्यग्रे स्फुरत्प्रभान् अवश्यायकणान्, सुदूररमणीयां पर्वतमालां, कूजतः पक्षिणः, गुञ्जन्तीमधुमक्षिकाः, मृदुपवनैर्दोलायमानानि च व्रीहिक्षेत्राणि विस्मयमुग्धतया निरीक्षितवान् । वर्णसहस्रैर्वणितं रूपसहस्रैश्च शोभमानमेतत् सर्वमपि सर्वकालं प्रकृतौ विलसदासीत् । सूर्यश्चन्द्रश्च सर्वदा प्रकाशमानावास्तां, नद्यो हि सर्वदा प्रवहन्त्य आसन्, मक्षिकाश्च सर्वदा गुञ्जन्त्य आसन्; किन्तु पूर्वं ह्येतत् सर्वमपि सिद्धार्थस्य निरर्थकं प्रतिभाति स्म, सर्वमपि क्षणिकं मायाजालमयमावरणरूपं चैवाऽनुभूयते स्म, सर्वमप्यप्रत्येयतयैव विलोक्यते स्म, निन्द्यतयोपेक्ष्यते स्म, विचारप्रदेशाच्च निर्वास्यते स्म । यतः सर्वमप्येतत् वास्तविकं न, यतो वास्तविकता हि दृश्यजगतोऽपरस्मिन् पार्वे निहिताऽऽसीत् । किन्त्विदानीं तस्य दृष्टिरस्मिन् पार्वेऽपि विचरिता । दृश्यं सर्वमपि स दृष्टवान् प्रतिपन्नवांश्च, तथाऽत्र जगति स स्वीयं स्थानमपि निरूपितवान् । इदानीं वास्तविकताया निरूपणे तस्याऽऽसक्तिर्नाऽऽसीत् नाऽपि चाऽन्यः पार्श्वस्तस्य ध्येयम् । अन्यत् किञ्चिदपि यदि न काम्येत तदा जगदिदमत्यन्तं सुन्दरमत्यन्तं सरलं शिशुतुल्यं निष्पापं चाऽऽसीत् । चन्द्रस्तारकाणि च सुन्दराण्यासन्, निर्झराः, समुद्रतटः, अरण्यं, पर्वताः, पशव: सुवर्णवर्णा भ्रमराः, पुष्पाणि पतङ्गाश्चेति सर्वमपि सुन्दरमासीत् । ईदृशे सहजे, सरले, प्रबुद्धे, सन्निहितेनैव च सम्बद्ध आशङ्कारहिते च जगति विचरणमप्यतिसुन्दरमतीव मनोरमं चाऽऽसीत् ।। ____ अन्यत्र हि सूर्यः प्रखरतया तपन्नासीत्, अन्यत्र च घनारण्यच्छायासु शीतलता प्रवर्तते स्म, अन्यत्र च कूष्माण्डानि कदलीफलानि च विलसन्ति स्म । दिनं रात्रिश्च लघूभूते भासेते स्म, समुद्रे विचरन्त्या नौकाया वातपटमिव प्रत्येकं मुहूर्तं जवेन संचरति स्म - निधानैः पूर्णमानन्देन च पूर्णम् । ५१ For Personal & Private Use Only Page #61 -------------------------------------------------------------------------- ________________ गच्छता सिद्धार्थेन घनेऽरण्ये वानरयूथमेकं दृष्टं, यद्धि वृक्षाणामुच्चशाखासु प्लवमानं सोन्मादं सोत्साहं च चीत्कुर्वन्नासीत् । अग्रे च तेन मेषाः स्वयूथ्यैः सह विहरन्तो दृष्टाः । एकत्र तडागे तेन क्षुधो निवारणार्थं वेगेन तरन्तो मत्स्या दृष्टाः, तन्मार्गादन्यत्र सरन्तः संक्षुब्धाः स्फुरन्तश्च लघुमीनाश्चाऽपि दृष्टाः । तेषां च पृष्ठतो धावमानस्य रोषाकुलस्य महामत्स्यस्य सामर्थ्यं जिघृक्षामपि च स तदुत्सारितजलावर्ते प्रतिबिम्बिते विलोकितवान् । एतत् सर्वमपि हि सर्वदा प्रवर्तमानमासीत् किन्तु तेन कदाऽपि नैव दृष्टं तत्, वस्तुतः स तं द्रष्टुमुपस्थितो नाऽऽसीत् । इदानीं स न केवलमुपस्थितोऽभवत् प्रत्युत तदंशभूत एव जातः । प्रसन्नमनसा स प्रकाशं छायां च विलोकितवान् चन्द्रं तारकाश्च साक्षात्कृतवान् । मार्ग क्रामतस्तस्य, जेतवनस्य सर्वोऽप्यनुभवः स्मृतिपथमायातः - भगवतो बुद्धादुपदेशश्रवणं, गोविन्दाद् वियोजनं, परमज्ञानिना च बुद्धेन सह संभाषणम् । भगवते तेन यदपि कथितमासीत् तस्य प्रत्येकमपि शब्दस्तस्य स्मृतौ यथावदासीत् । तथा यद् वस्तु स स्वयं न ज्ञातवान् तत् तेन भगवते कथमिव कथितमित्यस्याऽऽश्चर्यमद्याऽपि तच्चित्ते जागर्ति स्म । स भगवते किं कथितवान् आसीत् ? - यथा – बुद्धस्य परमज्ञानं परमरहस्यं चोपदेशानर्हमासीत्, वस्तुतस्तदनिर्वचनीयमव्यवहरणीयं चाऽऽसीत्, तथा भगवता बुद्धेन स्वीयसम्बोधिकाले यदनुभूतमासीत् तदेवाऽनुभवितुं तेन प्रवृत्तमासीदिदानीम्, इतः परं स तदेवाऽनुभवितुं प्रारप्स्यते । सर्वैरपि हि स्वयमेवाऽनुभवः प्राप्तव्यः खलु ! स चिरकालाज्जानाति स्म यत् स स्वयमेवाऽऽत्माऽस्ति - ब्रह्मवच्छाश्वतस्वभावः, किन्तु स तं कदाऽपि नैव साक्षात्कृतवान् - यतः स तं विचारजालेन ग्रहीतुमैच्छत् । सोऽजानाद् यद् - इदं शरीरं हि निश्चिततयाऽऽत्मा नाऽऽसीत्, नाऽपि चेन्द्रियाणां विलासः, न विचाराः, न हि बोधः, नैव पाण्डित्यं, नाऽपि च तादृशी कला यया निर्णेतुं शक्येत विद्यमानैश्च विचारैर्नूतनी विचारधारा वा सृज्येत । नहि नहि, विचाराणां जगत् खल्वस्मिन् पार्श्व एवाऽऽसीत्, तच्च, यदा कश्चित् काल्पनिकचेतनां स्वचित्ताद् विनाशयेत् तदाऽपि, किञ्चिद् निश्चितं लक्ष्यं नैव प्रापयति स्म प्रत्युत तां चेतनां विचारैः पाण्डित्येन च पूरयति स्म । विचारा इन्द्रियाणि च नूनं शोभनान्यासन्, तेषां च पृष्ठतो बहूनि रहस्यानि निलीनान्यासन्; यद्यपि उभयोरपि श्रवणं तथोभाभ्यामपि क्रीडनमप्यावश्यकमासीत्, परमन्यतरस्याऽपि तिरस्करणमधिकमूल्याङ्कनं वाऽनुचितमासीत् । उभयोरपि ध्वनेनिष्ठया श्रवणमेवोचितमासीत् ।। अतस्तेन निश्चितं यद् - यदान्तरः शब्द आदिशेत् तदेव कर्तव्यं, तथा, यत्र कुत्राऽपि नैव स्थातव्यं किन्तु तत्रैव स्थातव्यं यत्र स शब्दः सूचयेत् । यतो, यदा हि गौतमेन सम्बोधिः प्राप्ता तदा स किमर्थं बोधिवृक्षस्याऽधस्तादुपविष्टः ? नूनं स स्वस्याऽन्तःसम्भूतं ध्वनि श्रुतवान् आसीद् - येन शब्देन तस्य तत्रैवोपवेष्टुं ध्यातुं चाऽऽदिष्टम् । तेन च शरीरस्येन्द्रियाणां च दमनमकृत्वा, यज्ञादिकमविधाय, स्नानानि For Personal & Private Use Only Page #62 -------------------------------------------------------------------------- ________________ प्रार्थनाश्च न कृत्वा, खाद्य-पेयादिकं निद्रा-स्वप्नादिकं वा विधानमनाश्रित्य केवलं तदादेशस्यैव पालनं कृतं सम्बोधिश्च प्राप्ता । बाह्यं कमप्यादेशमवधीर्य केवलमान्तरशब्दस्यैव श्रवणमनुसरणं च, तथा तदर्थमेव सज्जत्वं च श्रेयःकारि नितरामावश्यकं चाऽप्यासीत् । अन्यत् किमप्यावश्यकं नाऽऽसीत् । ___तस्यां रात्रौ स कस्यचिन्नाविकस्य तृणकुट्यां शयितः । निद्रायां तेनैकः स्वप्नो दृष्टः । स्वप्ने हि, भिक्षुकाणां काषायवस्त्रं धृत्वा गोविन्दस्तत्समक्षं स्थित आसीत् । स उदासो दृश्यते स्म सिद्धार्थं च पृच्छति स्म – 'भवान् किमर्थं मां त्यक्त्वा गतवान् ?' एतच्छ्रुत्वा स गोविन्दं परिष्वज्य सान्त्वयित्वा च तन्मस्तकं चुम्बितवान् । एतावता गोविन्दः स्त्रीत्वेन परिणतः । तस्याश्च स्त्रिया वस्त्राञ्चलात् पूर्णावुरोजौ प्रकटीभूतौ । सिद्धार्थश्च मुखं नामयित्वा ततः पयःपानं कृतवान् । तद्धि पानं मधुरमूर्जस्वि चाऽऽसीत् । तस्मिंश्च पाने स्त्रियाः पुरुषस्य च, सूर्यस्य वनस्य च, प्राणिनां, पुष्पाणां, प्रत्येकं फलानां, प्रत्येकं सुखानां च स्वाद आसीत् । पानं च तत् सर्वथोन्मादकमासीत् । यदा स जागृतस्तदा पाण्डुरा नदी कुट्या द्वारस्याऽग्रे विलसमाना प्रवहन्त्यासीत्, अरण्याच्चोलूकस्य गभीरः स्पष्टश्च शब्दोऽश्रूयत । ___ सूर्योदयानान्तरं सिद्धार्थः स्वस्याऽऽतिथ्यकारिणं नाविकं नद्याः पारं प्रापयितुं प्रार्थितवान् । नाविको हि सिद्धार्थं स्वीयवंशमयतरण्डेन नदीपारं नीतवान् । नद्या विशालो जलविस्तारो बालसूर्यकिरणै रक्तिमानं वहन्निव द्योतते स्म । अथं च तत्सौन्दर्यं दृशा पिबन् सिद्धार्थो नाविकमुक्तवान् – 'एषा नदी ह्यतीव सुन्दरा खलु !' 'आम्' नाविकः कथितवान्, 'एषा नदी सुन्दरतमा । अहं तां सर्वतोऽप्यधिकं प्रीणामि । अहमनेकशस्तां श्रुतवान् निरीक्षितवांश्च, तथाऽहं सर्वदाऽपि तत्सकाशात् किञ्चिदिव शिक्षितवानप्यस्मि । नदीसकाशाज्जनो बहु शिक्षितुमर्हति' । _ 'उपकृतोऽस्मि सौम्य !', नद्या अपरस्मिन् तटेऽवतरन् सिद्धार्थोऽवदत्, 'किञ्च, भवता क्षन्तव्योऽहं यतो मत्पार्वे भवते तरषण्यं दातुं न किञ्चिदप्यस्ति । अहं हि निराश्रय एको ब्राह्मणपुत्रोऽस्मि, श्रमणश्च जातोऽस्मि' । 'तत् त्वहं पश्याम्येव । अहं भवत्तो न किञ्चिदप्यपेक्षे । भवान् ह्यन्यदा कदाचित् मे दातुमर्हति' । इति नाविको मृदुतयोक्तवान् । 'किं भवतो विश्वासोऽस्ति यदहमन्यदा दास्यामीति?' सिद्धार्थो हसन् पृष्टवान् । 'अवश्यम् । नदी मामेतच्छिक्षितवत्यस्ति यत् प्रत्येकं वस्तु प्रतिनिवर्तत एव । भवानपि भोः श्रमण ! अवश्यं प्रतिनिवर्तिष्यते । भद्रं भवते भूयात्, भवतो मैत्र्येव मे तरपण्यं भवतु । भगवत्पूजाकाले च मां स्मरतु भवान्' – नाविकस्तमुक्तवान् । ततः स्मित्वा द्वावपि स्वस्वमार्ग प्रस्थितौ । नाविकस्य स्निग्धव्यवहारेण सिद्धार्थः प्रसन्नो जातः । For Personal & Private Use Only Page #63 -------------------------------------------------------------------------- ________________ 'एष गोविन्दसदृश एवाऽस्ति' इति चिन्तितवान् सिद्धार्थः । 'येऽपि मां मार्गे मिलन्ति ते सर्वेऽपि गोविन्दतुल्या एव, सर्वेऽपि कृतज्ञाः सन्ति, सर्वेऽपि च ते स्वयमेव धन्यवादानहन्ति । सर्वेऽपि मे सहयोगिनो भवितुमिच्छन्ति, मम मैत्री वाञ्छन्ति, अधिकमविचारयन्तश्च मम वचनमनुवर्तितुमिच्छन्ति । ननु जना हि शिशतुल्या भवन्ति' । मध्याह्ने स कञ्चिद् ग्राममतिक्रामन्नासीत् । मृण्मयकुटीराणां पुरतो रथ्यासु बालकाः क्रीडन्त आसन् । ते हि प्रस्तरखण्डैः गुलिकाभिश्च खेलन्त आसन् । सकोलाहलं ते परस्परं युध्यन्ते स्माऽपि । किन्तु यदा हि श्रमणस्तेषां दृष्टिपथं प्राप्तस्तत्क्षणमेव सर्वेऽपि भयं प्राप्य धाविताः कुत्रचिच्च निलीनाः ।। ग्रामप्रान्ते चाऽनुमार्गमेव जलस्रोत आसीत् । तत्कूले च काचित् तरुणी किञ्चिदवनम्य वस्त्राणि क्षालयन्त्यासीत् । सिद्धार्थेन तदभिवादने कृते सा शिर उन्नम्य सस्मितं तं दृष्टवती । तस्या अक्षिणी भ्राजमाने आस्ताम् । यथोपचारं साशीर्वचनं स तां नगरमार्गविषयिकी पृच्छां कृतवान् । तेन सा तत उत्थाय तत्समीपमागता । सुन्दरे वदने तस्याः क्लिन्नावधरौ स्फुरन्तावास्ताम् । तेन सह वक्तुमुत्सुका सा तं – 'किञ्चिदशितं वे'ति पृष्टवती, तथा 'किं तत् सत्यं यत् श्रमणा वनेषु एकाकिन एव स्वपन्ति ? किं तेषां स्त्रियं परिग्रहीतुमधिकारो नास्ति वा?' - इत्यपि सा पृष्टवती । ततस्तया स्वीयो वामपादः समुत्थाप्य दक्षिणे पादे स्थापयित्वा तादृशोऽङ्गविक्षेपः कृतो यं काचित् कामातुरा स्त्री भोगार्थं पुरुषमामन्त्रयमाणा करोति, यश्च कामशास्त्रेषु 'वृक्षावरोहण'मिति सज्ज्ञया वर्णितोऽस्ति । एतेन सिद्धार्थः स्वीयाङ्गेषूत्तेजनमनुभूतवान्, रात्रौ दृष्ट स्वप्नं च स्मृत्वा किञ्चिदवनम्य स तस्याः कपिशवर्णं चूचुकं चुम्बितवान् । तत ऊर्ध्वं पश्यन् स तस्याः स्मितमयं वासनापूर्णं च वदनं विलोकितवान् । तस्या अर्धनिमीलतनेत्रयोः अत्युत्कटभोगप्रार्थना विलसति स्म । सिद्धार्थोऽपि स्वमनसि तामेवोत्कटभोगेच्छामनुभूतवान् । किन्त्वद्यावधि तेन स्त्री स्पृष्टा नाऽऽसीदित्यत आलिङ्गनं कर्तुमुत्सुकोऽपि स किञ्चिदिव साशङ्को जातः । तस्मिन्नेव क्षणे स स्वीयमान्तरं वचनं श्रुतवान् - 'नही'ति । ततश्च तस्यास्तरुण्या मुखात् सर्वमपि आकर्षणमदृष्टं जातमिव । अधुना तत्र केवलं कामार्त्तस्त्रियाः सतृष्णो दृष्टिपात एवाऽवलोक्यते स्म । स मृदुतया तस्याः कपोलं परामृशन् सत्वरमेव निराशायास्तस्याः पुरस्तादेव वंशवनेऽदृश्यो जातः ।। सायङ्कालात् पूर्वमेव सिद्धार्थः किञ्चिन्महन्नगरं प्राप्तः । स हृष्ट आसीत्, यतस्तस्य जनैः सह संवसितुमभिलाष आसीत् । स बहुकालं यावद् वनेषूषित आसीत्, गतरात्रौ च स नाविकस्य वंशमयोटजे दीर्घकालानन्तरं प्रथमवारमेव छदिषोऽधस्तात् शयितवानासीत् । नगराद् बहिः, एकत्र सुन्दरे उपवने करण्डं गृहीत्वा गच्छन्तं परिचारकाणां समूहं स दृष्टवान् । तेषां च मध्ये चतुर्भिर्जनैरुह्यमानायामलङ्कृतायां शिबिकायां रक्तवर्णे उपधाने उपविष्टा तेषां स्वामिनी आसीत् । सिद्धार्थ उपवनद्वार एव स्थिरीभूय तत् सर्वमपि निरीक्षितवान् । स तां शिबिकास्थितां स्त्रियमप्यवलोकितवान् । ५४ For Personal & Private Use Only Page #64 -------------------------------------------------------------------------- ________________ घनश्यामकेशकलापमध्ये शोभमानं तस्यास्तेजस्वि सुमधुरमतीव चतुरं च वदनं स दृष्टवान् । तस्या शोणावोष्ठौ प्रत्यग्राञ्जीरखण्डाविव भासुरावास्तां, दीर्घ वक्रे च भ्रुवौ कलात्मकतया वर्णितौ आस्तां, कज्जलाक्ते दीर्घ नेत्रे अतीव विचक्षणे सावधाने चाऽऽस्तां, हरित-सुवर्णमयस्य चोत्तरीयस्योपरि भ्राजमाना विशदा कृशाऽऽयता च ग्रीवाऽऽसीत् । तस्या दी? तनू च हस्तौ मृदू सुग्रथितौ मनोरमसुवर्णकङ्कणैश्च शोभमानावास्ताम् । सिद्धार्थस्तस्याः सौन्दर्यं दृष्ट्वाऽभिभूतो जातस्तस्याऽन्तःकरणं च प्रमुदितम् । यदा च शिबिका तत्पुरत आगता तदा स किञ्चिदवनम्योत्थितवान् तस्याश्च तेजस्वि सुरूपं च वदनं, चतुरे दीर्घ च नेत्रे स्थिरदृष्ट्या निरीक्षितवान् । तस्य श्वासेषु च कश्चिदज्ञातः सुगन्धः प्रसृत इव । साऽपि च सुन्दरी शिरश्चालयित्वा स्मित्वा च तदभिवादनं स्वीकृतवती क्षणार्धेन च परिचारकसमूहेनाऽनुत्रियमाणा सोपवनेऽदृश्या जाता । सिद्धार्थश्चिन्तितवान् यद् 'नूनं शुभशकुनैर्मया नगरे प्रविष्टं खलु !' । स तूर्णमेवोपवने प्रवेष्टुमुत्सुक आसीत् किन्तु विचारणेन स ज्ञातवान् यत् कथं सर्वेऽपि परिचारका दास्यश्च तं सर्वथाऽवज्ञयाऽविश्वासेन निराकृतिपूर्वं च दृष्टवन्त इति । 'अहमितोऽपि श्रमण एव', स चिन्तयति स्म, 'अधुनाऽपि साधुरहं भिक्षाचरः । किन्तु तादृशेन मया नाऽवस्थातव्यमन्यथा कथमत्रोपवने प्रवेष्टुमर्हेयम् ?' ततश्चोच्चैर्हसितवान् सः ।। स उपवनस्य पुरत एव गच्छन्तं कञ्चन जनं पृष्ट्वा तस्याः सुन्दर्या नामादि ज्ञातवान् । उपवनमिदं हि कमलाभिधाया सुविख्यातवाराङ्गनाया आसीत् । तथा नगरमध्येऽपि तस्या एको महालयो निवासस्थानमासीत् । ततः स नगरं प्रविष्टः । तन्मनस्येकमेव ध्येयमासीत् । तमेव ध्येयमनुसरन् स समग्रमपि नगरं निरीक्षितवान्, तद्रथ्यासु पर्यटितवान्, कुत्रचित् स्थानेषु स्थिरतया स्थितवान्, प्रान्ते च नद्यास्तटे विश्राम कृतवान् । .. सायङ्काले स केनचिन्नापितसहायकेन सह मैत्री कृतवान् यं स वृक्षच्छायायां कार्यं कुर्वन्तं दृष्टवानासीत् । ततो विष्णुमन्दिरे तं पुनरप्युपलभ्य स तं विष्णोर्लक्ष्म्याश्च सम्बन्धिनी: कथाः श्रावितवान् । निशि स नदीतटस्थितायां नावि शयितवान्, प्रत्यूषे च ग्राहकागमनपूर्वमेव स नापितसहायकेन क्षौरं कारितवान् केशांश्च तैलसिक्तान् कारयित्वा प्रसाधितवान् । ततः स नदीं गत्वा सम्यक् स्नातवान् ।। अपराह्ने, यदा सुन्दरी कमला शिबिकया निजमुपवनं प्राप्ता तदा सिद्धार्थो द्वार्येव स्थित आसीत् । स ईषन्नत्वाऽभिवादनं कृतवान् कमलायाश्च प्रत्यभिवादनं प्राप्तवान् । ततः सोऽन्त्यं परिचारकं सञ्जयाऽऽहूय ‘एको ब्राह्मणो युवा भवत्या सह सम्भाषितुमिच्छती'ति सन्देशं कमलायै कथयितुमुक्तवान् । स्तोकवेलयैव स परिचारकः प्रत्यावृत्तः, सिद्धार्थं च स्वेन सह नीतवान् । उपवनमध्ये एवैकत्र मण्डपे पल्यङ्कासीनायाः For Personal & Private Use Only Page #65 -------------------------------------------------------------------------- ________________ कमलायाः पार्वे तं मुक्त्वा स गतवान् । 'ह्य उपवनप्रवेशद्वारि भवतैव मेऽभिवादनं कृतं खलु ! ?' इति कमला तं पृष्टवती। . 'आम् ! मयैव ह्यो भवतीं दृष्ट्वाऽभिवादनं कृतमासीत्' । . 'किन्तु ह्यो भवतः केशा दीर्घा आसन् मुखे च दीर्घकूर्चमासीत्, तथा मस्तकमपि सरजस्कमासीत् खलु ?' 'सम्यङ् निरीक्षितं भवत्या । किन्तु ह्यो भवती ब्राह्मणपुत्रं सिद्धार्थं दृष्टवती यः श्रमणो भवितुं गृहत्यागं कृतवान् वर्षत्रयं च श्रमणीभूय स्थितवान् । अद्य तु, मया त्यक्तोऽस्ति स मार्गः । अस्मिन्नगरे आगतोऽहं सर्वप्रथमं भवतीमेव नयनविषयीकृतवान् । अद्याऽहं भवत्यै कथयितुमागतोऽस्मि यत् - भोः कमले ! भवत्येव प्रथमा स्त्री यस्याः पुरतः सिद्धार्थो नेत्रे अनवनाम्य सम्भाषितवान् । इतः परं यस्याः कस्याश्चिदपि सुन्दाः पुरतोऽहं नेत्रे नैवाऽवनामयिष्यामि' । कमला स्मितवती मयूरपिच्छनिर्मितेन व्यजनेन च क्रीडन्ती पृष्टवती – 'किं भवान् एतावदेव कथयितुं आगतोऽस्ति वा सिद्धार्थ !?' 'भवत्यै एतत् कथयितुं, सौन्दर्यविषये च भवतीमभिनन्दितुमागतोऽहमस्मि । तथा यदि भवती अप्रसन्ना न भवेत् तर्हि अहं भवतीं मम मित्रीभवतुं यस्यां च कलायां भवती विदग्धा तस्याः शिक्षणार्थं मे गुरूभवितुं निवेदयितुमिच्छामि, यतोऽहं तस्यां कलायां सर्वथाऽनभिज्ञः । श्रुत्वैतत् कमलोच्चैर्हसितवती कथितवती च – 'अरण्यवासी कश्चन श्रमणो मां समागत्य किञ्चित् शिक्षितुमिच्छेदिति तु कदाऽपि नैव चिन्तितं मया । तथा, दीर्घकेशयुतो जीर्णवस्त्रधारी च श्रमणः कदाऽपि मत्समीपे नाऽऽगतः । यद्यपि बहवो युवकाः ब्राह्मणपुत्राश्चाऽपि मदन्तिकमागच्छन्ति, किन्तु ते सर्वेऽपि रुचिरवस्त्राणि परिधाय, सुन्दरोपानहौ च धारयित्वाऽऽगच्छन्ति । तेषां केशाः सुगन्धिताः भवन्ति कोषाश्च धनभृता भवन्ति । भोः श्रमण ! एवंरीत्या ते युवानो मदन्तिकमागच्छन्ति' । सिद्धार्थ उक्तवान् – 'मयाऽप्येतावता भवत्याः सकाशात् शिक्षितुमारब्धम् । ह्य एव अहं किञ्चित् शिक्षितवान् । मम कूचं तावदपनीतमेव, केशाश्चाऽपि तैलाक्ताः प्रसाधिताश्च । अधुना बह्ववशिष्टं नास्ति सुन्दरि !, केवलं रुचिरवस्त्रोपानहो धनभृतश्च कोषः - इत्येतदेव ननु ! सिद्धार्थेन त्वितोऽप्यधिककठिनवस्तून्युपलब्धुं प्रयतितं प्राप्तानि चाऽपि तानि । अतः किमर्थमहं तत्र प्रयत्नं न कुर्यां - यदर्थं ह्यो मया निश्चितं - भवत्याः मैत्री प्राप्तुं भवत्सकाशाच्च कामकलाया आनन्दं शिक्षितुम् ? अहं भवत्या योग्यो विद्यार्थी भविष्यामि कमले ! यतो यद् भवत्या शिक्षयितव्यमस्ति ततोऽपि मया कठिनतरं शिक्षितमस्ति । अतो वदतु सुन्दरि ! उत्तमवस्त्रादिहीनो धनरहितश्चाऽपि प्रसाधितकेशः सिद्धार्थो भवत्या दृष्टौ उचितोऽस्ति न वा ?' कमला हसितवती । तया कथितं – 'नैव । सोऽधुनाऽपि अयोग्यः । तेन अवश्यं वस्त्राणि For Personal & Private Use Only Page #66 -------------------------------------------------------------------------- ________________ परिधातव्यानि - सुन्दरवस्त्राणि, तथोपानहावपि - सुन्दरोपानहौ । तथैव तस्य कोषोऽपि धनपूर्णः स्यात्, तत्पार्श्वे च कमलायाः कृते बहून्युपायनान्यपि स्युः । किं ज्ञातं भवता ? भो अरण्यवासिन् श्रमण ! किमवबुद्धं भवता ?' 'सम्यगवबुद्धं मया भोः' सिद्धार्थ उच्चैरवदत् । ‘एतादृशान्मुखाद् यन्निर्गच्छेत् तत् कथमहं नावबुध्येय ? भवत्या मुखं प्रत्यग्राञ्जीरखण्डमिवाऽस्ति कमले !, ममाऽपि चौष्ठौ शोणवर्णौ नवीनौ च । तौ भवत्या ओष्ठयोः सम्यक् अनुरूपौ - इति द्रक्ष्यति भवती । किन्तु कमले ! कथय मां - किं भवती कामकलां शिक्षितुमागतादरण्यवासिनः श्रमणाद् भीता तु नास्ति वा ? ' ‘किमर्थं मयाऽरण्यवासिनो मूर्खश्रमणाद् भेतव्यं यः शृगालैः सह वसति, स्त्रीविषयकं च न किमपि जानाति ?' 'अरे ! स श्रमणो बलवान् निर्भयश्चाऽस्ति । स कदाचिद् भवत्या सह बलादपि व्यवहरेत् भोः सुन्दरि !, स भवतीं लुण्टेत् पीडयेद् वाऽपि' । 'नैव श्रमण ! अहं सर्वथा भयरहिताऽस्मि । किं कदाचिदपि श्रमणस्य ब्राह्मणस्य वैवं भयं भवेत् यत् कश्चनाऽऽगत्य तं प्रहृत्य तत्सकाशाद् ज्ञानं, धर्मं, विचारशक्तिं वाऽपहरिष्यति ? नैव, यत एतत्सर्वमपि तस्य स्वीयम् । स स्वेच्छानुसारमेवैतेषां यत्किञ्चिदपि कस्मैचिद् दद्यात् । एतच्च तथ्यं कमलाया विषये कामकलायाश्चाऽऽनन्दविषयेऽपि यथातथमेव । कमलाया अधरौ सुन्दरौ शोणौ च । किन्तु कमलाया इच्छां विरुध्य तौ चुम्बितुं प्रयततां नाम, ततो माधुर्यस्यांऽशोऽपि नैवोपलभ्येत । यतो माधुर्यं कथं प्रकटयितव्यमिति तौ जानीत एव । भवान् हि योग्यश्छात्रोऽस्ति सिद्धार्थ !, अत एतत् सुतरां शिक्षतां यत् प्रेम याचितुं शक्येत, क्रेतुम्, उपहारतया प्राप्तुं, मार्गे वोपलब्धुं शक्येत; किन्तु कदाऽपि चोरयितुं नैव शक्येत । भवता सम्यक् नाऽवगतं ननु !। भवादृशः सुन्दरो युवा यदीदं नाऽवगच्छेत् तदा तत् करुणास्पदमेव' । सिद्धार्थो नत्वा स्मितवान् – 'भवती सत्यमेव कथयति कमले !, तत् करुणास्पदमेव । सुतरां करुणास्पदम् । नहि नहि, भवत्या मम चाऽधराभ्यां माधुर्यांशोऽपि नैव हारयितव्यः । अतः सिद्धार्थो यदा वस्त्रोपानद्धनादीनि प्राप्स्यति तदैवाऽत्राऽऽगमिष्यति । किन्तु कमले ! किं भवती मे किञ्चन मार्गदर्शनं कुर्याद् वा ?' 'मार्गदर्शनम् ! किमर्थं न ? योऽरण्यात् शृगालानां सहवासाच्च समागतोऽस्ति तादृशस्य वराकस्याऽज्ञानिनश्च श्रमणस्य को वा मार्गदर्शनं नैव कुर्यात् ?' ‘तर्हि वदतु प्रिये कमले ! तानि त्रीणि वस्तूनि शीघ्रतयैवाऽधिगन्तुं मया कुत्र वा गन्तव्यम् ?' 'मित्र ! बहवो जना एतज्ज्ञातुमिच्छन्ति । भवता तु यच्छिक्षितं तदेवोपयुज्य धनमर्जनीयं, ततश्च वस्त्रादीनि प्राप्तव्यानि । अन्यया कयाऽपि विधया दरिद्रो जनो धनं प्राप्तुं नैव शक्नुयात्' । किं भवान् किञ्चन जानाति वा ? ' 'अहं विचारयितुं धैर्यं धर्तुमुपवसितुं च समर्थः' । ५७ For Personal & Private Use Only Page #67 -------------------------------------------------------------------------- ________________ 'न किञ्चिदन्यत् ?' 'नैव । अथवा आम्, अहं काव्यमपि कर्तुं जानामि । यद्यहं भवत्यै काव्यमेकं श्रावयेयं तदा किं भवती मे काव्यं प्रति चुम्बनमेकं वा प्रयच्छेत् ?' 'अवश्यं, यदि भवत्काव्यं मां प्रीणयेत् । किं तत् काव्यम् ?' क्षणं विचार्य सिद्धार्थेनोक्तं - “निजोपवनं गता कमनीया कमला उपवनद्वारि च स्थित एकः कपिशः श्रमणः तत् कमलपुष्पं दृष्टं तेन यदा चकितेन तेन नतं तदा सस्मितं तत् स्वीकृतवती कमला स्वमनसि विचारितवान् श्रमणः कमनीयकमलाकृते कृतं समर्पणं श्रेयो भगवत्कृते कृतात् समर्पणात्" ॥ ___ कमलोच्चैर्हस्ततालं दत्तवती, तेन च तस्याः कङ्कणानि रणरणितानि । 'भवतः कविताऽतीव रमणीया भोः कपिशश्रमण !, तां प्रति चुम्बनप्रदानेन न मे किञ्चिद् विनश्यति' - इति कथयन्ती नयनेङ्गितेन सा तं समीपमाहूतवती । सिद्धार्थेन तद्वदनस्य पुरतः स्वीयं वदनं स्थापितं, तस्याश्चाऽधरयोरञ्जीरखण्डतुल्ययोः स्वावधरौ न्यस्तौ । कमला तं गाढं चुम्बितवती, सिद्धार्थश्च सविस्मयं सोत्तेजनं चाऽनुभूतवान् यदेतावता सा तं कियत् शिक्षितवती, कियच्चतुराऽऽसीत् सा, कथं च तं साऽभिभूतवती पराजितवती आकर्षितवती च, तथाऽस्माद्दीर्घचुम्बनादनन्तरं विविधचुम्बनानां दीर्घा परम्परा कथं तं प्रतीक्षितवती चेति । दीर्घ श्वसन् स तत्रैव स्थिरो जातः । तस्मिन् क्षणे, स्वदृष्टिपुरतः स्वयमेव कस्यचन बोधस्य पूर्णतायाः द्वारोद्धटनेन बालस्येव विस्मितः स सञ्जात आसीत् । 'भवतः काव्यमतीव सुन्दरमस्ति' – कमलोक्तवती । 'यद्यहं धनिकाऽभविष्यं, तदाऽवश्यं तत्कृतेऽहं भवते धनमदास्यम् । किन्तु काव्यं कृत्वा प्रभूतधनार्जनं नितरां कठिनं भविष्यति, यतः कमलाया मैत्रीं यदि भवान् वाञ्छति तदा भवता प्रभूतं धनमर्जनीयमेव' । भवती कथमिव चुम्बति खलु !!' - सिद्धार्थोऽस्फुटस्वरेण कथितवान् । 'तत् तु सत्यमेव । एतेनैव मे वस्त्राणामाभरणानामुपानहां सर्वविधवस्तूनां चाऽभावो नैव भवति । किन्तु भवान् किं करिष्यति ? विचारणात् उपवासकरणात् काव्यरचनाच्चाऽधिकं किमपि कर्तुं न शक्नोति भवान् ?' 'अहं यागस्तोत्राणि गातुं जानामि, किन्तु नाऽहमितः परं तानि गायिष्यामि', – सिद्धार्थोऽवदत् । 'अहं मन्त्रानपि जानामि, किन्तु नाऽहं तान् उच्चारयिष्यामि । अहं शास्त्राणि पठितवान्.....' "तिष्ठतु', – कमला तं रुद्धवती; 'किं भवान् पठितुं लिखितुं च जानाति वा ?' ५८ For Personal & Private Use Only Page #68 -------------------------------------------------------------------------- ________________ 'निश्चितमहं जानामि । बहवो जनास्तज्जानन्ति' । 'नैव, बहवो जनास्तन्न जानन्ति । अहमेव न जानामि । भवानेतज्जानाति - इत्येतदत्यन्तं सुन्दरं, नूनं सुन्दरम् । कदाचिन्मन्त्रोच्चारणमप्यावश्यकं भवेत्' ।। तदात्वे एव कश्चन परिचारकस्तत्राऽऽगतः, स्वामिन्याः कर्णे च किञ्चित् कथितवान् । 'कश्चन मां मिलितुमागतोऽस्ति । त्वरया भवानितो निर्गच्छतु । न कश्चिदत्र भवन्तं पश्येत् । अहं भवन्तं श्वो द्रक्ष्यामि' - कमला कथितवती । ततः सा तं सेवकं 'पवित्रब्राह्मणायाऽस्मै शुभ्रमेकं वस्त्रं देय'मित्यादिष्टवती । किमत्र प्रचलतीति अजानन् सिद्धार्थस्तेन सेवकेन दीर्घमार्गणैकत्र लतामण्डपे नीतः, शुभ्रं वस्त्रं च दत्त्वा वनगहने नीत्वा, 'केनाऽप्यदृष्टतयैवेतः शीघ्रं निर्गच्छतु' - इति च स्पष्टं सूचितम् । सिद्धार्थोऽपि सन्तुष्टतया यथासूचनं कृतवान् । वनगहनाच्च शान्त्यैव स्वं मार्गं प्राप्य द्व उपवनाद् बहिरागतः । ससन्तोषं स नगरं प्रतिनिवृत्तो वस्त्रेण सह । एकस्मिन् सत्रागारेऽन्यैभिक्षुकैः सह सोऽपि मौनमेवाऽन्नं याचितवान् रोटिकामेकां च प्राप्तवान् । 'मन्ये, श्वो मया याचनीयं नैव भवेत्' - इति स विचारितवान् । अथ च सहसैव तन्मनसि गर्वभावना समुद्भूता यदिदानीं स श्रमणो नाऽऽसीत् । अतस्तस्याऽन्नयाचनं नोचितम् । स तां रोटिकां शुने दत्तवान् स्वयं च निराहार एव स्थितः । 'अत्र जीवनं सरलमस्ति' – सिद्धार्थो विचारयन्नासीत् । 'नैवाऽस्ति काठिन्यमत्र । यदाऽहं श्रमण आसं तदा सर्वमपि कठिनं क्लेशकरं प्रान्ते च निराशाजनकमासीत् । अधुना तु सर्वमपि सरलमस्ति, कमलया चुम्बनद्वारा प्रदत्तस्य शिक्षणस्येव सर्वं सरलम् । अधुना मम धनेन वस्त्रैश्चैव प्रयोजनमस्ति । तानि हि निद्राभङ्गमकृत्वैव प्राप्तुं सर्वथा शक्यानि' ।। __ सिद्धार्थेन कमलाया नगरस्थितस्य भवनस्याऽन्वेषणं जनान् पृष्ट्वा पूर्वमेव कृतमासीत् । अतो द्वितीयदिने स तत्रैव गतवान् । तं दृष्ट्वा तयोक्तं - 'सर्वमपि सुस्थमस्ति । कामस्वामी भवन्तं द्रष्टुमिच्छति । स हि समस्तेऽपि नगरे एव धनाढ्यः । यदि भवांस्तं प्रीणयेत् तदा सोऽवश्यं भवते कार्यं दद्यात् । किन्तु भोः श्रमण ! किञ्चिच्चातुर्यं दर्शयतु । मयाऽन्यद्वारा भवतो नाम तस्य सूचितमस्ति । स हि अतीव समर्थोऽस्ति अतस्तेन सह मित्रभावेन वर्तताम् । किन्तु तत्सकाशेऽत्यधिकं नम्रत्वमपि मा दर्शयतु । अहं भवन्तं तत्तुल्यमेव द्रष्टुमिच्छामि न तु तस्य भृत्यम् । अन्यथा मम सन्तोषो नैव भविता । कामस्वामी हीदानी वृद्धो निरुत्साहश्च जायमानोऽस्ति । यदि भवांस्तं प्रीणयेत् तदा भवन्तं स विश्वासभाजनं करिष्यत्येव' । सिद्धार्थः सस्मितं तस्यै स्वकृतज्ञतामदर्शयत् । यदा च तया ज्ञातं यद् - अनेन ह्योऽद्य वाऽपि न किञ्चिदशितं तदा तया फलानि अन्नं चाऽऽनाय्य तस्य भोजितम् । 'भवान् नितरां सौभाग्यवानस्ति' – गमनकाले कमला तमुक्तवती । 'भवत्कृते यथाक्रमं द्वाराण्यु For Personal & Private Use Only Page #69 -------------------------------------------------------------------------- ________________ द्घटमानानि सन्ति । एतत् कथं भवतीति ऊहितुं न शक्नोमि । किं भवत्पार्श्वे किञ्चन मन्त्रादिकमस्ति वा ?' T सिद्धार्थेनोक्तं 'ह्य एव मया कथितमासीद् यदहं विचारयितुं प्रतीक्षितुं निराहार: स्थातुं च शक्नोमि । किन्तु भवत्या तत्सर्वमनुपयोगि मत्वाऽवगणितम् । किन्तु कमले ! भवत्येव द्रक्ष्यति यत् तत्सर्वमपि सर्वथोपयोगि । भवती ज्ञास्यति यद् - एते मूर्खाः श्रमणा अरण्ये वसन्तोऽपि बहून्युपयोगीनि वस्तूनि शिक्षन्ते जानन्ति च । परह्योऽहं सर्वथाऽनभिज्ञोऽप्रसाधितश्च भिक्षुक आसीत् । ह्यस्तु मया कमला चुम्बिता । इतः परं चाऽहं श्रेष्ठीभविष्यामि धनमुपार्जयिष्यामि, यानि च वस्तूनि भवत्यै मूल्यवन्ति प्रतिभान्ति तेषामहं स्वाम्यं प्राप्स्यामि' | — ‘सत्यमिदम्’ - कमला स्वीकृतवती । 'किन्तु मया विना भवान् किं वाऽकरिष्यत् ? यदि कमला भवन्तं सहायं नाऽकरिष्यत् तदा भवान् कुत्र वाऽस्थास्यत् ?' - 'प्रिये कमले !' - सिद्धार्थ उक्तवान् – 'यदाऽहं भवत्याः समीपे उपवने समागतस्तदा मया प्रथमं पदं न्यस्तम्। श्रेष्ठायाः सुन्दर्याः सकाशात् कामकला शिक्षितव्येति मे ध्येयमासीत् । यदा हि मया ध्येयमिदं निश्चितं तदैवाऽहं जानामि स्म यदेतदहं सम्पादयिष्याम्येवेति । मयैतदपि ज्ञातं यदत्र भवती मे सहायं करिष्यत्येव, तद्धि मया भवत्याः प्रथमदृष्टिपातेनैव ज्ञातमासीत् तत्रोपवनद्वारे' । 'अथ यदि नाऽहं भवत्साहाय्यं कर्तुमिच्छामकरिष्यत् तदा ?' 'किन्तु भवत्या सेच्छा कर्तव्यैवाऽऽसीत् । शृणु कमले ! यदा वयं जले पाषाणखण्डं क्षिपामस्तदा स खण्ड: त्वरितमेव जलस्य तलं प्राप्नोति । सिद्धार्थोऽपि यदैकं ध्येयं लक्ष्यं वा निश्चिनोति तदाऽपि एवमेव भवति । यद्यपि सिद्धार्थो न किञ्चित् करोति, स हि केवलं प्रतीक्षते, चिन्तयति, उपवसति च तथाऽपि जलतलं प्राप्तस्य प्रस्तरखण्डस्येव, स किञ्चिदपि न कुर्वाणश्चेष्टमानो वा जगतोऽपि व्यापाराणां पारं प्राप्नोति, ननु तत्राऽऽकृष्यते सः, स्वं चाऽऽकृष्यमाणं नैव रुणद्धि । स हि स्वीयध्येयेनैवाऽऽकृष्यते, यतः स स्वीयमनसि ध्येयविरुद्धं न किञ्चिदपि प्रवेष्टुमनुमन्यते । इदमेव सिद्धार्थः श्रमणानामन्तिके शिक्षितवान् खलु ! | मूर्खजना एतदेव चमत्कारमिन्द्रजालं वा कथयन्ति एतच्च पिशाचसाध्यमिति मन्यन्ते । किन्तु पिशाचा न किञ्चिदपि कर्तुं शक्ताः । ननु पिशाचा एव न सन्ति । प्रत्येकं जनश्चमत्कारं कर्तुं शक्तः, प्रत्येकं जनः स्वं ध्येयं प्राप्तुं समर्थो यदि स चिन्तयितुं प्रतीक्षितुमुपवसितुं च शक्नुयात्' । कमला तमैकाग्र्येण श्रुतवती । तस्यै तत्स्वरो रोचते स्म, तस्य नेत्रान्निर्गच्छन् प्रकाशो रोचते स्म । 'ननु मित्र ! यथा भवान् वदति तथाऽपि स्यात्' सा मृदुतयाऽवदत्, ‘अथवा ननु सिद्धार्थः सुरूपोऽस्ति, तस्य दृष्टिपातः स्त्रियः प्रीणयति, स सौभाग्यवान् अस्ति - इत्येतदर्थमपि तत् स्यात्' । ' एवं भवतु मे शिक्षिके ! मम दृष्टिपातो भवतीं सदैव प्रीणयतु, सौभाग्यं च सदाऽपि भवत्या मध्यमेन मामनुसरतु' - इति वदन् स तां चुम्बितवान्, तस्याश्च सकाशान्निर्गतवान् । — - ६० - For Personal & Private Use Only Page #70 -------------------------------------------------------------------------- ________________ २. प्राकृतजनमध्ये सिद्धार्थः श्रेष्ठिनं कामस्वामिनं मिलितुं तस्य गृहं प्राप्तः । सुसमृद्धे हh सेवकैः महार्घास्तरणानतिक्रामन् स मुख्यापवरकं प्रापितो यत्र गृहस्वामिनं प्रतीक्षमाणः स उपविष्टः । स्तोकवेलानन्तरं कामस्वामी तत्राऽऽगतः । स कोमलप्रकृतिकोऽपि आनन्दी जन आसीत् । तस्य केशेषु पलिता जायमाना आसन्, नेत्रे च चतुरे सावधाने चाऽऽस्तां, मुखं च विलासितां द्योतयति स्म। तौ द्वावपि मैत्रीभावेन परस्परमभिवादनं कृतवन्तौ । श्रेष्ठी कथितवान् – 'मया ज्ञातं यद् भवान् ब्राह्मणोऽस्ति, विद्वान् अस्ति, वृत्तिं च मार्गयमाणोऽस्ति - इति । तत् किं भवान् व्यसनपतितो, येन वृत्ति मृगयते ?' ___'नैव', सिद्धार्थः कथितवान् – 'अहं व्यसनग्रस्तो नाऽस्मि । वस्तुतस्तु मम जीवने कदाऽपि व्यसनं नाऽऽगतम् । अहं हि वनादागतो यत्र श्रमणैः सह चिरायोषितवानहम्' । - 'यदि भवान् श्रमणानां सकाशादागतस्तत् कथं व्यसनग्रस्तो वृत्तेरपेक्षावान् वा नाऽस्ति किल ? श्रमणास्तु सर्वथा परिग्रहरहिताः सन्तीति श्रुतं खलु मया !' । 'अहमपि परिग्रहरहित एवाऽस्मि' – सिद्धार्थ उक्तवान्, 'यदि भवन्मनसीदमभिप्रेतं स्यात् । अहं सर्वथा परिग्रहं नैव धारयामि, किन्तु तद् मदिच्छयैव । अत एवाऽहं व्यसनग्रस्तो नाऽस्मि' । 'किन्तु कथं भवान् परिग्रहहीनो जीविष्यति ?' 'मयैतद्विषये न कदाऽपि चिन्तितं महोदय ! । अहं वर्षत्रयात् परिग्रहरहित एवाऽस्मि, तथाऽपि मया नैव चिन्तितं कदाऽपि यत् कथमहं जीविष्यामीति' । 'तथा च भवान् अन्येषामाधारेण जीवितः खलु !' । 'सत्यम् । श्रेष्ठ्यपि ह्यन्येषामाधारेण जीवति ननु !' । 'युक्तमुक्तम् । किन्तु स एवमेवाऽन्येषां सकाशान्न किञ्चिद् गृह्णाति, स वस्तूनि तद्विनियमेन ददाति' । 'वस्तूना हीयमेव गतिरस्ति । प्रत्येकं जनो गृह्णाति, प्रत्येकं च ददाति । जीवनक्रमो ह्येष खलु !' 'सत्यं तत् । किन्तु यदि भवान् सर्वथा परिग्रहहीनस्तदा कथमन्येभ्यः किञ्चिद्दातुमर्हति ?' For Personal & Private Use Only Page #71 -------------------------------------------------------------------------- ________________ 'प्रत्येकं जनः स्वपार्वे यत् स्यात् तद्ददाति । सैनिको बलं दत्ते, वाणिजो वस्तूनि ददाति, शिक्षको विद्यां ददाति, कृषको धान्यं, धीवरश्च मत्स्यान् दत्ते' । 'बाढम् । अथो भवान् किं ददाति ? भवता तत् किं शिक्षितमर्जितं वा यदन्येभ्यो दातुं शक्यम् ?' 'अहं विचारयितुं, प्रतीक्षितुमुपवसितुं च समर्थः' । 'किमेतत् पर्याप्तं वा ?' 'पर्याप्तमेवेति प्रतिभाति मम' । 'परन्तु कुत्रोपयोगीनि तानि ? उदाहरणार्थं - को वा लाभो जनस्योपवासेन क्रियते खलु ?' 'उपवासस्याऽप्यस्ति महन्मूल्यं महोदय ! । यदा हि कस्यचित् पार्श्वेऽशनादि किञ्चिदपि न स्यात् तदोपवास एवैकं चातुर्यपूर्ण कार्य, यत् स कर्तुं शक्नोति । यथा, यदि सिद्धार्थ उपवासं कर्तुं न जानाति तदाऽद्य तेन क्षुधापीडिततया तच्छमनार्थं यत्किञ्चिदपि कार्यं भवत्पाद्येऽन्यत्र वाऽन्विष्य कर्तव्यं स्यात्, यतः क्षुधैव तं तदर्थं प्रेरितवती स्यात् । किन्तु तथा न जातं, यतः सिद्धार्थोऽव्याकुलतया प्रतीक्षितुं जानाति । सोऽधीरो नास्ति । तस्य काऽप्यपेक्षा नास्ति । स क्षुधं चिराय निरोद्धमपहसितुं च समर्थः । अतो महोदय ! उपवासः सर्वथोपयोग्येव' । 'साधूक्तं भवता भोः श्रमण ! । किञ्चित् प्रतीक्षतामेषोऽहमागच्छामि' । कामस्वामी बहिर्गत्वा किञ्चन पत्रं गृहीत्वा प्रत्यागतः, तच्च सोऽतिथिकरेऽर्पयित्वा पृष्टवान् – 'किं भवानेतत् पठितुं शक्तो वा ?' सिद्धार्थस्तत् पत्रं दृष्टवान् । तत्रैको विक्रयलेखो लिखित आसीत् । तं पठित्वा सिद्धार्थः श्रेष्ठिने श्रावितवान् । 'बाढं' – कामस्वाम्युक्तवान् । 'अथ चाऽस्मिन् पत्रके मदर्थं किञ्चिल्लिखित्वा दास्यति भवान् ?' ___ कामस्वामी तस्मै एकं पत्रकं लेखनी चाऽदात् । सिद्धार्थोऽपि तत्र किञ्चिद् लिखित्वा तस्मै प्रत्यार्पयत् तत् । कामस्वामी तत् पठितवान् – 'लेखनं शोभनं, किन्तु चिन्तनं श्रेष्ठम् । चातुर्यं प्रशस्यं, धैर्यं तु ततोऽपि श्रेष्ठम्' । 'सुन्दरं लिखति खलु भवान्' - श्रेष्ठी तं प्रशंसितवान् । 'आवाभ्यामितोऽपि बहु चर्चयितव्यं, किन्त्वद्याऽहं भवते मम प्राघूर्णकीभवितुं मद्गृहे च निवसितुमामन्त्रयामि' । ___... सिद्धार्थस्तदर्थमाभारं मत्वा तदामन्त्रणं स्वीकृतवान् । स श्रेष्ठिगृहे एव निवासं कृतवान् । नूतनवस्त्राण्युपानहौ च तदर्थमानायितानि । एकः सेवकः प्रत्यहं तस्य कृते स्नानादिसामग्री प्रगुणीकरोति स्म । प्रतिदिनं वारद्वयं तस्य पुरतो भोजनमपि परिवेष्यते स्म । किन्तु सिद्धार्थः सकृदेव भुनक्ति स्म । स For Personal & Private Use Only Page #72 -------------------------------------------------------------------------- ________________ मांसं मदिरां वा सर्वथा न स्पृशति स्म । कामस्वामी तेन सह वाणिज्यवार्ता करोति स्म, तस्य पण्यसामग्री पण्यशालां गणनपत्राणि च दर्शयति स्म । सिद्धार्थस्तत्सान्निध्ये बहु शिक्षितवान् । सोऽधिकं शृणोति स्माऽल्पं च वदति स्म । कमलाया शब्दानामनुस्मरन् स कदाऽपि श्रेष्ठिपुरतो भृत्यभावं न दर्शयति स्म, किन्तु तेन सदृशं कदाचित्तु ततोऽपि अधिकं स्वं गणयितुं तं बलात् प्रेरयति स्म । कामस्वामिगृहे वसन् स कतिचिद्दिनेष्वेव तद्वाणिज्यं शिक्षितुमारब्धः । यद्यपि, प्रतिदिनं स कमलयाऽऽमन्त्रितो नियतसमये उत्तमवस्त्रोपानहादीनि परिधाय प्राभृतानि च गृहीत्वा तस्या भवनमपि प्राप्नोति स्म । सुन्दर्याः कमलाया वैदग्ध्यपूर्णयो रक्तवर्णयोरोष्ठयोः सकाशात् स बहु शिक्षितवान् । तस्या मृदुकोमलौ हस्तावपि तं बहून् विषयान् शिक्षितवन्तौ । कामस्य विषये सोऽद्याऽपि बालक इवाऽऽसीत् । सोऽतृप्ततयाऽक्षिणी निमील्य तस्य गभीरतामवगाहितुमनाः कामशास्त्रानुसारेण कमलया शिक्षितो यद् - 'अत्र कोऽपि परस्मै सुखमदत्त्वा प्राप्तुं नैव शक्नोति । तथा प्रत्येकं हावभावस्य, प्रत्येकं परिरम्भस्य, प्रत्येकं स्पर्शस्य, प्रत्येकं दृष्टिपातस्य, शरीरस्य च प्रत्येकमङ्गस्य नैजमेव रहस्यं भवति, तच्चाऽवबुध्यमान एवाऽत्र सुखमानन्दं चाऽनुभवेत्' । सा तं बोधितवती यत् – 'प्रेमिजनाभ्यां रतिक्रीडानन्तरं परस्परं प्रशंसां कृत्वैव विश्लेष्टव्यम् । ताभ्यां विजयित्वं जितत्वं वा नाऽनुभवितव्यं येनाऽतितृप्तेरवसादस्य वा संवेदनं नोदियात् नाऽप्यसदुपयोगस्याऽनुचिततयोपयुक्तस्य वा हीनानुभूतिर्वाऽप्युद्गच्छेन्मनसि' । - एतत्सर्वं शिक्षमाणः स तया चतुरया सुन्दरया च वाराङ्गनया सह स्वं कालमद्भुततया गमितवान् । स तस्याः शिष्यः, तस्याः प्रियः, तस्याः सुहृच्च सञ्जातः । स्वीयवर्तमानजीवनस्याऽर्थं, मूल्यं च कमलायाः सहवासे एव निहितमस्तीति सोनुभूतवान्, न पुनः कामस्वामिनो वाणिज्ये । _____ इतः कामस्वामी तस्य महत्त्वयुतानि पत्राणि आदेशपत्राणि च लिखितुं सूचितवान्, ततश्च शनैः शनैः स तं सर्वेष्वप्यत्यावश्यककार्येषु योजितवान् । स शीघ्रमेव दृष्टवान् यत् - यद्यपि सिद्धार्थो व्रीहेरूर्णाया वा विषयेऽल्पमेवाऽवबुध्यते, पोतवाणिज्यमन्यव्यवसायं वा सोऽधिकं नाऽवगच्छति; तथाऽपि स कार्येषु भाग्यवानस्ति, अव्याकुलतायां स्वस्थचित्ततायां च स श्रेष्ठिनमप्यतिशेते, श्रवणकलायामपरिचितजनानपि प्रभावितान् कर्तुं च तस्य क्षमताऽनन्यसदृशी अस्ति । श्रेष्ठी स्वमित्रं कञ्चित् कथितवान् – 'अयं ब्राह्मणो सत्यवणिक् नास्ति नाऽपि च भविष्यति कदाऽपि, तस्य वाणिज्ये सर्वथाऽऽसक्तिर्नास्ति । किन्तु यान् साफल्यं स्वयमेवाऽऽगत्य वृणोति तादृशानामन्यतमः स किञ्चित् सफलतारहस्यं प्राप्तवानस्ति । तच्च रहस्यं शुभे मुहूर्ते तस्य जन्मभवनात्, योगप्रभावात्, श्रमणानां पार्वाद् वाऽधिगतं स्यात् । स सर्वदा वाणिज्येन क्रीडन् इव लक्ष्यते, वाणिज्यं कदाऽपि तन्मनसि स्थानं प्राप्तुं न शक्तं, तं वा प्रभवितुं न शक्तम् । स कदाऽपि हानेर्नैव बिभेति, न कदाऽपि च तदर्थमुद्विग्नो वाऽपि भवति' । For Personal & Private Use Only Page #73 -------------------------------------------------------------------------- ________________ __ मित्रेणोक्तं - 'भवतः कृते स यद् वाणिज्यं कुर्यात् तत्र लाभे जाते तस्य तृतीयं भागं देयं कल्पता, हानौ च जातायां भवता सह समानं भागं स निर्वहतु । एवंकृते स वाणिज्येऽधिकतयोत्साही भविष्यति' । कामस्वामी तद्वचनमनुसृत्य प्रवृत्तः । किन्तु सिद्धार्थस्तत्राऽप्यनासक्त एव स्थितः । यदा तस्य लाभो जातस्तदा स प्रशान्ततया तं स्वीकृतवान्, यदि च हानिः स्यात् तदा स हसित्वा कथयति स्म – 'अहो ! व्यवहारोऽयं ननु किञ्चिदिव निष्फलो जातः, परं न तत्र काऽपि चिन्ताऽस्ति' । वस्तुतस्तु स वाणिज्ये किञ्चिदिवाऽदत्तावधान एवाऽऽसीत् । एकदा स कुत्रचिद् ग्रामे महान्तं व्रीहिराशि क्रेतुं गतवान् । यदा स तत्र प्राप्तस्तदा पूर्वमेव तत्रत्यैर्जनैः स राशिरन्यस्मै वणिजे विक्रीत आसीदिति तेन ज्ञातम् । तथाऽपि स सर्वथाऽनुद्विग्न: कानिचन दिनानि तत्रैवोषितवान्, कृषकैः सह मनोरञ्जनं कृतवान्, धनं च बालकेभ्यो विभज्य दत्तवान्, तत्र च प्रवृत्ते कस्मिंश्चिद् विवाहे भागं गृहीत्वा पूर्णतया तृप्तः सन् नगरं प्रतिनिवृत्तवान् । यदा च कामस्वामी शीघ्रमनागमनार्थं समयस्य धनस्य च व्ययार्थं तमुपालब्धवान् तदा सिद्धार्थस्तमुक्तवान् – 'माऽऽक्रोशीद् भवान्, मम प्रियमित्र ! । आक्रोशनेन कदाऽपि किमपि नैवाऽधिगतमस्ति । यदि हानिर्जाता तर्हि जायतां नाम, अहमेव तां वोढा । अहं ह्यनेन पर्यटनेन सर्वथा तुष्टोऽस्मि यतस्तेन बहूनां जनानां परिचयो मे जातः, ब्राह्मणेनैकेन सह मैत्री जाता, बालकाः समागत्य ममोत्सङ्गे उपविष्टाः, कृषकैश्च मे निजक्षेत्राणि दशितानि । तथा न केनाऽप्यहं वणिक्त्वेन परिगणितः' । 'तत्तु सर्वमपि शोभनमेव' – कामस्वामी विमनस्कतया स्वीकृतवान्, 'किन्तु वस्तुतो भवान् वणिगेव । यदि वा किं भवताऽऽनन्दप्राप्त्यर्थमेव पर्यटनं कृतं ननु ?' 'नूनमहं निजानन्दार्थमेव प्रवासं कृतवान्' – सिद्धार्थो हसित्वा कथितवान् । 'किमर्थं न ? अहं बहुभिर्जनैर्नूतनप्रदेशैश्च परिचितो जातः । मया मित्रताया विस्रम्भस्य च सौख्यमनुभूतम् । यद्यहं कामस्वाम्यभविष्यं तदा क्रयणं कर्तुमक्षमोऽहं व्यथितो भूत्वा प्रतिन्यवर्तिष्यम्, तथा मम समयो धनं च नष्टावैव स्याताम् । किन्तु मया बहूनि सुदिनानि यापितानि, बहु शिक्षितं, भूयानानन्दोऽनुभूतः, तथा कोपेनाऽसमीक्ष्यकारितया वा मया स्वस्याऽन्येषां वा क्लेशो नोत्पादितः । यद्यहं पुनरपि कदाचित् तत्र गच्छेयं, नवं व्रीहिराश्यादि क्रेतुं केनचिद् वाऽन्येन प्रयोजनेन, तदा तत्रत्या जनाः सौहार्दन मामाकारयेयुर्मम स्वागतं च कुयुः । तदैव चाऽहं कोपकरणमसमीक्ष्यकारित्वं च मया नैवाऽऽचरितमिति स्मृत्वा सुखीभविष्यामि । भवतु मित्र ! क्लेशकरणेन मा स्वं दुःखीकरोतु । यदा च भवताऽनुभूयेत यत् सिद्धार्थो मे हानि करोति तदा केवलं शब्दमेकं कथयतु, सिद्धार्थः सर्वं त्यक्त्वा स्वीयमार्गे गमिष्यति । तावत्पर्यन्तं किन्त्वावां प्रशस्तौ सुहृदावेव भवामः' । 'भवान् मम अर्थात् कामस्वामिनोऽन्नमेव खादित्वा जीवति'ति सिद्धार्थं प्रत्याययितुं श्रेष्ठिनः प्रयत्ना अपि विफला जाताः । यतः सिद्धार्थस्योत्तरमासीद्, यत् – 'स स्वीयमेवाऽन्नं भुङ्क्ते । किञ्च, सर्वेऽपि जनाः परस्परमितरस्याऽन्नं भुञ्जन्त एव' । सिद्धार्थः कामस्वामिनः पीडाभिः सर्वथाऽलिप्तः सन् निश्चिन्त For Personal & Private Use Only Page #74 -------------------------------------------------------------------------- ________________ एवाऽवर्तत । कामस्वामिनस्तु बह्वयः पीडाः आसन् । यदा कश्चन व्यवहारो निष्फलो जायते स्म, यदा हि किञ्चन वस्तुलेखपत्रकं नश्यति स्म, यदा च कश्चनाऽधमर्ण ऋणं प्रत्यर्ययितुं न शक्नोति स्म । कामस्वामी सिद्धार्थं कदाऽपि खेदकरणार्थं कोपेनाऽपशब्दोच्चारणार्थं वोत्तेजयितुं तथा ललाटभङ्गकरणार्थं निद्रानाशार्थं वाऽपि प्रेरयितुं नैव समर्थ आसीत् । यदैकदा कामस्वामी सिद्धार्थमस्मारयत् यद् – भवान् सर्वमपि मत्पादेिव शिक्षितोऽस्तीति तदा सिद्धार्थेनोदितं – 'एतादृशपरिहासेनाऽलम् । अहं भवतः सकाशात् - करण्डमितस्य वस्तुजातस्य किं मूल्यं स्यादिति, ऋणेन धनदाने कियती वृद्धिर्ग्रहीतव्येति वाऽवश्यं शिक्षितवान्, यतस्तत्र भवदधिकारः । किन्तु मम प्रियमित्र ! कामस्वामिन् ! विचारः कथं कर्तव्य इति तु नाऽहं भवत्सकाशात् शिक्षितवान् । तत्तु भवानेव मम पार्श्वे शिक्षितुमर्हति !' ।। तस्य चित्तं वाणिज्ये सर्वथा निविष्टं नाऽऽसीत् । केवलं कमलायाः कृते धनमर्जयितुं वाणिज्यं सहायकमासीत्, आवश्यकतातोऽप्यधिकं धनं ततः प्राप्यते स्म । तथा, तस्य सहानुभूतिरौत्सुक्यं च सामान्यजनैः सहैवाऽऽसीत्, यतस्तेषां कार्य, सुख-दुःखे, अविचारितकारित्वं च तस्य कृतेऽपरिचितानि सुदूरवर्तीनि चाऽऽसन् । येन केनाऽपि सह सम्भाषितुं, वसितुं, ततः शिक्षितुं तस्य कृतेऽतीव सरलमासीत्, तथाऽपि तस्यैवमपि प्रतिभाति स्म यत् स्वस्मिन् तादृशं किमपि विद्यते यत् स्वं तेभ्यो भिन्नीकरोति । तच्च खलु तस्य श्रमणत्वेन गमितं पूर्वजीवनमासीदित्यपि स्पष्टम् । स जनान् बालिशं पशुवद् वाऽऽचरणं कुर्वाणान् विलोकितवान् । यस्मिन् स स्निह्यति स्म, समकालमेव ततश्च विरज्यते स्म चाऽपि । ते हि धनार्थं, स्वल्पसुखार्थं तुच्छमानार्थं वा प्रयतमानास्ताम्यन्तः पलितशिरोभवन्तश्च तेन दृष्टाः । एतच्च किल सर्वमपि तस्य कृतेऽतीव क्षुद्रमासीत् । स तान् परस्परमाक्रोशत युध्यमानांश्च दृष्टवान् । स तान् तेषु दुःखेषु परिदेवमानान् दृष्टवान् येषु सत्सु श्रमणाः केवलं हसन्ति, तथा तासु हानिषु व्यथमानान् दृष्टवान् याः श्रमणाः सर्वथा नैव गणयन्ति । जना यत्किञ्चिदप्यानीय ददति स्म तत् सर्वं स स्वीकरोति स्म । यदि कश्चन क्षौममानीय विक्रयणार्थं ददाति स्म तदा तदपि तस्य स्वीकार्यमासीत् । ऋणार्थमागतोऽपि जनस्तस्याऽभिमत एवाऽऽसीत् । तथा कश्चन भिक्षुकः, यो हि श्रमणेभ्यस्तु अधिकसम्पन्न आसीत्, आगत्य होरापर्यन्तं स्वीयदारिद्मविषये वदन्नपि तस्येष्ट एवाऽऽसीत् । स क्षौरकर्म कर्तुमागतेन नापितेन, कदलीफलविक्रेत्रा सह, धनिकेन वाऽपि केनचिद् वणिजा सह समानतयैवाऽवर्तत । यदि कदाचित् कामस्वामी तत्पाबें समागत्य स्वीयसमस्या वर्णयति स्म कस्यचिद् व्यवहारस्य कृते वोपालभते स्म तदा स सकर्णतया सावधानं च शृणोति स्म, तत्कथने विस्मयं प्रदर्शयति स्म, तद् बोद्धं प्रयतते स्म, यत्र चाऽऽवश्यकं तत्र किञ्चिद् अनुमनुते स्माऽपि, ततश्च प्रयोजनवशादागतेनाऽऽगन्तुकेन सह संलपितुमारभते स्म । बहवो जनास्तत्समीपमागच्छन्ति स्म, केचन वाणिज्यार्थं, केचन तं वञ्चयितुं, केचन तं श्रोतुं, केचन तस्य सहानुभूति प्राप्तुं, केचन च तस्य मार्गदर्शनं प्राप्तुम् । स मार्गदर्शनं करोति स्म; सहानुभूतिं दर्शयति ६५ For Personal & Private Use Only Page #75 -------------------------------------------------------------------------- ________________ स्म, उपायनानि प्रदत्ते स्म, किञ्चिद् वञ्चितोऽपि भवति स्म, तथाऽस्याः सर्वस्या अपि क्रीडाया विषये तत्क्रीडकानां च जनानां भावनाविषये स तयैव रीत्या विचारयति स्म यया रीत्या स पूर्वं देवानां ब्राह्मणानां च विषये विचारयन्नासीत् । कदाचित् तस्याऽन्तःकरणे एको मृदुः सौम्यो ध्वनिः श्रूयते स्म यस्तं निभृतं स्मारयति स्म निभृतमेव चाऽधिक्षिपति स्म, तथा निभृतं यथा स कष्टेन तं शृणोति स्म । ततः सहसैव सोऽपश्यत् यत् - सोऽपरिचितं जीवनं यापयति । बहूनि कार्याणि स क्रीडार्थमेव क्रीडारूपेणैव वा करोति, तथा यद्यपि स प्रसन्नोऽस्ति यथाकालं भौतिकसुखं चाऽप्यनुभवति, तथाऽपि सत्यजीवनं तु ततो वियुक्तमिवाऽस्पृशदिव प्रवहति । यथा कश्चन क्रीडकः स्वीयकन्दुकेन क्रीडति तथा स वाणिज्येन क्रीडन्नासीत्, तथैव च जनैः सह व्यवहरन्नासीत्; स तानवलोकयति स्म, तेषामाचरणाद् विनोदमपि प्राप्नोति स्म । एवंस्थितेऽपि तस्य हृदयं, तस्य मूलः स्वभावस्तत्र लीनो नाऽऽसीत् । तस्य मूलं स्वत्वं तु कुत्रचिदन्यत्रैव बम्भ्रम्यते स्माऽदृश्यतया, तस्य स्वत्वस्य तदीयजीवनेन सह न कोऽप्यनुबन्ध आसीत् । कदाचिच्च स एतेभ्य एतादृग्भ्यश्च विचारेभ्यो भयमपि प्राप्नोति स्म । जनानां बालिशं दैनन्दिनं व्यवहारमहमपि समग्रतया जीवामीति स्पृहा तच्चित्ते जागति स्म, तेषां जीवनेऽहं वास्तविकतया भागं गृह्णामि, तेषां जीवनमहमप्यास्वादयेयं जीवेयं च, न पुनतस्य प्रेक्षक एव भवेयमिति चाऽपि स काङ्क्षति स्म। सुन्दर्याः कमलायाः पार्वे स प्रत्यहं गच्छति स्म । स ततः प्रेम्णः कलां तथा शिक्षितवान् यस्यामनन्यसदृशतयाऽऽदानं प्रदानं च तुल्यमेकं च भवति । स तया सह संलापानकरोत्, ततः सकाशात् शिक्षते स्म, तामुपदिशति स्म तस्याश्चोपदेशं शृणोति स्म । सैवेकाऽऽसीद् या तं समवबुध्यते स्म, गोविन्दतोऽप्यधिकं समवबुध्यते । सा हि सिद्धार्थसदृश्येवाऽऽसीत् । . एकदा स तामुक्तवान् – 'भवती मत्सदृश्यस्ति, अन्यजनेभ्यो भिन्ना । भवती कमलैवाऽस्ति नाऽन्यत् किञ्चित् । भवत्या अन्तःकरणे मयीव निश्चलता स्वस्थता चाऽस्ति, एकं विश्रान्तिस्थानमस्ति यत्र भवती यदा कदाऽपि प्रतिनिवर्तितुं सहजा च भवितुं शक्नोति । केषांचिदेवेदृशी क्षमता भवेत् । यद्यपि सर्वोऽपि जन ईदृशो भवितुं शक्नुयात्' । 'सर्वे जना न भवन्तीयन्तो दक्षाः' - कमला प्रोक्तवती । 'कमले ! दक्षत्वेन नाऽस्ति किञ्चित् कार्यम्' - सिद्धार्थः कथितवान्, ‘पश्यतु, कामस्वामी हि मत्सदृश एव दक्षस्तथाऽपि तस्य नाऽस्त्येषा क्षमता । अन्ये केऽपि बालसमाना धारयन्ति तादृशीं क्षमताम् । प्रायशो जना वृक्षपतितपर्णतुल्या भवन्ति ये वायुना प्रेर्यमाणा इतस्तत उत्क्षिप्यमाणाश्चाऽन्ते भूमौ पतन्ति । अल्पाः किन्तु जनास्तादृशा भवन्ति ये हि नक्षत्रवत् निश्चिते पथि प्रयान्ति, वायुस्तान् चालयितुं न शक्नोति, तेषामन्तःकरणे एव मार्गदर्शको मार्गश्च विद्यते । यान् प्राज्ञपुरुषान् अहं जानामि तेषामन्यतमोऽत्र विषये सर्वथा परिपूर्णोऽस्ति । अहं तं न कदाऽपि विस्मर्तुं शक्तः । सोऽस्ति गौतमः - जगद्विश्रुतो भगवान् बुद्धः, ६६ For Personal & Private Use Only Page #76 -------------------------------------------------------------------------- ________________ यो वितरति तादृशं बोधम् । सहस्रशो युवकास्तस्योपदेशं प्रत्यहं शृण्वन्ति तस्याऽनुशासनं च प्रतिक्षणं पालयन्ति । किन्तु ते सर्वेऽपि हि सन्ति पतितपर्णतुल्याः, तेषामन्तःकरणे प्रज्ञायाः प्रकाशो नाऽस्ति नाऽपि चाऽऽन्तरो मार्गदर्शकः' । कमला तं विलोकयन्ती स्मितं कृतवती, 'भवान् पुनरपि तस्य विषये वदति' - सोक्तवती । 'भवान् पुनरपि श्रमणवद् विचारयन्नस्ति' । सिद्धार्थस्तूष्णीं भूतः । ततस्ताभ्यां प्रेमकेलिरादृता । कमलाः तस्याश्चत्वारिंशदधिकप्रकारेषु पारङ्गताऽऽसीत् । तेषामन्यतम एव प्रकारस्ताभ्यां समारब्धः । कमलायाः शरीरं चित्रकस्येव चपलं व्याधस्य धनुरिव च सुनम्यमासीत् । यः कोऽपि तत्सकाशात् प्रेमक्रीडां शिक्षेत स बहुविधानि सौख्यानि प्राप्तुं रहस्यानि चाऽवगन्तुं शक्नोति स्म । सा सिद्धार्थेन सह चिरायाऽक्रीडत्, सा तं निराकृतवती, अभिभूतवती, आक्रान्तवती, पराजितवती, स्वीयप्रभुत्वेन हृष्टा जाता च । प्रान्ते स तया वशीकृतः सन् श्रान्तो भूत्वा तत्पार्वे शयितवान् । कमला हि किञ्चिदवनम्य तस्य वदनं श्रान्ते च नयने निरीक्षितवती । 'अद्ययावत् मया ये प्रेमिणः प्राप्तास्तेषु भवानेव श्रेष्ठः' - सा विचारयन्तीव कथितवती । 'भवान् अन्येभ्यो दृढतरोऽधिकचपलोऽधिकानुकूलश्च । भवता मम कला सुष्ठ शिक्षिताऽस्ति । सिद्धार्थ ! यदाऽहं वयस्का भविष्यामि तदा, विचारयामि यद् भवत्तोऽपत्यं प्राप्स्यामि । किन्त्वेतावताऽपि भवान् श्रमण एव । भवान् वस्तुतो मां नैव प्रीणाति - भवान् कमपि नैव प्रीणाति । किं सत्यमिदम् ?' । - 'स्यात् कदाचित्' – सिद्धार्थः क्लान्त्या प्रोक्तवान् । 'अहं भवादृश एवाऽस्मि । भवती अपि कमपि नैव प्रीणाति, अन्यथा कथं भवती प्रेम कलात्वेनाऽभ्यस्येत् ? अस्मादृशा जनाः स्नेहं कर्तुमसमर्थाः खलु ! सामान्यजनास्तत्र शक्ताः, तदेव तेषां रहस्यम्' । ६७ For Personal & Private Use Only Page #77 -------------------------------------------------------------------------- ________________ ३. संसारः चिरकालाय सिद्धार्थः सांसारिकोऽभूत्वा संसारे जीवन् आसीत् । श्रमणावस्थायां सुषुप्तानि तस्येन्द्रियाणीदानीं पुनरपि जागृतानि आसन् । समृद्धः शृङ्गारभावस्य सत्तायाश्च स्वादस्तेन प्राप्त आसीत् । तथाऽपि चिराय सोऽन्तःकरणेन श्रमणवदेव जीवितवान् । चतुरा कमला ह्येतल्लक्षितवत्यासीत् । तस्य जीवनं सदाऽपि विचार-प्रतीक्षोपवासैरेव शासितमासीत् । जगतो जनाः - सामान्यजनास्तस्य कृते परदेशिन इव सञ्जाता आसन्, सोऽपि च तेषां कृतेऽपरिचित इवैवाऽऽसीदधुनाऽपि । वर्षाणि व्यतीतानि । अनुकूलसंयोगैः सर्वथा सुखीभूतः सिद्धार्थः कालविषये सर्वथाऽनवधान आसीत् । स धनिको जात आसीत् । चिरादेव तेन स्वकृते विशालं गृहं निर्मापितमासीद् यच्च सुस्थं रक्षितुं बहवः सेवका अपि तत्राऽऽसन् । नगराच्च बहिर्नदीतटे तेन स्वीयमेकमुद्यानमपि निर्मितमासीत् । जनास्तं प्रीणन्ति स्म, तथा यदाकदाचित् धनादीनां साहाय्यं मार्गदर्शनं च ग्रहीतुं तत्पार्वे समागच्छन्ति स्माऽपि । किन्त्वेतावताऽपि समग्रेऽपि नगरे कमलाया ऋते तस्य न केऽपि निकटस्नेहिन आसन् । अथ च महात्मनो गौतमबुद्धस्योपदेशस्य श्रवणानन्तरं गोविन्दाच्च वियोजनानन्तरं स्वीययौवने सिद्धार्थेन यदुत्कृष्टं प्रबुद्धचैतन्यमनुभूतमासीत्, तथा परमजागृतेर्विशुद्धेच्छा, गुरोः शास्त्रेभ्यश्च विनैव स्थातुमग्रेसतुं च गर्वः, स्वीयान्तःकरणे उद्भवतो दिव्यध्वनेः श्रवणार्थमुत्सुकता - एतत्सर्वमपि शनैः शनैः स्मृतिशेषं सञ्जातमासीत् । यः पवित्रश्चैतन्यनिर्झर एकदा तस्य हृदयासन्नमेव सकलकलं प्रवहमान आसीत् स क्रमशो दूरं गच्छन् क्षीयमाणनादश्चाऽभवत् । एवंस्थितेऽपि श्रमणानां सकाशाद्, गौतमस्य, स्वपितुर्ब्राह्मणानां च सकाशात् स यद्यच्छिक्षितवान् तत् सर्वमपि - संयतं जीवनं, विचारवैशा, दीर्घकालीनं ध्यानं, स्वात्मनो नित्यत्वस्य देहमनोभ्यामन्यत्वस्य च गूढं ज्ञान-मित्येतेषामेकैकशो बोधस्यांऽशा निष्क्रिया उपेक्षिताश्च जातास्तथाऽपि किञ्चित्तु तत्राऽवशिष्यते स्म । प्रभूतो बोधस्तच्चित्ते सुदीर्घकालं स्पन्दमानो न्यवसत् । यथा कुम्भकारस्य चक्रं गतिमज्जातमेकदा, चिराय परिभ्राम्यति, ततश्च शनैः शनैर्मन्दभ्रमणं भूत्वा प्रान्ते स्थिरं भवति; तथा संयमस्य, विचारस्य विवेकस्य च चक्रं - सिद्धार्थचित्ते गतिमज्जातं - चिराय पर्यभ्राम्यत्, अधुनाऽपि परिभ्राम्यति स्म, किन्तु क्रमशो मन्दीभूतवेगं सस्खलनं च, स्तोकवेलया च स्थिरीभविष्यतीव । यथा विनश्यवृक्षप्रकाण्डं प्रविश्य क्लेदः शनैः शनैस्तं विशीर्णं करोति तथा संसारो जाड्यं च सिद्धार्थात्मनि प्रविश्य तं गुरुभारं, परिश्रान्तं, निद्रामग्नं च व्यधत्ताम् । किन्त्वन्यतस्तस्येन्द्रियाणि ह्यधिकाधिकं जागृतान्यभवन् । तानि बहु शिक्षितवन्ति ततोऽप्यधिकमनुभूतवन्ति च । ६८ For Personal & Private Use Only Page #78 -------------------------------------------------------------------------- ________________ वाणिज्यव्यापाराः कथं निर्वोढव्याः, जनानामुपरि कथमाधिपत्यमनुष्ठातव्यं, स्त्रीभिः सह कथं विलसितव्यमित्येतत् सर्वं तस्य सहजसाध्यं जातमासीत् । स उत्तमवस्त्राणि परिदधाति स्म, लघुलघुन्यपि कार्ये सेवकानादिशति स्म, सुगन्धितेन च जलेन स्नाति स्म । उत्तमतया संस्कृतं मिष्टान्नं मांसं स्वादूनि च व्यञ्जनानि भोक्तुं सुरापानं च कर्तुं तस्याऽभिरुचिर्वर्धते स्म, ततश्च प्रमादो विस्मृतिश्चाऽपि । विविधमनुष्याणां सङ्गत्या सोऽधुना द्यूतं चतुरङ्गं चाऽपि क्रीडितुं शिक्षितवानासीत् । नर्तकीनां नृत्याणि विलोकयितुं, शिबिकायामुपविश्य पर्यटितुं, कोमलतूलमयशय्यासु च शयितुं तस्मै रोचते स्म । किन्त्वेवंस्थितेऽपि स स्वमन्येभ्योऽतिशायिनं भिन्नं च मन्यते स्म सर्वदाऽपि । स सदैवाऽन्यान् कयाचिदुपहासपूर्णया हीनदृष्ट्या पश्यति स्म; तया हीनदृष्ट्या, यया श्रमणः कश्चन सांसारिकजनान् पश्यति । यदि कदाचित् कामस्वामी केनचित् कारणेनाऽस्वस्थो भवति स्म, अवमाननं चाऽनुभवेत्, अथवा वाणिज्ये काश्चन बाधाः प्राप्नुयात्, सिद्धार्थस्तमुपहसति स्मैव सर्वदा । किन्तु शनैः शनैरव्यक्ततयैव तस्याऽतिशयित्वबुद्धिरुपहासवृत्तिश्च क्षीणा जाता । प्रत्युत, यथा यथा तस्य भौतिकसमृद्धिर्वृद्धिङ्गतास्तथा तथा स सामान्यजनानां काश्चन लाक्षणिकता बालिशता-चित्तोद्विग्नताद्या अपि समासादितवान् । एवंसत्यपि स जनानसूयते स्म । यथा यथा स प्राकृतजनवदाचरति स्म तथा तथाऽधिकतया स तानसूयते स्म । तस्याऽसूयायाः कारणं त्वेकमेवाऽऽसीत् यथा सामान्यजना स्वजीवनस्य महत्त्वमवगच्छन्ति, स्वीयान् हर्ष - शोकादीन् गाढतयाऽनुभवन्ति, अविरतानुरागस्य च मधुररसं सोत्कण्ठमास्वादयन्ति तथा सकर्तुं न पारयति स्म । 1 - प्राकृतजना हि स्वयमेव स्वस्मिन् स्निह्यन्ति, स्वापत्यानि प्रीणन्ति, मानं धनं च सप्रतिबन्धं रक्षन्ति, भावियोजनां, सुखस्पृहां च साकाङ्क्षतया विचारयन्ति । किन्तु सिद्धार्थ एतत् सर्वं तेभ्यो न शिक्षितवान् न च बालिशसुखानि नाऽपि च मूढताम् । प्रत्युत तेषां यानि लक्षणानि तस्याऽनभिमततया तिरस्करणीयान्यासन्, तान्येव सोऽनायासं शिक्षितवानात्मसाच्च कृतवान् । S बहुधा भवति स्मैवं यत् - सविलासां रात्रिं यापयित्वा प्रातःकाले चिराय स उद्वेगं श्रमं चाऽनुभवन् शय्यामेवाऽऽ श्रयति स्म । यदि कदाचित् कामस्वामी स्वचिन्ताभिस्तं बाधते स्म तदा सोऽमर्षणो भवति स्म । यदा स द्यूते धनं हारयति स्म तदा स्वोद्वेगं निह्नोतुमुच्चैर्हसति स्म । पुरा हि तस्य वदनमन्यजनेभ्योऽधिकं चतुरमधिकं प्रज्ञाशालि प्रसन्नं च भासते स्म, किन्तु गच्छता कालेन तस्य मुखे विलसमाना स्मितरेखाऽदृश्येव जाता, शनै: शनैश्च तस्य मुखे धनिकजनानामिव - उद्वेगस्याऽसन्तोषस्याऽरुचेरप्रसन्नताया उदासीनताया नैष्ठुर्यस्य च भावाः समजायन्त । क्रमशो धनिकजनेषु व्याप्तमात्मदौर्बल्यं तच्चित्तमपि व्याप्तुमारब्धम् । खेदस्य सूक्ष्ममावरणं तन्मन आच्छादयितुं प्रारब्धम् । तच्च प्रतिदिनं किञ्चिद् गाढतरं, प्रतिमासं किञ्चन निबिडतरं, प्रतिवर्षं च किञ्चिद् गुरुतरं जायमानमासीत् । यथा नवं वस्त्रं कालात्यये जीर्णं, विवर्णं, मलिनं, सच्छिद्रं, जर्जरं च जायते तथैव गोविन्दाद् वियुक्तेरनन्तरं सिद्धार्थस्य नवं जीवनमपि गच्छता कालेन जीर्णमिव सञ्जातम् । वर्षेषु व्यतीतेषु तस्याऽपि वर्णो दीप्तिश्च क्षीणे जाते । वलिभिर्मलचित्रैश्च ६९ For Personal & Private Use Only Page #79 -------------------------------------------------------------------------- ________________ तन्मलीमसमिवाऽभवत् । अन्तः स्थिते भ्रान्तिजुगुप्से यदा-कदाचिदपि प्रकटीभवतः स्म । किन्तु सिद्धार्थ एतत्सर्वं नैव निरैक्षतं । तस्य निरीक्षणे केवलमेतदेव समागतं यदेकदा येन विशदेन परिस्फुटेन चाऽऽन्तरध्वनिना स जागरित आसीत्, तस्योत्कृष्टे समये यो मार्गदर्शक आसीत् स ध्वनिरद्य सर्वथा क्षीणो विरतश्च जातोऽस्तीति । संसारस्तस्य चित्तवृत्ताविदानीमाधिपत्यं करोति स्मेव । भोग-विलासाः, लोलुपता, कार्यवैमुख्यमित्यादयस्तु तज्जीवनं दूषयति स्मैव, किन्तु यं दोषं स स्वयमेव सर्वदाऽतीव धिक्करोति स्म स एव दोषः परिग्रहोऽपि तच्चित्तमभिव्याप्य स्थित आसीत् । सम्पत्तिः, अधिकार ऐश्वर्य - मित्यादि सर्वमपि शनैः शनैस्तं स्ववशे स्थापयति स्म । इदानीं तत् सर्वमपि तस्य कृते क्रीडामात्रं क्रीडनकं वा नाऽऽसीत् प्रत्युत बन्धनं भारभूतं चाऽभवत् । चित्रं त्वेतद् यदुत्पथगामित्वमाश्रित्य स सर्वतोऽप्यधमां व्यसनेषु निष्ठारूपां द्यूतक्रीडां कर्तुमारब्धवान् । - यदारभ्य सिद्धार्थो हृदयेन श्रामण्यं त्यक्तवान् तत्प्रभृति, यस्यां क्रीडायां पुरा स जनानुरोधेन तदुपहासपूर्वकं प्रावर्तत तस्यामेव द्यूतक्रीडायां स धनालङ्कारादिप्राप्त्यर्थमतीवोत्कटतया क्रीडितुमारब्धः । सोऽतीव दुर्धर्षोऽक्षक्रीडक आसीत् । तेन सह क्रीडितुं न कश्चन प्रभवति स्म, यतस्तस्य पणा उदग्रा साहसयुताश्चाऽऽसन् । स स्वमनस्तापं शमयितुमिव क्रीडति स्म । धनस्याऽतिव्ययेन द्यूते च निरर्गलं देवनेन तस्योत्कटं सौख्यं भवति स्म, यतो धनिकानामाराध्यदैवतरूपं धनं धनिकांश्च व्यक्ततयोपहासपूर्वकं चाऽवहेलियतुं तस्य पार्श्वे नाऽन्यः कश्चन उपाय आसीत् । अतः स उदग्रतया पणान् कुर्वन् स्वमन्यांश्चोपहसन् क्रीडंश्च सहस्रशो धनं जयति स्म हारयति स्म चाऽपि धनमलङ्कारान् गृहाणि - सर्वमपि पणीकुर्वन् वारं वारं जयति स्मारयति स्म वा । एतस्य मुख्यं कारणं त्वेकमेवाऽऽसीत् - एवंरीत्याऽनिश्चितक्रीडनेन यत् प्रबलं क्रूरं च चित्तौत्सुक्यं जायते स्म तत् तस्य सुखप्रदं भाति स्म । एतच्चित्तौत्सुक्यपूर्णं संवेदनं तस्मै अतितरां रोचते स्म, तच्च संवेदनं नवनवतयाऽनुभवितुं, वर्धयितुं, समुद्दीपयितुं स सातत्येन प्रयतते स्म । यतः स्वीयेऽतितृप्ते, मर्यादिते, नीरसे च जीवितेऽनेन संवेदनेनैव केवलं स यत्किञ्चित् सुखं, यत्किञ्चिदुत्तेजनं, यत्किञ्चिच्च तीव्रतरं जीवनानन्दमनुभवितुं शक्त आसीत् । यदा यदा च सोऽतिप्रमाणं धनं हारयति स्म तदा तदा स नूतनं धनमर्जयितुं, सोत्कण्ठं वाणिज्ये प्रवर्तितुं, स्वीयानधमर्णांश्च धनप्रत्यर्पणार्थं कठोरतया प्रेरयितुमारभते स्म यतो यया कयाऽपि रीत्या धनमुपार्ण्य स पुनरपि द्यूतं क्रीडितुमिच्छति स्म, पुनरपि महापणान् कर्तुमिच्छति स्म, पुनरपि चाऽधिकतया धनस्य तिरस्कारं प्रदर्शयितुमिच्छति स्म । क्रमशः सिद्धार्थो द्यूते धनहानेरधीरो जायते स्म, अधमर्णैर्ऋणेऽप्रत्यर्पिते विलम्बेन वा प्रत्यर्पितेमर्षणो भवति स्म, भिक्षुकान् प्रति सोऽधुना दयावान् नाऽऽसीत्, दीनानसहायांश्च दानं दातुं सहायं च कर्तुं सोऽधुना नेच्छति स्म । एकैकस्मिन् पणे यो लक्षमितं धनमपि पणीकरोति स्म स वाणिज्ये लघुन्यपि व्यवसाये कठोरः स्वार्थी च भवति स्म कदाचिच्च स्वप्नेऽपि धनमेव पश्यति स्म । ७० For Personal & Private Use Only Page #80 -------------------------------------------------------------------------- ________________ यदा हि कदाचित् सोऽस्मात् शापरूपात् संमोहनात् जागरितो भवति स्म, दर्पणे च प्रतिबिम्बितं स्वीयं जर्जरं विरूपं च जायमानं मुखं पश्यति स्म, यदाऽपि च लज्जा जुगुप्सा च तन्मनो व्याप्नोति स्म तदा स पुनरपि द्यूतगृहं प्रति धावति स्म, लक्षान् पणीकरोति स्म, विलासितायां मत्तः सन् सुरापानं करोति स्म । ततश्च पुनरपि धनार्जनार्थं तत्सङ्ग्रहणार्थं चोत्कटतया प्रवर्तते स्म । अस्मिन् अर्थहीने विषचक्रे भ्रामं भ्रामं जर्जरीभूतः सोऽकालेऽपि जीर्णो रुग्णश्च जात आसीत् । अथैकदा स्वप्नैकेन स प्रबोधितः । तद्दिने सायं स कमलया सह तस्याः क्रीडोद्याने तरोरध उपविश्य वार्तालापं कुर्वन्नासीत् । कमला गभीरतया वदति स्म तदा । तस्याः शब्देषु व्यथा खेदश्चाऽनुभूयेते स्म । तया सिद्धार्थस्य गौतमबुद्धविषयका प्रश्नाः पृष्टाः, यथा - तस्य लोचने कियती निर्मले आस्ताम् ? तस्य मुखं कथं शान्तिपूर्णं सुन्दरं चाऽऽसीत् ? स्मितं च कथं प्रसादपूर्णमासीत् ? तस्य च समग्रोऽपि व्यवहारः कथमुपशान्त आसीत् ? - इत्यादि । सिद्धार्थप्रदत्तानुत्तरान् श्रावं श्रावमपि सा तृप्तिं नैव प्राप्ता । सिद्धार्थेन चिराय महात्मनो बुद्धस्य वर्णनं कर्तव्यमभवत् । ततो दीर्घं निःश्वस्य कमलयोक्तं 'ममेदं प्रतिभाति यदेकदा, शीघ्रमेव, अहं बुद्धभगवतोऽनुयायिनी भिक्षुणी भविष्यामि । इदं क्रीडोद्यानमपि तस्यैव समर्प्य तत्सङ्घस्य शरणं च गृहीत्वा तदुपदेशानुसारं जीविष्यामि' | ततः सा सिद्धार्थं तीक्ष्णकटाक्षेन प्रलोभयित्वाऽत्यन्तासक्ततयोत्कटतयोग्रतया च तं समालिङ्ग्य रन्तुमारब्धा । साऽद्याऽस्य क्षणिकसुखस्याऽन्तिमं मधुबिन्दुं समास्वादितुमिच्छति स्मेव । इतः पूर्वं, कामासक्तेर्मृत्योश्चैतावान् गाढः सम्बन्धोऽस्तीति सिद्धार्थेनैवंस्पष्टतया न कदाऽप्यनुभूतमासीत् । ततः स तस्याः पार्श्वे शयितवान्, तस्याश्च मुखं तन्मुखासन्नमेवाऽऽसीत् । तस्या नेत्रयोरधः, ओष्ठप्रान्तयोश्च तेनैदम्प्राथम्येन व्यक्ततया वल्यश्चर्मसङ्कोचाश्च परिलक्षिताः, यैर्हि जरा- वार्धक्ययोः स्पष्टः सङ्केतो दीयते स्म । सिद्धार्थः स्वयमपि, योऽद्याऽपि चत्वारिंशद्वर्षदेशीय आसीत्, स्वकेशेषु पलितान् लक्षितवानासीत्, तेन कमलायाः सुन्दरे मुखेऽप्यद्याऽवसादो दृष्टः । यस्मिन् पथि सुखदमवसानं नाऽऽसीत्, तत्र च प्रवासेनाऽऽयातं केवलं श्रान्तत्वं, जरसो विषादस्य चैव सङ्केताः, प्रच्छन्नमनिर्दिष्टं प्रायश्चाऽव्यक्तं भयं - जीवनसन्ध्याया भयं, वार्धक्यस्य भयं, मृत्योश्च भयमवसादश्च सिद्धार्थेन कमलाया वदने दृष्टः । दीर्घं निःश्वस्य सिद्धार्थस्तामापृच्छ्य ततो निर्गतः । तस्य हृदयं विषादेन निगूढभयेन च पूरितमासीत् । स्वगृहं गत्वा सिद्धार्थेन सा रात्रिः सुरापानेन सह नर्तकीनां सान्निध्ये यापिता । स्ववयस्येभ्यः स्वयं श्रेष्ठो नाऽऽसीत् तथाऽपि तेन श्रेष्ठताया अभिनयः कृतः । प्रचुरं मद्यं पीत्वा मध्यरात्रेऽतीव श्रान्तोऽपि सन् चित्तेऽविरतं प्रवर्तमानेन द्वन्द्वेनाऽत्यन्तमुद्विग्नः, ततश्चाऽश्रुपूर्णलोचनो विषण्णहृदयश्च स शयितुं गत: । हृदयं तस्य दुःखेन तथा सन्तप्तमासीत् यथा तेनाऽनुभूतं यत् स इतोऽपि तत् सोढुं शक्तो न स्यात् । अस्वादुमद्यपानं, अगभीरस्याऽपि अतिमधुरस्य सङ्गीतस्य श्रवणं, नर्तकीनां सौगन्ध्यातिरेकयुतकेशादीनामाघ्राणं च यथा हठान्मनो व्याप्नोति तथा ततोऽपि वाऽधिकया जुगुप्सया तन्मनो व्याप्तमासीत् । एतेषां सर्वेषामुपरिष्टाच्च स स्वात्मनैवाऽधिकं जुगुप्सित आसीत्, तस्य सुगन्धाः केशाः सुरापानेन दुर्गन्धपूर्णं मुखं, शैथिल्यं प्राप्ता - ७१ For Personal & Private Use Only Page #81 -------------------------------------------------------------------------- ________________ च त्वक् - एतत् सर्वमपि तस्य जुगुप्सां वर्धयति स्म । यथा कश्चन भोजन-पानातिरेकाद् व्याकुलः सन् वमनेनैव शान्ति सौख्यं चाऽनुभवति तथा सोऽपि सर्वाण्यपीमानि भौतिकसुखानि, व्यसनानि, सर्वथा निश्चेतनं चेदं जीवनमेकेनैव प्रचण्डेनोत्सारणेन वान्त्वा सुखी स्वस्थश्च भवितुमिच्छति स्म सर्वात्मना । एवमेव व्याकुलतयाऽनिद्रित एव रात्रि यापयित्वा प्रत्यूषे किञ्चन सुप्तवान् । तस्यां क्षणिकतन्द्रायां स स्वप्नमेकं दृष्टवान् । ___ कमला स्वगृहे सुवर्णमये पञ्जरे मधुरगानमेकं पक्षिणं पालितवत्यासीत् । सिद्धार्थः स्वीये स्वप्ने तमेव पक्षिणं दृष्टवान् । तेन दृष्टं यत् प्रत्यहं प्रातःकाले गायन्नयं पक्षी अद्य सहसा अवाक् जातोऽस्ति । एतेन विस्मितः स सुवर्णमयं पञ्जरमुद्घाट्य यावत् पश्यति स्म तावत् स पक्षी मृतो दृष्टः । स तं पक्षिदेहं स्वहस्तेन गृहीत्वा क्षणं च निरीक्ष्य दूरं प्रक्षिप्तवान्, तत्क्षणमेव च यथा तेन किञ्चन श्रेष्ठं बहुमूल्यं च वस्तु अपि पक्षिणा सह प्रक्षिप्तमिव मन्वानः स भयकम्पितो जातः स्वीयहृदये चाऽकथ्यं दुःखमनुभूतवान् । एनं स्वप्नं दृष्ट्वा सहसा जागरितः स महति विषादे निमग्न आसीत् । स्वीयं सर्वमपि जीवनं तेनाऽसारतया निरर्थकं च व्ययितं, जीवनात् स न किञ्चिदपि फलं सारं मूल्यं वा निर्वृहितवान् - इति सोऽनुभवन्नासीत् । तस्य प्रतिभातं यत् पोतभङ्गेन सर्वमपि विनाश्य सर्वथैकाकी तटे पतितो जन इव सोऽप्येकाकी जातोऽस्ति । ___एवं विषण्णः सिद्धार्थः स्वीयं क्रीडोद्यानं प्राप्तः, द्वारं पिधाय च सहकारवृक्षस्याऽधस्तादुपविष्टः । तस्य हृदयं मृत्युभयेन ग्रस्तमासीत् । कञ्चित् कालमेवमेव यापयित्वा स विचारयितुमारब्धः । यदारभ्य तस्य स्मर्यते स्म तत् सर्वं स विचारयात्रया निरीक्षितवान् । “कदा किल स याथार्थ्येन सुख्यासीत् ? कदा किल वस्तुतस्तेनाऽऽनन्दोऽनुभूत आसीत् ? आम्, स्मृतम् ! नैकवारं स सुखमानन्दं चाऽनुभूतवानासीत् । यदा स तारुण्ये वर्तमानो विविधान् विषयानधीत्य ब्राह्मणानां प्रशंसां प्राप्तवान्, स्वीयान् समयवयस्कान् दूरमतिक्रान्तवान्, सामगाने सर्वेभ्योऽपि प्रकर्षं प्राप्तवान्, पण्डितैः सह वादं कृतवान्, यागादिषु च स्वपित्रादीनां साहाय्यं कृतवान् तदा तस्य मनः सुखेनाऽऽनन्देन च व्याप्तमासीत्" । "तदात्वे तेन स्वहृदयगह्वरेऽनुभूतमासीद् यत् - त्वत्कृते एष एव पन्था अनुसरणीयतया विद्यते । अस्मिन्नेव पथि देवास्त्वां प्रतीक्षन्ते - इति" | "ततो यौवनेऽपि यदाऽनवरतमूर्ध्वगमनाय प्रेरयताऽनेनैव हृदयाशयेन स सब्रह्मचारिणां यूथाद् बहिनिर्गतः, यदा ब्राह्मणानामुपदेशान् बोद्धं स दृढतया प्रयतितवान्, यदा च प्रत्येकं नूतनो बोधो नूतनतमबोधप्राप्तेरेवाऽभीप्सां तस्मिन् जनयति स्म तदा पुनरपि, प्रयत्नानामेषां मध्येऽभीप्सानां चाऽऽसां मध्येऽपि तस्याऽन्तःकरणं वदति स्म – 'अग्रेसरो भव, अग्रेसरो भव, अयमेव तेऽध्वा' - इति । यदाऽपि स गृहं त्यक्त्वा श्रमणीभवितुं निर्गतस्तदाऽप्ययमेव ध्वनिस्तस्य हृदयाकाशे गुञ्जति स्म । ततः पुनरपि यदा स श्रामण्यमुत्सृज्य पूर्णपुरुषस्य बुद्धस्य पार्श्वे गतस्तदाऽपि स एव ध्वनिस्तं जागरयति स्म । प्रान्ते च तमपि विहाय यदा सोऽज्ञातं प्रदेशं प्रति प्रस्थितवान् तदाऽप्ययमेव ध्वनिस्तस्य चित्ते प्रतिध्वन्यते स्म" । ७२ For Personal & Private Use Only Page #82 -------------------------------------------------------------------------- ________________ "किन्तु, अद्य कियान् कालो व्यतीतस्तं ध्वनिं श्रुत्वा? कियतो दीर्घकालात् तेन नवं किमपि लक्ष्यं न प्राप्तमासीत् ? आ बहोः कालात् तस्य जीवनपथः कथं नीरस उत्सन्नश्च सञ्जात आसीत् !! कियन्तो वत्सरास्तेनोन्नतध्येयविहीनतया, उत्कटाभीप्साशून्यतया, उत्कर्षलेशमप्यप्राप्य व्ययिता आसन् ? केवलं कानिचन लघुलघूनि कुसुखानि प्राप्य हृष्टेनाऽपि सर्वथाऽतृप्त्या !! किमप्यबुध्वैव तेन प्राकृतजनवत् कार्याणि कृतानि, बालवदभिलाषशतानि चिन्तितानि पूरितानि चेयन्ति वर्षाणि ! तथाऽपि प्राकृतजनेभ्यो बालेभ्यश्चाऽपि सकाशात् तस्य जीवनं निकृष्टं तुच्छं च सञ्जातमासीत्, यतस्तेषां प्राप्तव्यानि तस्य लक्ष्येभ्यः सकाशात् भिन्नान्यासन्, एवं तेषां दुःखानि चाऽपि तस्य नाऽऽसन् !" कामस्वामिसदृशजनानां सम्पूर्णमपि जगत् तस्य कृते क्रीडामात्रं, नाट्यमानं, प्रहसनमात्रमासीत् । केवलं कमलैव तस्य प्रियतमाऽऽसीत्, तस्याः कृते एव तन्मनसि समादर आसीत्, किन्तु किं साऽपि शाश्वताऽऽसीत् ? किमद्याऽपि सा तस्याऽपेक्षिताऽऽसीत् ? स वाऽपि च तस्याः कृतेऽपेक्षणीय आसीद् वा ? किं तयोः निरर्थिकायाः क्रीडायाः कदाचिदप्यन्तः आसीद् वा ? किं तस्याः क्रीडायाः कृते एव जीवनीयमासीत् खलु ? नैव !! यतः एषैव क्रीडा संसारपदवाच्याऽऽसीत्, बालानां क्रीडैषा, या हि सुखदाऽऽसीत् यदि परं द्वित्रवारं दशवारं वा क्रीडिता, किन्तु निरन्तरं तस्याः क्रीडनं किमुचितमासीत् खलु? सिद्धार्थेनाऽवबुद्धं यदधुना क्रीडैषा समाप्तिं गताऽस्ति । अधिकक्रीडनमशक्यमेवाऽतः परम् । तस्य शरीरे आपादमस्तकं कम्पनं जातम् । किञ्चिन्मृतं तस्याऽन्तःकरणे इवाऽपि तेनाऽनुभूतम् । . तस्मिन्नहनि आदिनं सहकारवृक्षस्याऽधस्तादेवोपविश्य स स्वपितरं, गोविन्दं, गौतमबुद्धं च विषयीकृत्य चिन्तनं कृतवान् । 'किं तेन कामस्वामीभवितुमेते सर्वेऽपि त्यक्ता आसन् वा ?' स तत्रैवोपविष्ट आसीद् यावदन्धकारः प्रसृतः । यदा स उपरि दृष्टवान् तदा तेन नीले नभोविताने प्रकाशमाना नक्षत्र-तारका विलोकिताः । तेन स्मृतं – 'अहो ! अहमत्र मम क्रीडोद्याने मदीयसहकारवृक्षस्याऽध उपविष्टोऽस्मि' । तस्य वदने स्मितमुल्लसितम् । 'किं तदावश्यकमासीत् ? किं तदुचितमासीत् ? अथवा किं तन्मौर्व्यपूर्ण नाऽऽसीद् यत् कस्यचित् क्रीडोद्यानस्य तथा तदन्तःस्थितस्याऽऽम्रवृक्षस्य स्वाम्यं स धारयति स्मेति ?' अनेन विचारेण स तत्र पूर्णविरामं स्थापितवान् । तेनाऽनुभूतं यदेतदपि मृतं तस्याऽन्तः । स उत्थितवान् । सहकारतरुं क्रीडोद्यानं च 'स्वस्ति ते भूया'दिति सम्भाव्य ततो निर्गतवान् । तस्मिन् दिने स किमपि न खादितवानासीत् अतः स क्षुधातुरो जातः सन् स्मृतवान् यत् तन्नगरे तस्य गृहमप्यस्ति यत्र सर्वमप्याहारजातं विद्यतेऽन्यदपि वस्तुजातमस्तीति । पुनरपि स म्लानं स्मितवान्, मस्तकं च विधूय मनसैव तत् सर्वमपि गृहादि-वस्तुजातं सम्भावितवान् । अथ च तस्यामेव रात्रौ सिद्धार्थः सर्वमपि त्यक्त्वा नगरान्निर्गतः सन् पुनर्न कदाऽपि प्रत्यागतः । कामस्वामी चिराय तमन्विष्टवान्, कदाचित् स लुण्टाकैरपहृतः स्यादिति मत्वा; किन्तु कमलया तमन्वेष्टुं ७३ For Personal & Private Use Only Page #83 -------------------------------------------------------------------------- ________________ न कोऽपि प्रयत्नः कृतः । किं बहुना ? सिद्धार्थः कुत्रचिद् गतवान् - इति तया यंदा ज्ञातं तदा तयाऽऽश्चर्यमपि नाऽनुभूतम् । तया आसिद्धार्थमेलनकालात् तदपेक्षितमेवाऽऽसीत् । यतः सा जानाति स्मैव यत् तस्य मूलं तु श्रामण्य एव प्रतिष्ठितमासीत्, गृहत्यागः, यात्रा, भ्रमणमित्यादिकं तस्य सहजमेवाऽऽसीत् । एतच्च तथ्यं तया सिद्धार्थस्याऽन्तिमे समागमे सर्वतोऽप्यधिकतयाऽनुभूतमासीत् । सिद्धार्थस्य गमनात् सञ्जाते दुःखेऽपि तया तस्याऽन्तिमस्य मिलनस्य, गाढमालिङ्गनस्य, रतिक्रीडायां च तेन स्वोपरि प्राप्तस्य प्रभुत्वस्याऽऽनन्दोऽद्याऽपि अनुभूयते स्म । किञ्च, यदा तयैदम्प्राथम्येन सिद्धार्थगमनवार्ता श्रुता तदा सा यत्र गवाक्षे सुवर्णपञ्जरस्थो गायकः पक्षी समासीत् तत्र गत्वा सुवर्णपञ्जरमुद्घाटितवती पक्षिणं च बहिनिष्कास्य मुक्ताकाशे उड्डायितवती । ततश्चिराय सा तं पक्षिणमदृश्यीभवन्तं निरीक्षितवती । ___अथ च तस्माद्दिनात् साऽऽगन्तुकानां कृते स्वगृहद्वाराणि पिहितवती । कैश्चिद् दिवसैः साऽवगतवती यत् सिद्धार्थस्याऽन्तिमसमागमेन साऽपत्यं प्रसविष्यतीति । ७४ For Personal & Private Use Only Page #84 -------------------------------------------------------------------------- ________________ ४. नद्यास्तीरे नगराद् दूरं गतः सिद्धार्थोऽटव्यामितस्ततो परिभ्रान्तवान् । स्वमनसि तेन निर्णीतमासीत् - इतः परं तस्य तत्र निवर्तनं न भविष्यतीति । यज्जीवनं तेन वर्षाणि यावद् नगरे यापितं यदास्वादश्च केवलं निर्वेद एव विपरिणत आसीत् तदधुनाऽतीते परावृत्तमासीत् - बाष्पीभूतमासीत् । गायकः पक्षी मृत आसीत् । यस्य पक्षिणो मरणं तेन स्वप्ने दृष्टमासीत् स तु तद्धृदय एव वसति स्म । ___ संसारस्य कर्दमे स आकण्ठं निमग्नो जात आसीत् । सर्वतो जलशोषकस्य चूषक(sponge)स्येव तेन सर्वतो निर्वेदः खेदो मरणं चैव समाकृष्टान्यासन् । इदानीं स सर्वतोऽवसादेन, सर्वतो दुःखेन सर्वतश्च मृत्युनाऽऽक्रान्त आसीत् । जगति तादृशं किञ्चिदपि नाऽऽसीद् यत् किल तमाकृषेत्, सुखिनं कुर्यात्, आश्वासनं वा दद्यात् तस्मै ।, इदानीं स उत्कटतया विस्मृति वाञ्छति स्म, चिरविश्रान्तिमिच्छति स्म, मरणं चाऽभिलषति स्म । यदि कथञ्चित् तन्मस्तकोपरि विद्युदापतेत्, व्याघ्रो वा कुतश्चिदागत्य तं भक्षयेत्, अथवा किञ्चन मद्यं किञ्चिद् वां विषं स्यात् यत् तस्मै विस्मरणं दद्यात्, सर्वथा स्मृतिभ्रंशं कुर्यात् चिरनिद्रायां वा धारयेत् यतो न कदापि जागरणं स्यात् तादृशं किञ्चित् स इच्छति स्म ।। ___कि तादृशं किञ्चिद् दूषणमासीत् खलु येन स नाऽनुलिप्तो जातः ?, तादृशं पापं मूर्खत्वं वाऽऽसीत् यत् तेन नाऽऽचरितं स्यात्, तदात्मनि तादृशः कश्चन कलङ्क आसीत् यत्कृते स स्वयमेवोत्तरदायी न स्यात् ? । एवं स्थितेऽपि किं जीवितं धारयितुं शक्यमासीत् ? किं पुनः पुनः श्वसनमपि शक्यमासीत् खलु ? अस्यां परिस्थितौ उच्छ्वसनं, निःश्वसनं, क्षुदनुभवनं, तच्छमनं, शयनं, स्त्रीसेवनं - किमेतद् दुश्चक्रं पुनः पुनरावर्तयितुं शक्यमासीत् ? एतत् सर्वमपि तत्कृते क्षीणं समाप्तं वाऽऽसीत् । सर्वथा हताशः सिद्धार्थो गहनेऽरण्ये भ्राम्यन् तस्या एव दीर्घाया नद्यास्तीरं प्राप्तो यस्यामेकदा यौवने गौतमबुद्धसकाशान्निर्गतः स नाविकेनैकेनोत्तारित आसीत् । स तत्राऽऽगत्य साशङ्क इव स्थितः । अवसादेन क्षुधा च स सर्वथा क्लान्त आसीत् । इतोऽप्यग्रे तेन किमर्थं गन्तव्यं ? कुत्र वा ? केन वा प्रयोजनेन? नैव, तस्य दुःखदस्य स्वप्नस्य निर्धूननादन्यत्, तस्याः पर्युषिताया मदिराया वमनादन्यत्, कटुकस्य व्यथापूर्णस्य जीवनस्योत्सर्जनाच्चाऽन्यत् तस्य मनसि न किमपि प्रयोजनं महेच्छा वाऽऽसीत् । नद्यास्तटे एको नालिकेरवृक्ष आसीत् । तस्य स्कन्धं हस्तेनाऽवलम्ब्य स तत्रैवोपविष्टः । तस्य दृष्टिः ७५ For Personal & Private Use Only Page #85 -------------------------------------------------------------------------- ________________ पुरतः प्रवहमाने हरितवर्णे नदीनीरे आसीत् । अनिमेषनयनाभ्यां तद् विलोकमानस्य तस्य मनः पूर्णतया केवलमेकेनैवाऽभिलाषेण पूरितमासीत् - नद्यां कूदित्वा जले निमज्जनेन स्वात्मनो विलयस्य ! । स्वात्मनि अनुभूयमाना दारुणा शून्यता किलेदानीं नदीजलस्य शीतलशून्यतायां प्रतिबिम्बते स्म तस्य । आम् ! अधुना स पर्यवसाने आगत्य स्थित आसीत् । तस्य कृते इदानीं स्वात्मन एवोन्मूलनम्, अकृतार्थसंरचनस्य स्वजीवनस्य विनाशनं, प्रक्षेपणं च विनाऽन्यत् किमपि नाऽवशिष्टमासीत् । तेनाऽनुभूतं यद् देवा अपि तमुपहसन्ति स्माऽधुनेति । अतः स्वात्मनो विनाश एव तस्य गतिरस्तीति चिन्तयति स्म सः । कामं मत्स्या मकरा अन्ये जलचराश्च तस्य शरीरं भक्षयन्तु नाम, सिद्धार्थनामकस्य शुनः शरीरं, एतस्योन्मत्तस्य, भ्रष्टस्य दुष्टस्य च शरीरं, एतस्य प्रमादिनोऽपव्ययिनश्चाऽऽत्मनः शरीरम् ! कामं च राक्षसा तच्छरीरं खण्डखण्डीकुर्वन्तु नाम !! ततो विकृतेन मुखभावेन स जले दृष्टिं प्रासारयत् । तत्र च स्वमुखं प्रतिबिम्बितं विलोक्य स थूत्कृतवान् । ततो हस्तेन गृहीतं वृक्षावलम्बनं त्यक्त्वा स किञ्चित् परावृत्तः, येन कूदित्वा जले आपादमस्तकं पतेत्, नदीतलं च प्राप्नुयात् । ततः कूदितुं स किञ्चिदवनतः, अक्षिणी निमीलितवान् – मरणमभिमुखमासीत् !! अथ तावता, तस्याऽन्तःकरणस्य गहनतमप्रदेशात्, तस्य श्रान्तजीवनस्याऽतीतं भित्त्वा, स कञ्चन ध्वनिं श्रुतवान् । केवलमेक एव शब्द आसीत्, अथवा केवलमेकमेवाऽक्षरमासीत्, यच्च स किमप्यविचिन्त्याऽस्पष्टतयोच्चारितवान् । तदासीत् सर्वेषामपि प्राचीनानां वेदमन्त्राणामादिरन्तश्च - ओम् - इति, यस्याऽर्थ आसीत् पूर्णः, पूर्णत्वं वा । यस्मिन् क्षणे ओम्-इति ध्वनिस्तस्य कर्णगोचरीभूतस्तस्मिन्नेव क्षणे तस्य प्रसुप्त आत्मा जागरित इवाऽभवत्, स च सहसा स्वचेष्टिते निहितं मौख्यं ज्ञातवान् ।। एतेन सोऽत्यन्तं सन्त्रस्तोऽभवत् । अहो ! एतदर्थं सोऽत्राऽऽगत आसीत् ! स तथा मूढो जात आसीत्, तावान् व्याकुलोऽभवत्, तावांश्च शून्यचित्तो जातो यथा मृत्युमेवाऽभिकाङ्क्षन् स इहाऽऽगत आसीत् खलु ! बालिशतापूर्णैषाऽऽकाङ्क्षा तस्य चित्ते तथा प्रबलाऽभवत् यथा स शरीरं नाशयित्वा शान्ति प्राप्तुमिष्टवान् । किन्तु यदा 'ओम्'कारस्तस्य चैतन्यं व्याप्नोत्, स स्वीयं क्षुद्रत्वं दोषं च ज्ञातवान् तदा तन्मनसि प्रकटितः सर्वोऽपि सन्तापः, सर्वोऽपि मोहः, सर्वाऽपि च निराशा निष्प्रभावा अभवन् । ___पुनरपि तेन हृदय एव ओङ्कारस्य नादः कृतः फलतः परमब्रह्मणः शाश्वतचैतन्यस्य च भानं तस्याऽभवत् । यत् सर्वमपि दिव्यं स विस्मृतवानासीत् तत् सर्वमपि चेदानीं तस्य स्मृतिपथे पुनरवतीर्णम् । किन्त्वेतदपि भानं क्षणिकमेवाऽऽसीत् । यतोऽतीव परिश्रान्तः सिद्धार्थो नालिकेरवृक्षमवलम्ब्य तत्रैवोपविष्टः । तत ओङ्कारमेव जपन् स वृक्षमूले शीर्ष स्थापयित्वा गाढनिद्रया प्रसुप्तवान् । तस्य निद्रा गहना स्वप्नरहिता चाऽऽसीत् । दीर्घकालादेव स एवं नैव सुप्तवान् कदाचित् । यदा स जागृतस्तदा बहूनि वर्षाणि व्यतीतानीव प्रतिभातं तस्य । प्रवहतो जलस्य मृदुनिनादं स श्रुतवान्, किन्तु स न स्मृतवान् यत् कुत्र स इदानीमासीत्, नाऽपि, कथं सोऽत्राऽऽगतः - इति । स यदा उपरि दृष्टवान् तदा वृक्षान् नीलवर्णं चाऽऽकाशं दृष्ट्वा विस्मितोऽभवत् । ततश्च तेन स्मृतं यत् कुत्र सोऽस्ति कथं ७६ For Personal & Private Use Only Page #86 -------------------------------------------------------------------------- ________________ चाऽत्राऽऽगतः इति । अस्मिंश्च स्मरणे तस्य भूयान् समयो व्यतीतः । तस्याऽतीतं जीवनमिदानीमत्यन्तं दूरवर्तीव घनावरणाच्छादितमिव सर्वथा महत्त्वशून्यमिव चाऽभासत । एतावदेव तस्य ज्ञातं यत् तत् पूर्वतनं जीवनं (यस्मिन् क्षणे स जागृतोऽभवत् तस्मिन् क्षणे तस्य पूर्वतनं जीवनं वर्तमानस्वत्वस्य बहुदूरवति जन्म इवाऽभासत) समाप्तमिदानीं, यत् केवलं निर्वेदपूर्णं निकृष्टतमं चाऽऽसीत्, यच्च स विनाशयितुमेवेष्टवान्, किन्तु तदर्थमिह नद्यास्तीरे नालिकेरवृक्षस्याऽधस्तात् समागतः सोऽकस्मात् पवित्रं मन्त्राक्षरम् 'ओम्' इति उच्चारयन्नेव सर्वमपि विस्मृत्य गाढनिद्रायां सुप्तवान् । जागृतश्च सन् पुनर्जन्म प्राप्त इव जगदिदं नवागन्तुक इव वीक्षितवान् । ___पुनरपि स मृदुतया ओम् - इत्युच्चारितवान् । तस्य प्रतिभातं यत् समग्रेऽपि निद्राकाले ओम्जपस्तन्मनसि वरीवर्तित एव, ओङ्कारस्यैव विचारः, नाम-रूपरहिते दिव्ये ओङ्कार एव निमज्जनं व्यापनं चाऽपि । कीदृशमद्भुतं स्वपनं तद् आसीत् । कदाऽपीदृशी निद्रा तेन कदाऽपि नाऽनुभूता यया एतावानाह्लाद एतावन्नवजीवनं एतावच्चाऽऽप्यायनं प्राप्तं स्यात् । किं स वस्तुतो नद्यां निमज्ज्य मृत्युं प्राप्तः, पुनश्च नवावतारेणाऽत्रोपस्थित आसीद् वा ? नैव, स स्वं प्रत्यभिज्ञातवान्, स स्वीयं हस्त-पादं प्रत्यभिज्ञातवान्, स तत्स्थलमपि प्रत्यभिज्ञातवान् यत्र स शयित आसीत् तथा स स्वहृदयस्थं सिद्धार्थं - स्वैरिणं विलक्षणं सिद्धार्थं चाऽपि प्रत्यभिज्ञातवान् । किन्त्वयं - प्रस्तुतः सिद्धार्थस्तु किञ्चिदिव परावृत्तः पुनर्नवीभूतश्चाऽऽसीत् । नूनं सोऽद्भुततया शयितवान्, ततश्च विशेषतो जागृतः प्रसन्नो विस्मयमुग्धश्चाऽऽसीत् । ___ यदा सिद्धार्थ उत्थितस्तदैव तस्य दृष्टिः पुरत उपविष्टे काषायवस्त्रधारिणि मुण्डितशिरसि साधौ पतिता, यः किल विचारमग्न आसीत् । केश-श्म,वादिरहितं तं वीक्ष्याऽचिरमेव स प्रत्यभिज्ञातवान् यदयं मे बाल्यकालीनः सुहृद् गोविन्दोऽस्ति यो हि महात्मनो बुद्धस्य सङ्के भिक्षुत्वं स्वीकृतवानासीत् । यद्यपि सोऽपि वयस्को जात एव तथाऽपि तस्य वदने पुरा विलसन्ति लक्षणानि साम्प्रतमपि विलोक्यन्ते स्मैव, यथा - औत्सुक्यं, निष्ठा, जिज्ञासा, व्यग्रता च । किन्तु यदा गोविन्दस्तस्य दृष्टिपातमनुभूय स्वनेत्रे उन्मीलितवान् तं च दृष्टवान् तदा सिद्धार्थेनाऽवगतं यद् गोविन्दस्तं नैव प्रत्यभिज्ञातवान् - इति । गोविन्दस्तु तं जागृतं दृष्ट्वा प्रसन्नोऽभवत् । यद्यपि स तं नैवाऽभिज्ञातवान् तथाऽपि एतत्तु स्पष्टमासीत् यत् स तस्य जागरणमेव प्रतीक्षमाणश्चिरादुपविष्ट आसीत् । 'अहं निद्रायमाण आसम् । किन्तु भवानत्र कथमागतः ?' – सिद्धार्थोऽप्राक्षीत् । गोविन्द उत्तरितवान् – 'भवान् निद्रालीन आसीत् । किन्त्वरण्येऽस्मिन् श्वापदसर्पाद्याकुले एवं निद्रातुं नैवोचितम् । अहं हि महात्मनः शाक्यमुने!तमबुद्धस्य शिष्याणामन्यतमोऽस्मि सङ्घन च सह यात्रार्थं प्रस्थितोऽस्मि । यदाऽहं भवन्तं भयाकुलेऽत्र स्थले शयानं वीक्षितवान् तदा भवन्तं जागरयितुमिष्टवान् । किन्तु भवान् गाढनिद्रामग्न आसीत्, अतोऽहं सहयात्रिणो विहायाऽत्रैवाऽवस्थितो भवत्पावे च रक्षार्थमुपविष्टः । ७७ For Personal & Private Use Only Page #87 -------------------------------------------------------------------------- ________________ किन्तु योऽहं भवद्रक्षार्थमत्र स्थित आसम्, सोऽहमेव निद्रावशगोऽभवम् । ततश्च भवत्यवधानं दातुं न शक्तोऽभवम् । तथाऽपि, अधुना तु भवान् जागृतोऽस्ति, अतो मया गन्तव्यं मम सहयात्रिणश्चाऽऽसादनीयाः'। ___ 'श्रमण ! मम निद्राकाले मां रक्षितुं यद् भवानुपविष्टस्तदर्थमहं भवत उपकारं मन्ये । महात्मनो बुद्धस्याऽनुयायिनो हि स इव करुणापूर्णहृदया एव भवन्ति । किन्त्वधुना भवान् स्वयात्रामनुवर्तितुमर्हति' - सिद्धार्थो मृदुतयोक्तवान् ।। 'अहं गच्छामि किल । भवान् स्वं निभालयतु' । 'उपकृतोऽस्मि भोः श्रमण !' । किञ्चिदवनम्य गोविन्दोऽवदत् - 'पुनर्मिलनाय' - इति । तदा सिद्धार्थोऽपि – 'पुनर्मिलनाय गोविन्द !' - इत्यवदत् । एतच्छ्रुत्वा गोविन्दः स्तब्धोऽभवत् । 'क्षम्यतां भोः !, किन्तु भवान् मम नाम कथं जानाति ?' 'सिद्धार्थो हसित्वा कथितवान् – 'भोः गोविन्द ! अहं भवन्तं भवतः पितृगृहात्, ब्राह्मणविद्यालयात्, यज्ञेभ्यः, श्रमणानामन्तिके दीक्षा ग्रहणकालात् तथा जेतवनविहारे महात्मबुद्धपार्वे भवतो भिक्षुकत्वाङ्गीकारकालाज्जानामि' । 'अहो ! भवान् सिद्धार्थोऽस्ति खलु !' – गोविन्द उच्चैराराटीत् । 'इदानीमहं भवन्तं प्रत्यभिज्ञातवान् । एतत्तु नाऽवगच्छामि यत् किमर्थं मया भवान् झटित्येव नाऽभिज्ञातः । नमस्ते सिद्धार्थ ! पुनरपि भवन्तं दृष्ट्वा भृशं प्रमुदितोऽस्म्यहं किल' । 'अहमपि भवन्तं बहोः कालाद् दृष्ट्वा नितरां हृष्टोऽस्मि । अपि च, भवताऽहं निद्रायमाणो निरीक्षितोऽस्मि । एतदर्थं पुनरपि कृतज्ञोऽस्मि । यद्यपि मे रक्षणस्याऽऽवश्यकता नाऽऽसीत् । भवतु । परं मित्र ! भवान् कुत्र प्रस्थितोऽस्ति ?' | 'अहो ! अहं कुत्राऽपि न प्रस्थितः । वयं साधवः सर्वदा यात्रारता एव वर्तामहे । केवलं प्रावृषि एकत्र तिष्ठामः । अन्यत्र काले तु स्थानात् स्थानं परिभ्रमणं कुर्मः, सङ्घशासनानुसारं जीवामः, जनानुपदिशामः, भिक्षया वृत्तिं कुर्मः पुनरपि च यात्रामनुवर्तामहे । एवं च सर्वदा वरीवति । किन्तु सिद्धार्थ ! भवान् कुत्र प्रस्थितोऽस्ति ?'। सिद्धार्थोऽचकथत् – 'ममाऽपि वृत्तं भवता तुल्यमेव मित्र ! । अहमपि न कुत्राऽपि प्रस्थितः । अहमपि यात्रारतः सन् परिभ्रमणे उद्यतोऽस्मि' । गोविन्देनोक्तम् - ‘एवं वा ? भवतु, यदि भवान् कथयति यदहं यात्रारतोऽस्मीति - तदहं विश्वसिमि । किन्तु क्षम्यतां सिद्धार्थ ! भवान् यात्रिको न दृश्यते । यतो भवता धनिकवन्महा_णि वस्त्राणि ७८ For Personal & Private Use Only Page #88 -------------------------------------------------------------------------- ________________ परिहितानि, भवत उपानही श्रेष्ठौ स्तः, केशाश्च भवतः सुगन्धिनः परिकर्मिताश्च सन्तो न कस्यचिच्छ्रमणस्य यात्रिणो वा प्रतिभान्ति' । 'भवता सूक्ष्म निरीक्षणं कृतं मित्र !, भवतो दृष्टिपथे सर्वमपि समागतम् । किन्तु, अहं श्रमणोऽस्मीत्येतत् तु नैव कथितं मया खलु ! । मयोक्तं यदहं यात्रिकोऽस्मीति, एतच्च सर्वथा तथ्यम्' । 'भवतु, भवान् यात्रिकोऽस्तीति मन्येऽहम् । किन्तु, अल्पा एव केचनैतादृशैर्वस्त्रैरीदृशैरुपानहैरीदृक्षैश्च केशैर्यात्रां कुर्वन्ति ननु ! । योऽहं वर्षेभ्यो देशेषु परिभ्रमणं करोमि तेनाऽपि न कदाचिदीदृशो यात्रिको दृष्टचरः'। 'अहं भवदुक्तमङ्गीकरोमि गोविन्द !, परन्तु, अद्य हि भवतैतादृशो यात्रिकस्तथैतादृशवस्त्रोपानहादिधारकोऽपि दृष्टोऽस्ति । अपि च, स्मरतु भवान् प्रियमित्र ! दृश्यमानमिदं जगद्धि सर्वथा क्षणभङ्गुरमस्ति, अस्माकं वस्त्र-केशादीनां रीतयोऽपि क्षणिकाः, किञ्चाऽस्माकं केशाः शरीरमपि च क्षणविनश्वराणि । भवतो निरीक्षणं सर्वथाऽवितथम् । मया धारितानि वस्त्राणि धनिकजनस्यैव, तथाऽहमपि तानि धारयामि यतोऽहमपि धनिक आसम् । तथा मम केशोपानहोऽपि धनिकानामिव आधुनिकशैलीकाः सन्ति यतोऽहमपि जागतिकजनानां धनिकानां चाऽन्यतम आसम्' । 'तर्हि, अधुना को वा. भवान् अस्ति ?' 'अहं नैव जानामि, अथवा भवानिवाऽहमप्यत्यल्पं जानामि । अहं यात्रापथे प्रवृत्तोऽस्मि । सत्यमहं धनिक आसम्, किन्त्वधुना नैवाऽस्मि, तथा श्वः किं भविष्यामीत्यपि न जानामि' । 'किं भवता स्ववैभवं हारितं वा ?' 'मया तद् हारितमुत तेनाऽहं हारितः - इति तु नैव जानामि । आभासानां चक्रं त्वरितं भ्राम्यति, गोविन्द ! । अद्य ब्राह्मणः सिद्धार्थः कुत्राऽस्ति, श्रमणः सिद्धार्थः कुत्राऽस्ति, ऐश्वर्यवान् सिद्धार्थश्च कुत्राऽस्ति ? क्षणिका भावाः सततं सत्वरं च परावर्तमाना भवन्ति । एतत्तु गोविन्द ! भवान् जानात्येव खलु !' । - एतन्निशम्य गोविन्दश्चिराय साशङ्ख स्वयौवनकालीनं मित्रं निरीक्षितवान् । तत उच्चपदस्थितं यथा कश्चन नमति तथा स सिद्धार्थं प्रणम्य स्वपथे प्रवृत्तोऽभवत् । सस्मितं सिद्धार्थस्तं गच्छन्तं निरीक्षितवान् । सोऽद्याऽपि तं, विश्रब्धमुत्सुकं च स्वमित्रं प्रीणाति स्म । तथाऽस्मिन् प्रशस्ये क्षणे, तादृशाद्भुतनिद्रानन्तरं, सर्वथौङ्कारेणाऽऽप्लावितः स सर्वं सर्वांश्चाऽप्रीणन् कथं स्थातुं शक्नुयात् ? एष चमत्कारश्च तस्या अद्भुतनिद्राया मध्ये, ओङ्कारस्य च प्रभावेण सञ्जातो यत्कारणात् स सर्वमपि प्रीणाति स्म । यदपि तस्य दृष्टिपथे समायाति तत् सर्वं प्रति तस्य स्नेहोऽकारणमेवोल्लसतीति सोऽनुभवति स्म । तेनैतदपि लक्षितं यत् पूर्वं स कञ्चिदपि किञ्चिदपि च नैव प्रीणाति स्मेत्येतदर्थमेव सोऽस्वस्थो भवति स्मेति । For Personal & Private Use Only Page #89 -------------------------------------------------------------------------- ________________ सस्मितं सिद्धार्थो गच्छन्तं भिखं विलोकितवान् । यद्यपि गाढनिद्रावशात् स प्रफुल्लितो जात आसीत् तथाऽपि द्विनद्वयाद् बुभुक्षित्वात् महती क्षुत् तं बाधते स्म, क्षुन्निरोधस्य तस्य सामर्थ्य तु भूतकालविषयीभूतमासीत्. । यद्यपि तस्यैतद् विचार्य दुःखमभवत् तथाऽपि सहासं स तं दिनं स्मृतवान् यदा स कमलायाः पुरतः स्वात्मश्लाघां कुर्वन् स्वस्य त्रीणि सामर्थ्यानि विकत्थितवानासीत् - त्रीण्यपि तानि विशिष्टानि दुरासदानि च नैपुण्यान्यासन् - उपवासः, प्रतीक्षा, विचारश्च । एतानि त्रीण्यपि तस्य वित्तमासीत्, तस्य बलं सत्त्वं दृढश्चाऽऽधारोऽपि । स्वीये परिश्रमपूर्णे व्यवसायतत्परे च तारुण्ये स एतान्येव त्रीणि नैपुण्यानि समभ्यस्तवानासीत् । किन्त्वधुना स तानि सर्वाण्यपि विनाशितवानासीत् । त्रयाणामेकतमदपि तस्य स्वाम्ये नाऽऽसीत् - नोपोषणं, न धैर्य, नाऽपि च विचारणम् । सोऽन्येषां क्षणिकानां तुच्छानां चेन्द्रियसुख-वैभवशालिजीवन-धनार्जनादिवस्तूनां कृते त्रयाणामप्येतेषां विनिमयं कृतवानासीत् । कस्मिंश्चिदसङ्गतेन मार्गेण स प्रस्थितवान्, साम्प्रतं च, प्रतिभाति यत् स खलु कश्चन प्राकृतजनः संवृत्तोऽस्ति । स स्वीयां परिस्थिति विमर्शितुमिष्टवान् । किन्तु विचारणं तस्याऽत्यन्तं कठिनं प्रतिभाति स्म । तस्य मनो विचारणे नैव युज्यते स्म, तथाऽपि स बलात् स्वं विचारणे प्रेरितवान् । ___ स चिन्तितवान् - अद्यैतानि सर्वाण्यपि क्षणिकानि वस्तूनि मे हस्तच्युतान्यभवन् । यथा बाल्यकाले तथाऽद्याऽप्यहमेकल एव सूर्यस्य विशालस्य च नभसोऽधस्तात् स्थितोऽस्मि । किञ्चिदपि मदीयं नास्ति, अहं किञ्चिदपि नैव जानामि, कुत्राऽपि मम स्वाम्यं नास्ति, किञ्चिदपि च खलु नैव शिक्षितं मया । ननु कियद् विचित्रमेतत् - इदानीं, यदाऽहं वार्धक्यपथे सञ्चरितोऽस्मि, मम केशाः शीघ्रं पलिता जायमानाः सन्ति, सामर्थ्यं च क्षीयमाणमस्ति, तदा पुनरप्यहं बालकवदारम्भं कुर्वन्नस्मि । स पुनरपि स्मितं कृतवान् । आम्, तस्य नियतिर्हि विचित्राऽऽसीत् । स प्रतीपं गच्छन्नासीत् । स पुनरपि रिक्त इव, विवसन इव, बोधरहित इव जगति स्थित आसीत् । किन्त्वेतदर्थं तस्य शोको नाऽऽसीत्, प्रत्युत तन्मनस्युच्चैर्हसितुमिच्छा जाता स्वं प्रत्येव हसितुं तथा मूर्खस्यैतज्जगतः प्रति हसितुमिच्छा जाता। 'भोः ! सर्वाण्यपि वस्तूनि तव कृते निम्नमेव गच्छन्ति सन्ति' - स स्वगतमेवोक्तवान् हसितवांश्च । उक्तमात्र एव तस्य दृष्टिर्नद्याः प्रवाहे पतिता, तेन विलोकितं च यन्नद्यपि सोल्लासं गायन्ती सातत्येन निम्नमेव प्रवहमानाऽऽसीत् । दृश्यमेतत् तमतिमात्रेणाऽतोषयत् । स सानन्दं नदी प्रति स्मितवान् । किमेषैव न सा नद्यासीत् यस्यां स एकदा निमज्जितुमिष्टवान् - वर्षशतेभ्यः पूर्वम् ? - अथवा तत् तेन स्वप्ने दृष्टमासीत् खलु ? ___'कीदृशं विचित्रं जीवनं मम जातं खलु ?' - सोऽचिन्तयत् । 'अहं ह्यज्ञातेषु पथिषु सञ्चरितवान् किल ! ! बाल्येऽहं देवताकार्येषु यागादिषु च निरत आसम् । तारुण्ये वैराग्यं धारयन्नहं चिन्तने ध्याने च निष्ठोऽभवम् । ततोऽहं ब्रह्मणोऽन्वेषणे उद्युक्तवान्, शाश्वतं च स्वात्मानमेवोपासितवान् । यौवने ह्यात्मविशुद्ध्यर्थं प्रयतितवानहम् । अरण्ये निवसन्नहं शीत-तापौ विसोढवान्, उपोषणमभ्यस्तवान्, स्वीयं देहं च जेतुं ८० For Personal & Private Use Only Page #90 -------------------------------------------------------------------------- ________________ शिक्षितवान् । ततो महात्मनो बुद्धस्योपदेशमपि महता विस्मयेनाऽऽत्मसात् कृतवानहम् । विश्वैक्यं विश्वज्ञानं च मयि रक्तमिव प्रवहमानमनुभूयते स्म. । किन्तु तथाऽपि मयि बुद्धं तस्य भव्यं ज्ञानं च त्यक्तुमदम्या स्पृहा समुत्पन्ना । अहं ततो निर्गतवान् कमलायाः सकाशाच्च कामसुखं कथं प्राप्तव्यमिति शिक्षितवान्, वाणिज्यं च कामस्वामिनः सकाशात् । अहं धनस्य सङ्ग्रहमपि कृतवान् अपव्ययं चाऽपि । अहं श्रेष्ठं भोजनमास्वादितुं शिक्षितवान्, इन्द्रियाणि च विषयास्वादैरुत्तेजितवान् । एतत् सर्वं वर्षाणि यावत् कृतवानहं मम प्रज्ञां नाशितवान्, विश्वैक्यं विस्मृतवान्, चिन्तनशक्तिं चोच्छेदितवान् । किमेतन्न सत्यं यदहं शनैः शनैर्बहूंश्च भ्रंशाननुभूय प्रौढपुरुषात् पुनरपि बालकतया परावर्तितः खलु ? चिन्तकात् प्राकृतो जनोऽभवम् । तथा, एवं स्थितेऽपि चिन्तयामि यदयं मार्गः प्रशस्त एव, मम हृदये स्थितः पक्षी खल्वद्याऽपि न मृतः । किन्तु कीदृशोऽयं मार्गो, यत्र मया बहूनि मानि, बहूनि पापाचरणानि, बहूनि स्खलनानि समाचरितानि प्रभूतो निर्वेदः, भूयांश्च भ्रमः शोकश्चाऽनुभूतः । केवलं पुनरपि बाल्यप्राप्त्यै पुनरारम्भाय च । किन्तु, एतत् समुचितमेव जातम् । मेऽक्षिणी हसतो हृदयं च स्वीकुरुते । एतत् प्रति मया निराशाऽनुभवितव्याऽऽसीदेव, गहने विचारगर्ने निमज्जनीयमासीदेव, स्वात्मघातोऽपि च विचारणीय आसीदेव - किमर्थम् ? पुनः सौन्दर्यं प्राप्तुं, पुनः ओङ्कारं श्रोतुं, गाढतया शयितुं, याथार्थ्येन च पुनर्जागर्तुम् । मय्येव ममाऽऽत्मानं प्राप्तुं मया मौर्यमाचरणीयमेवाऽऽसीत् । पुनर्जीवनं प्राप्तुं मया पापाचरणं कर्तव्यमेवाऽऽसीत् । चिन्तयामि - अग्रे कुत्राऽयं मार्गो मां नेष्यति ? यतोऽयं पन्था अपि मन्ये मूर्ख एव । मन्ये स भ्रम्याकारेण व्रजति अथवा वृत्ताकारेण गच्छति । भवतु यथाकथमपि स व्रजतु नाम, अहं तमनुसरिष्याम्येव । ___ अपि च, तस्याऽन्तःकरणे आनन्दस्योत्सा एव समुच्छलन्ति स्मेति सततमनुभूतवान् सः । स स्वमेव पृष्टवान् - 'कुत एते समागच्छन्ति खलु ? किमर्थमहमानन्दौघमनुभवन्नस्मि । किमहं गाढतया शयितवानित्येतदर्थमहं तमनुभवामि वा ? अथवा ओङ्कारप्रभावादेष उद्गतोऽस्ति वा किम् ? किमथवाऽहं तस्मादसमञ्जसात् पलायितोऽस्मि पलायनं च मम सिद्धं जातमित्येतदर्थं वा, ततश्चाऽहं विमुक्तोऽभवं बालकवच्चाऽनन्ताकाशस्याऽधस्तात् सहजतया स्थितोऽस्मि - तदर्थं वा ? अहो ! मम पलायनं कीदृक् शुभं समस्ति, विमुक्तिश्चाऽपि । यस्मात् स्थानाच्चाऽहं पलायितस्तत्र तु सर्वदा तीव्रतमविलासस्योन्मादस्य प्रमादस्य च वातावरणमासीत् । अहं ह्युन्मतवत् तत्र मद्यपानं द्यूतक्रीडनं च कुर्वन्नपि कथं धनिकानां तादृशां जीवनं तिरस्कुर्वन्नासम् । कथं चाऽहं तत्र दारुणे जगति इयच्चिरायाऽवस्थितत्यर्थं स्वमेव धिक्कृतवान् ? कथं वाऽहं स्वमेव प्रतिघ्नन्, विषाक्तं कुर्वन्, संपीडयंश्च स्वयमेव वृद्धः कुरूपश्चाऽभवम् ? इतः परमहं 'सिद्धार्थश्चतुरोऽस्ती'ति न कदाऽपि कल्पयिष्ये मंस्ये वा । अथाऽपि केवलमेकमेव वस्तु मे रोचते, मया तत् सुष्ठवेव कृतमिति, एतच्चाऽहं सर्वथा प्रशंसामि - यन्मया निजस्य घृणामयस्य मौर्यपूर्णस्य सर्वथा रिक्तस्य च जीवनस्याऽन्तः कृतः । भोः सिद्धार्थ ! भवता बहूनां वर्षाणां मौर्यस्याऽनन्तरं पुनरपि एकवारं किञ्चिच्छुभं चिन्तितं, किञ्चित् साधितं, स्वहृदयस्थितस्य पक्षणिो गानं श्रुतं समनुसृतं च !' । एवं चिन्तयित्वा स स्वमेव प्रशंसितवान्, स्वात्मनैव सन्तुष्टो जातः, उत्सुकतया च क्षुत्क्षामत्वेन ८१ For Personal & Private Use Only Page #91 -------------------------------------------------------------------------- ________________ नदन्तं स्वमुदरं श्रुतवान् । निराशां मृत्युं च प्रति यो नयेत् तादृशं शोकस्य दुःखस्य चांऽशं स पर्याप्ततयाऽऽस्वादितवानासीत् । तथाऽपि सर्वं शोभनमेवाऽऽसीत् । यदि किलैतन्नाऽभविष्यत्, सर्वथा हताशाया, विषादस्य, चिन्ताकुलतायाश्च चरमक्षणे यदि स स्वात्मघातार्थं जले पतितुं कृतसङ्कल्पो नाऽभविष्यत् तदा स कामस्वामिना सहैव चिरायाऽवत्स्यत्, धनार्जनं धनापव्ययं चाऽकरिष्यत्, आत्मानमुपेक्ष्य शरीरं चैवाऽपोषयिष्यत्, तथा चिराय तस्मिन् मृदुशय्यातुल्ये नरके न्यवत्स्यत् । तस्याऽन्तःकरणस्थितः पक्षी, ऊ/भवंश्च स्पष्टोऽन्तर्नादोऽद्याऽपि तस्मिन् सजीवन आसीत् । एतस्मात् कारणादेव स प्रसन्न आसीत्, हसन्नासीत्, पलिते च शिरसि सत्यपि तन्मुखं प्रोज्जवलमभासत । ___पुनः स चिन्तितवान् – 'जनेन हि स्वजीवने सर्वमपि सम्यगनुभवितव्यम् । बाल्ये मयाऽधीतं यज्जागतिकानि सुख-समृद्ध्यादीनि सर्वथाऽप्रशस्तानीति । एतज्ज्ञानं चिराय मय्यासीत् किन्तु तस्याऽनुभवो हि मयाऽधुना कृतः । इदानीमहं केवलं बुद्ध्या तन्न जानामि किन्तु नयनाभ्यां, हृदयेन, कुक्षिणा चाऽपि तज्जानाम्यनुभवामि च । एतज्ज्ञानं ह्यवश्यं प्रशस्यमेव' ।। एवं च स स्वस्मिन् जातस्य परिवर्तनस्य विषये चिराय चिन्तितवान् निजान्तःस्थितं च पक्षिणमानन्देन गायन्तं श्रुतवान्। किमयमन्तःस्थितः पक्षी मृत इति तेन नाऽनुभूतमासीत् ? नैव, किञ्चिदन्यदेव तस्याऽन्तःस्थितं मृतमासीत्, यस्य नाशस्तेन चिरादाकाङ्कित आसीत् । किं तत् तदेव नाऽऽसीद् यं नाशयितुं तेन संन्यस्तस्योत्साहपूर्णेषु वर्षेष्वेकदाऽऽकाङ्क्षितम् ? किं तत् तस्य स्वत्वं नाऽऽसीत् - लघु भीतभीतं चाऽपि गविष्ठं स्वत्वं - येन सह स वर्षाणि यावत् द्वन्द्वयुद्धं कृतवानासीत्, किन्तु यत् तं पौनःपुन्येन पराभूतवत्, यत् तस्य पुरतः पौनःपुन्येनाऽऽविर्भूतवत्, यच्च तस्य सुखं मोषित्वा तं भयेन पूरितवत् ? किं तदेतदेव नाऽऽसीत् यदन्ततो गत्वाऽद्य वनेऽस्या मनोरमाया नद्या उपकण्ठं विपन्नम् ? किमेतत् तस्य बाल्यं, विश्रम्भ-सुखपूर्णत्वं भयरहितत्वं च तद्विनाशेनैव नाऽवर्तत किल ? सिद्धार्थोऽधुनैतदपि स्पष्टतया ज्ञातवान् यद् यदा स ब्राह्मणः श्रमणश्चाऽऽसीत् तदा तस्याऽनेन स्वत्वेन सङ्घर्षः किमर्थं विफलो भवति स्मेति । ज्ञानाधिक्येन, पवित्रमन्त्रोच्चारणाधिक्येन, यागादिकर्माधिक्येन, तपश्चर्याधिक्येन, एवं च सर्वत्राऽतिकरणेनाऽतिप्रवृत्त्या च स बद्धः प्रतिरुद्धश्च जात आसीत् । स हि सर्वदा, चतुरतमः सर्वदाऽन्येभ्यः पदमेकं वाऽप्यग्रे तिष्ठन्, सर्वथा सोत्साहः, सर्वदा ज्ञानी प्रज्ञावांश्च, सर्वदा च याजकः पण्डितश्च भवनत्यन्तं दध्मिातो जात आसीत् । तस्य स्वत्वं तस्य याजकत्वे, दर्प, ज्ञानोत्कर्षे चोपसपितमासीत् । ततश्च तपसा दुःखसहनेन च तस्य विनाशं चिन्तयति सिद्धर्थे तद् गाढतया स्थितं वृद्धिं च गतमिदानीं तेनाऽवबुद्धम्, इदमपि च, यन्न कोऽपि गुरुस्तं निर्वाणं प्रापयितुं मुक्तं वा कर्तुं समर्थः इति कथयन्नन्तः स्थितो ध्वनिः सर्वथाऽवितथोऽस्तीति । एतदर्थमेव - तस्य हृदये हठात् प्रविष्टो याजकः श्रमणश्च म्रियेत - इत्येतदर्थमेव तस्य संसारे गमनं, तत्रापि, चैश्वर्ये स्त्रियां धने च स्वविलोपनं, वाणिज्यकरणं, द्यूतखेलनं, मद्यपानं, परिग्रहकरणं च समभवत् । तथैतदर्थमेव हि च तेनैतावन्ति दुःखजनकानि वर्षाणि यापितानि, निर्वेदः सोढः, शून्यस्य भङ्गरस्य च ८२ For Personal & Private Use Only Page #92 -------------------------------------------------------------------------- ________________ जीवनस्य मौर्यपूर्णतायाः पाठोऽवसानं यावत्, कटुकनैराश्यावाप्तिं यावच्च तेन शिक्षितो येन सुखगवेषकः परिग्रही च सिद्धार्थो नाशं प्राप्नुयात्, मृतो भवेत् । इदानीं स मृत आसीत् तत्स्थाने च गाढनिद्रातो जागृतोऽन्य एव सिद्धार्थं उद्भूत आसीत् । सोऽपि वृद्धो भूत्वा मरिष्यति । यतः सिद्धार्थो नश्वर आसीत्, सर्वाण्यपि स्वरूपाणि नश्वराणि आसन् । एवं सत्यपि अद्य स तारुण्येऽथवा बाल्ये वर्तमानो नूतनः सिद्धार्थ आसीत्, सर्वथा च सन्तुष्टः । एतादृशा विचारास्तस्य मस्तिष्के व्याप्ता आसन् । ततः स्मयमान स स्वोदरध्वनि श्रुतवान्, सकार्तश्यं च मधुमक्षिकाणां गुञ्जनं श्रुतवान् । ततः ससन्तोषं स प्रवहन्ती नदी विलोकितवान् । न कयाऽपि नद्या स तथाऽऽकृष्टोऽभवत् यथाऽनया । तथा न कदाऽपि प्रवहतो नीरस्य कलकलनादः स्वरूपं च तस्यैतादृशं मनोज्ञमभासत । नदी हि तस्य विशिष्टं किञ्चित् कथयन्तीव प्रतिभाता, तादृशं किञ्चित् यत् स नैव जानाति, यच्च तमद्याऽपि प्रतीक्षते । सिद्धार्थो हि नद्यामस्यां निमज्ज्य मर्तुमैच्छत् । अथ च स वृद्धः श्रान्तो हताशश्च सिद्धार्थोऽद्याऽस्यां नद्या पतित्वा निमग्न आसीत् । नूतनः सिद्धार्थस्तु प्रवहमानमेनं नीरं प्रति गाढानुरागं समन्वभवत् निरचिनोच्च यदितः स्थानान्नाऽचिरेण गन्तव्यमिति । ८३ For Personal & Private Use Only Page #93 -------------------------------------------------------------------------- ________________ ५. नाविकः 'अहमत्रैव, नद्यास्तीर एव वत्स्यामि', सिद्धार्थश्चिन्तितवान् । 'सैवैषा नदी यामहं नगरगमनकालेऽतिक्रान्तवान् । एकः सौहार्दपूर्णो नाविको मामस्याः पारं प्रापितवान् । अहं तत्समीप एव गमिष्यामि । एकदा हि तस्य कुटीरान्नवं जीवनं प्रति मम पन्थाः प्रारब्ध आसीत् । तच्च जीवनमिदानीं जीर्णं विनष्टं चाऽस्ति । अथ च भवतु नाम मे इदानींतनः पन्थाः, नूतनं च जीवनं तत्कुटीरादेव पुनः प्रारभ्यताम् !'। स प्रसन्नतया जलप्रवाहं, तस्य स्वच्छं हरितवर्णं, तथाऽद्भुतसंरचनापूर्णास्तस्य स्फटिकप्रभा रेखा निरीक्षितवान् । जलतलादुत्थिता प्रोज्ज्वलमौक्तिका इव जलबुदबुदा दर्पणवत्स्वच्छ जले तरन्त आसन् नीलवर्णमनन्ताकाशं च तेषु प्रतिबिम्ब्यते स्म । नदी किल तं प्रति लोचनसहौः - हरित-शुक्ल-नीलवर्णेविलोकयन्तीवाऽभासत । स नद्यां कियत् स्निह्यति स्म ! नद्यपि तं कियदाकृषति स्म ! नद्यै स कियत् कार्तश्यं वहति स्म ! तस्याऽन्तःकरणान्नूतनतयोत्थितो ध्वनिस्तं प्रेरयन्नासीत् – 'नद्यामेतस्यां स्निह्यतु, एतस्यास्तटे एव वसतु, नदीसकाशाच्च शिक्षताम्' । 'आम्' - तेनोक्तम् । स नद्याः सकाशाच्छिक्षितुमिच्छति स्म, स तां श्रोतुमिच्छति स्म । यः कोऽपि नदीमेनां तद्रहस्यानि चाऽवबुध्यति स बह्ववबोटुं शक्नोति; बहूनि रहस्यानि, ननु सर्वाण्यपि रहस्यानि तस्य कृते समुद्घाटितानि भवन्तीति तस्य प्रतिभातम् । परमद्य तु स नद्या केवलमेकतमद् रहस्यं वीक्षितवान्, तद् रहस्यं येन तस्याऽऽत्मा दृढतया धारितः । तेन निरीक्षितं यन्नदीजलं सातत्येन प्रवहमानमपि प्रतिक्षणं विवक्षितप्रदेशे उपस्थितमप्यासीत् । तद्धि सर्वदा समानमेव भवदपि प्रतिक्षणं नूतनमेवाऽभवत् । को वैतदवबुध्येताऽवधारयेद् वा? स स्वयमपि तन्नैवाऽवबुद्धवान्, केवलमव्यक्तो विकल्पोऽस्पष्टा स्मृतिदिव्याश्च ध्वनयस्तन्मनो व्याप्नुवन्ति स्म । सिद्धार्थोऽभ्युत्थितवान् । क्षुत्पीडेदानीमसह्या जायमानाऽऽसीत् । यथाकथमपि तां सहमानः स नदीतटे भ्रमन्नासीत्, जलतरङ्गाणां कलकलध्वनि शृण्वन्, स्वशरीरे जायमानं तीव्रक्षुद्वेदनाध्वनिं च शृण्वन् । ___ यदा स घट्ट प्राप्तस्तदा तरणनौका तत्रैवाऽऽसीत्, तथा नाविको, येनैकदा तरुणः श्रमणः पारं प्रापितः, सोऽपि नौकायामुपविष्ट आसीत् । सिद्धार्थस्तं प्रत्यभिज्ञातवान् । सोऽपि च वयस्को जात आसीत् । 'किं भवान् मां नदीपारं प्राययिष्यति ?' सिद्धार्थः पृष्टवान् । कञ्चन विशिष्टव्यक्तित्वशालिनं जनमेकाकिनं पादचारिणं च दृष्ट्वा विस्मितो नाविकस्तं नावि ८४ For Personal & Private Use Only Page #94 -------------------------------------------------------------------------- ________________ उपवेश्य प्रस्थितः । भवता श्रेष्ठं जीवनं चितमस्ति खलु !' – सिद्धार्थ उक्तवान्, 'नद्याः समीपेऽवस्थानं प्रत्यहं च तस्यां नौचालनं ह्यवश्यं शोभनं प्रमोदप्रदं च स्यान्ननु !'। मृदुतया नावं प्रेरयन् नाविक ईषत् स्मितवान् कथितवांश्च – 'भवत्कथनानुसारमेतत्त्ववश्यं शोभनमस्ति महोदय !। किन्तु, सर्वं जीवनं सर्वमपि च कार्यं शोभनमेव नास्ति खलु ?' । 'स्यादेव भोः !, परन्तु मम भवतो भवदीयकार्यस्य चेा भवति' । 'अहो ! एवं वा । परं सद्य एवेतो भवतो रुचिः क्षीणा भविष्यति । यत एतज्जीवनं कार्यं चैतन्नास्ति महाघवस्त्रधारिणां जनानां कृते' । सिद्धार्थ उच्चैर्हसितवान् । 'प्रागेवाऽद्याऽहं वस्त्राण्यधिकृत्य प्रमाणितोऽस्मि ततश्च सन्देहास्पदं जातोऽस्मि । किं भवान् मे वस्त्राणि स्वीकरिष्यति ? यतस्तान्यधुना मत्कृते क्लेशस्यैव हेतुभूतानि सन्ति । यतश्च मया वक्तव्यमेव भवतो, यन्नदीपारप्रापकाय भवते दानार्थं मत्पार्वे न किञ्चिदपि धनमस्ति' । 'आर्य उपहासं कुर्वन्नस्ति' इति वदन् नाविको हसितवान् । _ 'मित्र ! नाऽहमुपहसामि । भवान् हि पूर्वमप्येकदा मामेतस्या नद्यास्तीरान्तरं प्रापितवान्, निःशुल्कम् । अतः कृपयाऽद्याऽपि तथैव प्रापयतु, अथवा तच्छुल्करूपेण मम वस्त्राणि गृह्णातु' । 'ततः किमार्यो वस्त्रैर्विनैव प्रस्थानमनुवर्तयिष्यते वा ?' - 'मम ततोऽप्यने गन्तुमिच्छैव नाऽस्ति । अहमिच्छामि यद् - भवान् मे कानिचन जीर्णवस्त्राणि दद्याद् मां चाऽत्र भवतः सहायकत्वेन शिष्यत्वेन वा स्थातुमनुमन्येत, यतोऽहं नौचालनं शिक्षितुमिच्छामि' । नाविक आगन्तुकमेनं सूक्ष्मतया सुचिरं निरीक्षितवान् । 'अहं भवन्तं प्रत्यभिजानामि' – अन्ते सोऽकथयत् । 'भवानेकदा मम कुटीरे शयितवान् खलु !। किन्तु तद्धि बहुकालपूर्वमेव घटितम् । प्रायो विंशतिवर्षाणि ततोऽपि वाऽधिको कालो व्यतीतः स्यात् तस्य । अहं भवन्तं नद्यास्तीरान्तरं प्रापितवान्, ततश्चाऽऽवां सुहृदौ भूत्वा वियुक्तावभवताम् । किं भवान् कश्चन श्रमणस्तु नाऽऽसीत् खलु ? अहं भवदभिधानं नैव स्मरामि' । 'मम नाम सिद्धार्थ इत्यस्ति । पुरा यदा भवान् मां दृष्टवान् तदाऽहं श्रमण आसम्' । ___ 'भवतः स्वागतमस्ति सिद्धार्थ ! । ममाऽभिधानं वासुदेव इत्यस्ति । अद्य भवान् मेऽतिथीभूय मत्कुटीरे निवत्स्यसि शयिष्यते चेत्याशासेऽहम् । भवान् कुत आगतोऽस्ति किमर्थं च महाघवस्त्राणां निर्विण्णोऽस्ति - इति भवान् मां कथयिष्यतीत्यप्याशासे' । _एतावता च नौर्नदीमध्यं प्राप्ताऽऽसीत् । इदानीं वासुदेवो जलप्रवाहस्य क्षिप्रत्वात् नौदण्डमपि वेगेन चालयन्नासीत् । स नावः पर्यन्तभागं पश्यन् दृढतयाऽप्यव्याकुलतया नावं चालितवान् । ८५ For Personal & Private Use Only Page #95 -------------------------------------------------------------------------- ________________ नौकायामुपविष्टः सिद्धार्थस्तं नावं चालयन्तं विलोकितवान् स्मृतवांश्च यत् - कथं स एकदा, श्रामण्यस्याऽन्तिमदिनेषु पुरुषमेनं प्रति प्रगाढमाकर्षणमनुभूतवानासीदिति । स वासुदेवस्याऽऽमन्त्रणं सहर्ष स्वीकृतवान् । यदा तौ नदीतटं प्राप्तौ तदा स नौकां सुरक्षिततया स्थापयितुं वासुदेवस्य साहाय्यं कृतवान् । ततो वासुदेवस्तं स्वकुटीरेऽनयत्, तस्मै चाऽऽहारं जलं चाऽदात् । सिद्धार्थस्तमाहारं जलं च वासुदेवप्रदत्ताम्रफलेन सह ससन्तोषमशितवान् । ततः, सूर्यास्तमनवेलायां तौ द्वावपि नदीतीरस्थितस्य वृक्षस्कन्धस्योपरि निषण्णावास्तां, तदा च सिद्धार्थो वासुदेवाय मूलादारभ्य स्वजीवनस्य सर्वमपि वृत्तं कथितवान् तथाऽद्याऽपि प्रवृत्तस्य विषादमयमुहूर्तस्याऽनन्तरं स कथं तं प्राप्तवानित्यादि सर्वं कथितवान् । निशीथं यावत् तयोर्गोष्ठी प्रवृत्ता। __ वासुदेवोऽपि च स्थिरतया सर्वथैकाग्रतया च सर्वमपि तत्कथनं श्रुतवान् । तस्य जन्म शैशवमध्ययनं साधनां विषयसुखान्यपेक्षाश्चाऽधिकृत्य सर्वमपि तद्वृत्तं स श्रुतवान् । वासुदेवस्याऽयं श्रेष्ठो गुण आसीद् यो विरलजनेष्वेव दृश्यते - सः श्रोतुं जानाति स्म । एकमपि शब्दमनुच्चारयन्नपि स तथा शृणोति स्म यथा कथयितुः प्रतीतिर्भवति स्म यत् स प्रत्येक शब्दं कर्णाभ्यां गृहीत्वा हृदये धारयन्नस्ति, शान्त्या धैर्येण श्रवणोत्सुकतयैकमपि च शब्दमजहद् - इति । श्रवणे स सर्वथाऽधृतिं त्यजति स्म, न कुत्राऽपि प्रशंसां निन्दां वा करोति स्म, केवलं शृणोति स्मैव । 'स्वजीवने स्वीयप्रयत्नेषु स्वकीयदुःखेषु च सहभागितां वहन्नीदृशः श्रोता प्राप्तो मया - इत्येतत् कियदद्भुतं सञ्जात'मिति सिद्धार्थश्चिन्तितवान् । कथनान्ते, यदा सिद्धार्थो नदीतटस्थितस्य वृक्षस्य, सर्वथा विषण्णस्य स्वस्य, पवित्रस्यौङ्कारस्य, च विषये, तथा गाढनिद्रानन्तरं तेनाऽनुभूतस्य नदी प्रति प्रेम्णो विषये कथितवान् तदा तु वासुदेव इतोऽप्यधिकं सावधानीभूय नेत्रे च निमील्य पूर्णतयैकाग्रो भूत्वा तं श्रुतवान् । सिद्धार्थेन स्ववृत्तकथने समर्थिते दीर्घान्तरालं मौनेन व्यतीय वासुदेवस्तमुक्तवान् – 'तथैव जातं यथा मया चिन्तितम् । नदी भवता सह संवादं कृतवती, सा भवति सौहार्दमपि प्रकटितवती, सा भवता सह भाषते । एतच्च सर्वथा शोभनमस्ति । भवान् मया सहैव वसतु, मित्र ! । पुरा ममाऽपि पत्नी आसीद् या मया सहैवाऽत्र कुटीरे निवसति स्म । किन्तु बहोः कालात् पूर्वमेव सा मृता । तत्प्रभृत्यहमेकल एव जीवामि । इदानीं भवान् यदागतस्तच्छुभमेव । अत्र कुटीरे भवान् मया सहैव निवसतु । उभयोरप्यावयोः कृतेऽत्र पर्याप्त स्थानमन्नं चाऽस्ति' । __ 'भृशमुपकृतोऽस्मि' – सिद्धार्थ उक्तवान् । 'उपकृतोऽस्म्यहं भवदामन्त्रणं च स्वीकरोमि । तथा वासुदेव ! यद् भवता स्थैर्येणैकाग्रयेण च मम कथनं श्रुतं तदर्थमप्युपकृतोऽस्ति । अत्र जगति विरला एव जना श्रोतुं जानन्ति । मया चाऽद्ययावदपि भवादृशः श्रोता न लब्धः । भवतः सकाशादहमपि श्रवणकलामेनां शिक्षिष्ये'। वासुदेवेनोक्तम् – 'अवश्यं भवान् शिक्षिष्यते, परं न मत्सकाशात् । नद्येषा मां शिक्षितवत्यस्ति श्रोतुम् । भवानपि तत एव शिक्षिष्यते । नदी हि सर्वमपि जानाति, तथा यः कोऽपि ततः सर्वमपि शिक्षितुं For Personal & Private Use Only Page #96 -------------------------------------------------------------------------- ________________ शक्नोति । भवताऽपि तस्याः सकाशात् सयत्नं निमज्जनमगाधे चाऽवगाहनं शिक्षितमेव खलु ! । तथा, धनिकः प्रतिष्ठितश्च सिद्धार्थो नौकाचालको भविष्यति, विद्वान् ब्राह्मणः सिद्धार्थो नाविको भविष्यति - इत्येतदपि भवान् नदीसकाशादेव शिक्षितवान् खलु ! । इतोऽप्यधिकं ततो बढेव शिक्षिष्यते भवान्' । ततो दीर्घमौनानन्तरं सिद्धार्थः पृष्टवान् – 'किं तद् वासुदेव ! ?' वासुदेव उत्थितः । 'रात्रिर्बहु व्यतीताऽस्ति' - स उक्तवान् । 'अधुना शयावहे । यच्च भवान् पृच्छति तस्योत्तरं दातुमहं न शक्तो मित्र ! । भवान् यथाकालं तज्ज्ञास्यत्येव, अथवा भवान् तज्जानात्येव । तथाऽहं किल विद्वज्जनो नाऽस्मि, भाषितुं विचारयितुं वा च नैव जानामि । अहं केवलं श्रोतुं भगवन्निरतश्च भवितुं जानामि । अन्यद्धि मया किञ्चिदपि नैव शिक्षितमस्ति । यद्यहं भाषितुं शिक्षयितुमुपदेष्टुं वाऽशक्ष्यंस्तदाऽहं गुरुरुपदेशको वाऽभविष्यम् । किन्तु तथा नास्ति, यतोऽहं केवलमेको नाविकोऽस्मि, मम कार्यं तु जनानां नदीपारप्रापणमस्ति । मया हि सहस्रशो जना नदीपारं प्रापिताः सन्ति, किन्तु तेषां सर्वेषामपि जनानां नद्येषाऽन्तरायरूपैव जाताऽस्ति, नाऽन्यत् किञ्चित् । जना हि धनार्थं वाणिज्यार्थं विवाहाद्यर्थं यात्रार्थं वा पर्यटिताः, तदा च नद्येषा तेषां मध्येमागं समागता, नाविकश्च तानवरोधभूतामेनां त्वरया तारयितुं विद्यमान आसीत् । यद्यपि सहस्रशो जनेषु केचन, पञ्च-षा जनास्तादृशा अप्यासन् येषां कृते नद्येषाऽवरोधरूपा नाऽऽसीत् । ते एतस्या ध्वनि श्रुतवन्तस्तं प्रति च सकर्णा जाताः । तेषां कृते चैषा नदी पवित्राऽस्ति यथा मत्कृते । अधुना शयेवहि सिद्धार्थ !' । सिद्धार्थो नाविकेन सहैवोषितवान्, नौचालनं नौसम्भालनं च शिक्षितवान् । नौसम्बन्धिनि कार्ये चाऽसति स वासुदेवेन सह व्रीहिक्षेत्रे कार्यं करोति स्म, काष्ठानि सगृह्णाति स्म, फलावचयं च करोति स्म । स नौकादण्डान् निर्मातुं, नावं संस्कारयितुं, करण्डकांश्च रचयितुं शिक्षितवान् । यद्यत् स कृतवान् शिक्षितवांश्च तत्सर्वेणाऽपि स सन्तुष्ट आसीत् । कालश्च त्वरितं व्यत्येति स्म । परं स वासुदेवसकाशाद् यच्छिक्षितवांस्ततोऽप्यधिकं नद्याः सकाशाच्छिक्षितवान्, सततं च शिक्षितवान् । सर्वस्मादप्यधिकं तु स ततः सकाशात् श्रोतुं, निश्चलचित्ततया श्रोतुं, जिज्ञासापूर्णेनोद्घाटितेन च हृदयेन, अनासक्ततया, निरीहतया, अपरीक्षकतया अभिप्रायमुक्ततया च श्रोतुं शिक्षितवान् । . स वासुदेवेन सह सुखेन निवसति स्म । तौ द्वावपि च कादाचित्कतयैव सम्भाषेते स्म, तदपि चाऽल्पैर्दीर्घालोचनपूर्णैश्चैव शब्दैः । वासुदेवो हि सर्वथा मितभाषी आसीत्, सिद्धार्थश्च विरलतयैव तं भाषयितुं समर्थो भवति स्म । एकदा स तं पृष्टवान् – “किं भवताऽपि नद्याः सकाशाद्रहस्यमेतच्छिक्षितं यत् - कालनामकं किमपि वस्तु नास्त्येवेति खलु ?' श्रुत्वैतद् वासुदेवस्य मुखे प्रोज्ज्वलं स्मितं व्याप्तम् । तेनोक्तम् – 'एवं सिद्धार्थ !, परं मन्येऽहं यद् भवतः कथनस्याऽयमेव भावार्थः स्यात्, यथा - नदी हिं समकालमेव सर्वत्र वर्तते - उद्गमस्थाने, For Personal & Private Use Only Page #97 -------------------------------------------------------------------------- ________________ मुखे, प्रपाते, घट्टे, प्रवाहे, समुद्रे, पर्वते चेति सर्वेष्वपि स्थानेषु; तथा तस्याः कृते केवलं वर्तमानकाल एव विद्यते, भूतकालस्य भविष्यत्कालस्य च छायाऽपि तस्यां नैव पततीति ?' _ 'एवमेव' – सिद्धार्थोऽब्रवीत्, 'यदा चाऽहमेतज्ज्ञातवान्, मया मे जीवनमपि समीक्षितं, तदपि च नदीतुल्यमेवाऽवर्तत । बालः सिद्धार्थः, प्रौढः सिद्धार्थो वृद्धश्च सिद्धार्थः केवलं छायाभिरेव भिद्यन्ते न पुनस्तत्त्वतः । अतीते सिद्धार्थस्य पूर्वजन्मान्यपि नाऽऽसन् भविष्यति च तस्य मरणं ब्रह्मणि च तन्निवर्तनमपि नाऽस्ति । अतीतं नामाऽनागतं च नाम न किमपि विद्यते, प्रत्येकं वस्तु केवलं वर्तमानमेवाऽस्ति, वर्तमान एव च वास्तविकोऽस्ति' । ___ सिद्धार्थोऽतीव प्रसन्नतया वदन्नासीत् । अनयोपलब्ध्या स भृशं प्रमुदित आसीत् । 'जीवनस्य सर्वमपि दुःखं, भयं, सन्तापश्च काले एव निहिता नाऽऽसन् खलु ? जगतः सर्वाण्यपि कष्टानि पापानि च काले जिते एव, काले निरस्ते एव वा न जितानि खलु ?' - स सोत्साहं वदन्नासीत्, किन्तु वासुदेवः केवलं मधुरं स्मित्वा स्वशिरश्चालितवांस्तदभ्युपगमदर्शनार्थं, स्वकार्ये च प्रवृत्तः । यदा च प्रावृषि नद्यां पूरं समागतं तरङ्गमालाकुला च सोच्चैर्जगर्ज तदा सिद्धार्थः पुनरप्यकथयत् - 'किं नैतत् तथ्यं मित्र ! यन्नद्येषा बहून् ध्वनीन् धारयति ? राज्ञो, योधस्य, गोः, पक्षिणो, गर्भवत्याः स्त्रियो, निःश्वसतो जनस्य सहस्रशश्चाऽन्ये ध्वनयोऽस्यां न सन्ति खलु ?' ___'सत्यमेतद् भोः !', वासुदेवः शिरश्चालनपूर्वं कथितवान् – 'नद्यामस्यां सर्वेषामपि जीवानां ध्वनयः सन्त्ये व' । 'तथा जानाति भवान् ननु, यद् - यदाकदाचित् कश्चन तस्याः सहस्रशो-ध्वनीन् समकालमेव शृणोति तदेयं किमुच्चारयति ?' – सिद्धार्थोऽग्रेऽपृच्छत् । वासुदेव उच्चैर्हसितवान् । ततः स सिद्धार्थं प्रति किञ्चिदवनम्य तस्य कर्णे पवित्रमोङ्कारमुच्चारितवान् । एतदेव च तदासीद् यत् सिद्धार्थेनाऽपि श्रुतम् । गच्छता कालेन सिद्धार्थमुखे विलसत्स्मितं वासुदेवस्मितमनुकर्तुमारब्धम् । तदेव तेजस्तदेव सुखं, ता एव च प्रकाशिता मुखरेखाः, तदेव च बालसहजं मौग्ध्यं, तदेव च वृद्धजनोचितं गाम्भीर्यम् । बहवः प्रवासिनस्तौ द्वावपि नाविको सङ्गतौ दृष्ट्वा 'भ्रातरावेता'विति निश्चिन्वन्ति स्म । बहुधा सायाह्ने तौ द्वौ सममेव नदीतटे वृक्षस्कन्धमवलम्ब्योपविशतः स्म । ततो निःशब्दतया द्वावपि नदीं शृणुतः स्म । नद्येषा तयोः कृते न केवलं जलमासीदपि तु जीवनस्याऽऽत्मनः शाश्वततत्त्वस्य च ध्वनिरासीत् । बहुशश्चैवमपि भवति स्म यन्नदीश्रवणकाले द्वयोरपि चिन्तनं तुल्यमेव भवति स्म, कदाचित् पूर्वतनदिनस्य संवादविषयकं, कदाचिच्च कञ्चन प्रवासिनमधिकृत्य वा - यस्य स्थित्या नियत्या च तयोश्चित्तमाक्रान्तं स्यात्, कदाचिन्मरणविषयकं, कदाचिच्च बाल्यमाश्रित्य । तथा यदा नदी तौ सममेव किञ्चन शुभं वदति स्म तदा द्वावपि परस्परं पश्यतः स्म, तुल्यमेव विचारं कुर्वन्तौ, तुल्यस्यैव प्रश्नस्य च तुल्यमेवोत्तरं लब्ध्वा प्रमुदितौ भवतः स्म । ८८ For Personal & Private Use Only Page #98 -------------------------------------------------------------------------- ________________ बहुभिः प्रवासिभिरनुभूयते स्म यन्नावो नाविकाभ्यां च किञ्चनाऽद्भुतं तत्त्वं निःसरति स्मेति । कदाचित् त्वेवमपि भवति स्म यद् द्वयो विकयोरन्यतरस्य मुखं दृष्ट्वा कश्चन यात्रिकः स्वजीवनस्य विषये, विपदश्चाऽधिकृत्य कथनमारभते स्म, स्वकृतानि पापानि निवेदयति स्म, आश्वासनार्थमनुशासनार्थं वा प्रार्थयते स्म । कदाचित् पुनः, कश्चन नद्याः कथनं श्रोतुं तयोः सान्निध्ये रात्रियापनार्थमपि चाऽनुज्ञां गृह्णाति स्म । कदाचिच्च केचन कुतूहलिनो - द्वौ प्राज्ञौ साधुचरितौ योगिनौ वा नदीघट्टे वसत - इति कुतश्चिच्छ्रुत्वा समायान्ति स्म, तौ च बहून् प्रश्नानपि पृच्छन्ति स्म, किन्तु न किञ्चन प्रत्युत्तरं लभन्ते स्म नाऽपि च प्राज्ञौ योगिनौ वाऽप्युपलभन्ते स्म । केवलं द्वौ सौहार्दपूर्णौ वृद्धजनौ ते पश्यन्ति स्म यौ तेषां मूकावथ च विचित्रौ मूखौ च प्रतिभातः स्म । ततश्चोपहसन्तस्ते कथयन्ति स्म यदीदृशान् निरर्थकान् प्रवादान् प्रसारयन्तो जनाः नूनं मूर्खा अन्धश्रद्धालवश्च सन्तीति ! ।। वर्षाणि व्यतीतानि किन्तु द्वयोरन्यतरोऽपि तेषां गणनां नैव कृतवान् । अथाऽन्यदा गौतमबुद्धस्य शिष्याः केचन भिक्षवो नदीतटे समागता नदीपारप्रापणार्थं च तयोविज्ञप्तं तैः । नौचालनसमये भिक्षूणां सकाशात् ताभ्यां ज्ञातं यन्महात्मा बुद्धो गभीरतया रुग्णोऽस्ति, अचिरादेव च चरमं मरणं नाम निर्वाणं प्राप्य मोक्षं प्राप्स्यतीति, अतस्ते यथाशीघ्रं तत्र स्वगुरुचरणयोरन्तिमं दर्शनमुपदेशं च प्राप्तुं गच्छन्तः सन्तीति । ततश्चाऽल्पेनैव कालेन बहवः श्रमणगणास्तेनैव मार्गेण स्वगुरोः पार्श्वे गन्तुं समागताः । प्रायशः सर्वेऽपि भिक्षवो यात्रिणश्च केवलं गौतमबुद्धस्य विषये तन्निर्वाणस्य विषय एव च वदन्त आसन् । युद्धार्थं प्रयाणस्य समये राज्याभिषेककाले वा यथा जना सर्वदिग्भ्यः समागच्छन्ति, यथा वा मधुकोशं प्रति मधुमक्षिकाणां सङ्घाताः समागच्छन्ति, तथैव सहस्रशो जनाश्चुम्बकीयमाकर्षणमनुभवन्त इव मृत्युशय्यायां शयितं बुद्धं वन्दितुं, तन्निर्वाणोत्सवे सम्मीलितुं, युगोद्धारकस्य शाश्वततत्त्वप्राप्तेरवसरे च सन्निहिता भवितुं समागच्छन्ति स्म । निर्वाणोन्मुखस्याऽस्य महर्षेविषये सिद्धार्थश्चिराय चिन्तितवान्, यस्य वचनानि सहस्रशो जनानां जीवनानि परावर्तितवन्ति, यस्य च वचांसि स स्वयमप्येकदा श्रुतवानासीत्, यस्य च पवित्रं स्वरूपं सोऽहोभावेन दृष्टवानासीदेकदा । स तस्य वात्सल्यस्य विषये चिन्तितवान्, तेन प्ररूपितं निर्वाणमार्गोपदेशं स्मृतवान् । तस्य प्रतिभातं यत् तदा तेनोच्चारितास्ते शब्दाः किलौद्धत्यपूर्णा अकालपक्वा इव चाऽऽसन् । स स्मृतवान् यद् दीर्घकालं यावद् गौतमस्य प्रभावान्मुक्तो भवितुमपि स नाऽशकत् । एवं सत्यपि स तस्योपदेशांस्तु नैव स्वीकृतवान् । नैव, वास्तविकः सत्यगवेषको हि कदाऽपि कस्याऽप्युपदेशं नैव स्वीकुर्याद्, यदि स यथार्थतया किञ्चित् प्राप्तुमिच्छुकः स्यात् । येन च किन्तु किञ्चित् प्राप्तमस्ति स तु सर्वानपि मार्गान् सर्वाण्यपि च ध्येयानि समनुमोदते, यतः स जानात्येव यत् शाश्वततत्त्वं ये प्राप्ता ये च पूर्णानन्दमेव श्वसन्ति ते हि सर्वथाऽभिन्ना एव । अथैकदा, बहुषु जनेषु निर्वाणोन्मुखस्य बुद्धस्य दर्शनार्थं गच्छत्सु, पूर्वकालस्य गणिकानां श्रेष्ठा सुन्दरी कमलाऽपि तदर्थं निर्गताऽऽसीत् । बहोः कालात् पूर्वमेव सा स्वस्याः पूर्वतनजीवनान्निवृत्ताऽऽसीत् । ८९ For Personal & Private Use Only Page #99 -------------------------------------------------------------------------- ________________ निजं क्रीडोद्यानं सा बौद्धभिक्षूणां विहारार्थं समर्पितवत्यासीत्, स्वयमपि च बुद्धोपदेशानां शरणं गृहीतवत्यासीत् । सम्प्रति च यात्रिणां सेवां कुर्वतीनां स्त्रीणां गणे सम्मिलिताऽऽसीत् । मरणशय्यास्थितं गौतमं ज्ञात्वा साऽपि सामान्यवस्त्राणि परिधाय पादचारेणैव स्वपुत्रेण सह प्रस्थिता । जनैः सह तौ द्वावपि नदीतटं यावत् प्राप्तौ । किन्तु स बालकोऽचिरादेव श्रान्तोऽभवत्, स गृहं प्रतिगन्तुमैच्छत्, विश्रान्तिमैच्छत्, खादितुं चैच्छत् । स वारं वारं रुष्टो भवति स्माऽश्रूणि च स्रावयति स्म । अनेकशः कमलया तेन सह विश्रान्तव्यं भवति स्म । मातुविरोधं कर्तुमसौ चिराभ्यस्त आसीत् । कमलया वारं वारं स भोजयितव्य आसीत्, आश्वासयितव्य आसीत्, कदाचिच्चोपालब्धव्योऽप्यासीत् । कस्यचित् पवित्रस्याऽप्यपरिचितस्य जनस्य कृते कस्मिंश्चिदज्ञाते स्थले गन्तुं खेदावहा कष्टपूर्णा च यात्रा किमर्थं वा कर्तव्येति सोऽवगन्तुं न पारयति स्म । 'म्रियतां नाम सः । तेन बालकस्य मम किम् ?' इति तस्य चिन्तनमासीत् । ___ यदा यात्रिकाणां गणो वासुदेवनौकातोऽनतिदूरे आसीत् तदैव लघुसिद्धार्थः स्वमातरमवदद् यत् स विश्रान्तुमिच्छतीति । कमला स्वयमपि श्रान्ताऽऽसीत् । अतः स बालकाय कदलीफलं खादितुं दत्त्वा स्वयं चैकस्य वृक्षस्याऽधस्तान्नेत्रे निमील्य किञ्चिदिव शयिता। किन्तु, सहसैव तस्या मुखाच्चीत्कारो निर्गतः । एतच्छ्रुत्वा चकितो बालो यावन्मातुर्मुखं विलोकितवान् तावत् तद् भयेन विच्छायं दृष्टम् । तावता च तस्या वस्त्रेभ्यः कश्चन लघुः कृष्णसर्पो निर्गतो येन कमला दष्टाऽऽसीत् ।। ____ ततो भयभीतौ तौ द्वावपि ततो धावित्वा यात्रिकगणेन सम्मिलितौ । यदा च तौ घट्ट प्राप्तौ तदैव कमलाऽग्रे गन्तुमशक्ता सती तत्रैव पतिता । एतेन भीतो बालको मातरं परिष्वज्य सहायार्थमुच्चैरारटितवान् । साऽपि चोच्चै रुदती सहायार्थं पूत्कृतवती । तयोश्चाऽऽरावा नौकासन्नस्थितेन वासुदेवेन श्रुताः । स झटिति तत्राऽऽगत्य कमलां स्वीयहस्ताभ्यां वहन् कुटीरं प्रति गतः । बालकोऽपि तत्पृष्ठत एव धावितः, शीघ्रं च ते उटजं प्राप्ताः । इन्धनानि प्रज्वालयन् सिद्धार्थस्तत्रैवाऽऽसीत् । तेन मुखमुन्नम्य प्रथमं तु बालकवदनं दृष्टम् । दृष्टमात्रे च तस्मिन् तन्मनसि किञ्चित् स्मरणमभवत् । ततश्च स वासुदेवहस्तयोः स्थितां कमलां दृष्टवान् शीघ्रमेव च तां निःसञ्जामपि प्रत्यभिज्ञातवान् । ततश्च तेन ज्ञातं यत् स बालस्तु स्वस्यैवाऽपत्यमासीत् यन्मुखं तस्य किञ्चित् स्मारितवत् । तस्य हृदयस्पन्दनानि वर्धितानि । कमलाया व्रणं जलेन स्वच्छीकृत्यौषधेन पूरितम् । किन्तु तत् कृष्णवर्णं जातमासीत्, तस्याः शरीरमपि च शोथमयं सञ्जातमासीत् । तस्या मुखे चेतनप्रदमौषधं प्रक्षिप्तं, तेन साऽल्पवेलायामेव ससञ्जा जाता । सा कुटीरे सिद्धार्थशय्यायामेव शयिताऽऽसीत्, तथा सिद्धार्थो, यस्मिन् सा पूर्णतयाऽनुरक्ताऽऽसीत्, स, तत्पुरत एव स्थितो दृष्टस्तया । ___'किमहं स्वप्नं पश्यामि वे'ति चिन्तयन्ती सा स्मयमाना स्वदयितस्य मुखं विलोकितवती । शनैः शनैस्तया स्वपरिस्थितिरवबुद्धा, सर्पदंशोऽपि स्मृतः, ततश्च व्याकुलतया सा स्वपुत्रमाहूतवती । 'चिन्तां मा कार्षीः, सोऽत्रैवाऽस्ति' – सिद्धार्थ उक्तवान् । तन्नयनयोरन्तनिरीक्षितवती सा विषमयशरीरवत्त्वात् कष्टेनाऽवदत् - 'भवान् वृद्धो जातोऽस्ति ९० For Personal & Private Use Only Page #100 -------------------------------------------------------------------------- ________________ प्रिय !, भवतः केशा अपि पलिताः सञ्जाताः । एवं सत्यपि भवान् तस्य युवश्रमणस्य सदृश एवाऽसि य एकदा विवस्त्रो रजोगुण्डितपादश्च ममोद्याने समायातः । कामस्वामिनं मां च विहाय यदा भवान् गतवांस्ततोऽप्यधुना भवानाधिक्येन श्रमणवत् प्रतिभाति । भवतो नेत्रे तस्य युवश्रमणस्येवैव स्तः सिद्धार्थ ! । अहमपि वार्धक्यग्रस्ता सञ्जाताऽस्मि, किं भवान् मां प्रत्यभिजानाति ?' सिद्धार्थः स्मितवान् कथितवांश्च – 'प्रिये कमले ! अहं त्वां शीघ्रमेव प्रत्यभ्यजानम्' । ततस्तस्या नेत्रे विषप्रभावाद् घूणिते निमीलिते च । एतद् दृष्ट्वा बालको रोदनमारब्धवान् । तदा सिद्धार्थस्तमुत्सङ्गे शाययित्वा विलपन्तं तं मस्तके लालितवान् । अथ च, बालस्य तस्य मुखं दृष्ट्वा, स स्वीयशैशवेऽभ्यस्तमेकं ब्राह्मणगानं स्मृतवान् । ततो मन्दमन्दं स मधुरस्वरेण तं गानं गीतवान् । गानशब्दा अप्यतीतं शैशवं च समुल्लङ्घय समागता इव तन्मुखान्निःसरन्ति स्म । गानं श्रावं श्रावं स बाल ईषत् क्रन्दन्नेव निद्राधीनो जातः । सिद्धार्थस्तं वासुदेवशय्यायां शायितवान् । ततश्चल्लयामोदनं पचन्तं वासुदेवं दृष्टवान् । सोऽपि स्मितं कृतवान् । 'एषा म्रियमाणाऽस्ति' – सिद्धार्थो मृदुतयोक्तवान् । ___ वासुदेवः शिरश्चालितवान् । चुल्लेरग्नेः प्रकाशस्तस्य मुखे प्रतिभासमान आसीत् । यातनया तस्या वदनं विवर्णं जातमासीत् । सिद्धार्थो दुःखं संविभजन्निव शान्त्यैकाग्रतया धैर्येण च तस्याः पीडायुक्तं मुखं निरीक्षितवान् । विदग्धा कमला दृष्टिपातेनैवैतदवगतवती । तमेव पश्यन्ती साऽकथयत् – 'मम प्रतिभाति यद् भवतो नयने अपि परावर्तिते स्तः । ते किञ्चिदिव विशिष्टे जाते स्तः । भवानितोऽपि सिद्धार्थ एवेत्येवं भवन्तं कथं प्रत्यभिजानीयाम् ? यतो भवान् सिद्धार्थः सन्नपि नास्ति तत्सदृशः !' । सिद्धार्थः किमपि नोवाच । केवलं शान्तभावेन तस्या नयनयोरेव विलोकितवान् । 'किं भवता स्वध्येयमधिगतम् ? किं भवताऽन्तः शान्तिः प्राप्ता वा ?' – सा पृष्टवती । सिद्धार्थः केवलं स्मितवान्, स्वहस्तं च तद्धस्तोपरि स्थापितवान् । 'आम्, मम दृश्यते एव; अहमपि शान्ति प्राप्स्याम्येव' – सा सोत्साहमुक्तवती । 'भवत्या प्राप्तैव सा किले'ति मृदुस्वरेण सिद्धार्थः कथितवान् । कमला स्थिरतया तमेव दृष्टवती । गृहान्निर्गमनकाले हि तस्या उद्देशस्तु गौतमबुद्धस्य दर्शनार्थं गमनमासीत्, तत्र च गत्वोपशमलेशस्य प्राप्तिरासीत्; किन्तु तत्स्थाने सा केवलं सिद्धार्थमेव प्राप्ता । तच्च शोभनमेवाऽऽसीत् तस्याः कृते, तथा शोभनं यथा सा महात्मानं बुद्धं दृष्ट्वाऽन्वभविष्यत् ! एतच्च सा तस्य कथयितुमिष्टवती किन्तु तस्या जिह्वा तदिच्छां नैवाऽनुवर्तितवती । शान्तभावेन सा तं विलोकितवती, स च तस्या दृष्टेः क्रमशः क्षीयमाणं जीवनं निरीक्षितवान् । यदा च तस्या नयनतोऽन्तिमः पीडाबिन्दुनिष्क्रान्तः, यदा च तस्या शरीरादन्त्यः कम्पोऽतिक्रान्तः, सिद्धार्थः स्वीयाङ्गुलीभिस्तन्नयनच्छदे पिहितवान् । ९१ For Personal & Private Use Only Page #101 -------------------------------------------------------------------------- ________________ ततः स चिराय तस्या मृतं वदनं निरीक्षमाणस्तत्रैवोपविष्टवान् । तस्या वृद्धं श्रान्तं च मुखं, तस्याः आकुञ्चितावधरौ च विलोक्य स स्मृतवान् यदेकदा, स्वजीवनस्य वसन्तसमये, कथं तेनेमावेवाऽधरौ प्रत्यग्राञ्जीरखण्डेन सहोपमितावास्तामिति । दीर्घकालं यावत् स तदीयं गतशोभं वलीपूर्णं चाऽऽननं निविर्णितवान्, सहैव स स्वीयं वदनमपि तादृशमेव विवर्णं मृतप्रायं च जातमस्तीत्यनुभूतवान्, समकालमेव च स तस्याः स्वस्य च वदनं तारुण्यपूर्ण रक्ताधरं भासुरनयनं च साक्षात्कृतवान्, ततश्च वर्तमानस्य समकालीनास्तित्वस्य चाऽनुभूत्याऽऽक्रान्तोऽभवत् । अस्मिन् क्षणे स प्रत्येकं जीवस्याऽविनाशित्वं प्रत्येकं क्षणस्य च शाश्वतत्वमत्यन्तं तीव्रतयाऽनुभूतवान् । ____ यदा स उत्थितस्तदा वासुदेवेन तस्मै किञ्चिदोदनादिकमशनार्थं दत्तं किन्तु सिद्धार्थस्तन्नैव भुक्तवान् । ततो गोष्ठे, यत्राऽजाऽऽसीत् तत्र, किञ्चन पलालमास्तीर्य वासुदेवः शयितवान्, परन्तु सिद्धार्थः कुटीराद् बहिर्गत्वाऽऽरात्रि नदीमेव शृण्वन्, स्वजीवनस्य च सर्वैरपि कालखण्डैर्युगपदेवाऽऽक्रान्तो व्याप्तश्चाऽतीते न्यमज्जत् । अथाऽपि काले काले समुत्थाय स कुटीरद्वारं गत्वा निरीक्षितवान् यद् बालः स सुप्तोऽस्ति न वेति । प्रत्यूषे, वासुदेवो गोष्ठाद् बहिरागत्य स्वमित्रपार्वं गतवान् । 'भवान् नैव शयितः खलु !' – स पृष्टवान् । 'नैव वासुदेव !, अहमत्रैव नदीं शृण्वन्नुपविष्टः । सा मां सुबहु कथितवत्यस्ति । सा मम चित्ते समाधायकानेकत्वविचारान् पूरितवती' । 'भवता गाढव्यथाऽनुभूताऽस्ति सिद्धार्थ !, एवंसत्यपि अहं पश्यामि यद् विषादो भवद्धृदये नैव प्रविष्टः' । "नैव, प्रियमित्र !, किमर्थं मया विषण्णेन भवितव्यम् ? योऽहं समृद्धः प्रसन्नश्चाऽऽसं सोऽहमधुनाऽधिकं समृद्धोऽधिकं च प्रसन्नो जातोऽस्मि । यतो मे पुत्रो मम समुपलब्धोऽस्ति' । 'भवतः पुत्रं त्वहमप्यभिवादयामि । किन्तु सिद्धार्थ ! अधुना किञ्चित् कार्यं कुर्याव । बहु करणीयं विद्यते । यस्यां शय्यायां मे पत्नी मृता तत्रैव कमलाऽपि मृता । अतो यस्मिन् स्थाने मयैकदा मत्पत्न्याश्चिता विरचिताऽऽसीत् तत्रैव कमलायाश्चितामपि विरचयेव' । ततो बाले शयाने एव ताभ्यां कमलार्थमेका चिता विरचिता । ९२ For Personal & Private Use Only Page #102 -------------------------------------------------------------------------- ________________ ६. पुत्रः भीतो रुदंश्च बालकः स्वमातुरन्तिमसंस्कारमकरोत् । ततः सिद्धार्थे तं पुत्रतयाऽऽह्वयति वासुदेवकुटीरे वसनार्थं चाऽऽमन्त्रयति स व्याकुलेन विषण्णेन च मनसा तमवलोकितवान् । दिनानि यावत् म्लानमुखः स स्वहृदयभावान् निरुध्य, स्वीयभाग्येन सह कलहं कुर्वन् युध्यमानश्चेव शून्यावलोकनं कृतवान् । तस्य मनःस्थितिं विजानन् सिद्धार्थस्तमेकाकिनं विमुक्तवान्, यतः स तस्य शोकं समाद्रियते स्म । 'स मां नैव जानाति, जनकत्वेन च मयि स्नेहमपि नैव धारयितुं शक्तः' - इति सिद्धार्थो जानाति स्म । क्रमशः स एतदपि दृष्टवान् अनुभूतवांश्च यदेकादशवर्षीयोऽयं बालो मातुरतिलालनादूषितोऽस्ति धनिकजनोचितरीतिभिश्च संवर्धितोऽस्ति, तस्य चोत्तमाहारस्य कोमलशय्यायाश्चाऽभ्यासोऽस्ति तथा झटित्येवाऽत्रत्येऽपरिचिते दारिद्यपूर्णे च परिसरे सन्तोषेण स्थातुं नैव शक्त आसीत् । अतः स तं नाऽनुशास्ति स्म नाऽपि च कुत्रचिदर्थे निर्बन्धं करोति स्म । प्रत्युत तदर्थमुत्तममाहारजातं रक्षति स्म, तस्य च बहूनि कार्याणि स्वयमेव कुरुते स्म । स चिन्तयति स्म यदहं शनैः शनैः सौहार्दपूर्णव्यवहारेण चाऽस्य प्रेम सम्पादयिष्ये - इति । यदा बालस्तत्पार्वे समागतस्तदा सिद्धार्थः स्वं समृद्धं सुखिनं चाऽमन्यत, किन्तु गच्छता कालेनाऽपि, यदा बालोऽयं सौहार्दरहितः प्रतीपश्चैवाऽवस्थितः, यदा स औद्धत्यमवज्ञां च समाचरितवान्, कार्ये उत्साह नैव दर्शितवान्, वृद्धौ प्रति विनयं नैव धारितवान्, वासुदेवस्य च वृक्षेभ्यः फलानि चोरयित्वा खादितवांस्तदा सिद्धार्थेन स्पष्टमवबुद्धं यत् पुत्रेण सह सुख-शान्त्योः स्थाने केवलं दुःखं क्लेशश्चैव प्राप्तौ । एवं सत्यपि केवलं पुत्रस्नेहादेव स पुत्रं विना प्राप्यमाणे सुख-शान्ती परित्यज्य पुत्रस्नेहेन प्राप्यमाणौ दुःख-क्लेशावेव स्वीकृतवान्। सिद्धार्थपुत्र उटजे तिष्ठति स्मेति द्वावति वयस्को कार्यविभागं कृतवन्तौ । वासुदेवो नौकासम्बन्धिनं सर्वं कार्यं करोति स्म, सिद्धार्थश्च स्वपुत्रेण सह स्थितः सन् कुटीरे क्षेत्रे च कार्यं करोति स्म । बहून् मासान् यावत् सिद्धार्थो धैर्येण प्रतीक्षितवान्, आशंसयाऽनया यत् - कदाचित्त्वयं बालो ममाऽनुकूलो भविष्यति, मम स्नेहं स्वीकरिष्यति पुनश्च मे प्रत्यर्पयिष्यति । एतच्च बहुकालं यावत् वासुदेवो निरीक्षितवांस्तूष्णीभूय । यदा चैकस्मिन् दिने पुत्रः स्वपितरं कोपेनाऽपमानं कृत्वा दुःखितं कृतवान् द्वे च भाजने भञ्जितवांस्तदा वासुदेवः सायाह्ने स्वमित्रमेकतो नीत्वा कथितवान् - 'क्षम्यतां भोः !, किन्त्वहं भवते For Personal & Private Use Only Page #103 -------------------------------------------------------------------------- ________________ मित्रत्वेन कथयन्नस्मि । अहं पश्यामि यद् भवान् चिन्ताकुलो दुःखितश्चाऽस्ति । भवतः पुत्रो भवन्तं मां चाऽपि खेदयन्नस्ति । बालः पक्षी ह्ययं भिन्नजीवनेन भिन्ननीडेन चाऽभ्यस्तोऽस्ति । भवानिव सोऽत्र वैभवान्नगराच्च वैराग्येण निर्वेदेन वा नैव समागतोऽस्ति, तेनैतज्जीवनं बलाज्जीवितव्यमापतितमस्ति । मया नद्यै अप्येतदर्थं पृष्टमस्ति, बहुवारम् । किन्तु सा मामुपहसितवती भवन्तं चाऽपि । साऽऽवयोर्मूर्खत्वं दृष्ट्वोच्चैर्हासं कृतवती । भोः ! जलं जले एव गमिष्यति, यौवनं च यौवने । भवतः पुत्रोऽत्र कदाऽपि सुखी नैव भविष्यति । भवानपि नौ पृच्छतु शृणोतु च तत्कथनम्' । __ खिन्नः सिद्धार्थस्तस्य करुणार्द्र मुखं दृष्टवान्, तत्र च प्रभूताः प्रशस्ता वलय आसन् । स मृदुतयोक्तवान् – 'कथमहं तस्मात् पृथग् भवेयम् ? इतोऽपि मे समयं ददातु प्रियवयस्य !, अहं तदर्थमेव परिस्थित्या युध्यमानोऽस्मि, तस्य हृदयस्याऽन्तः प्रवेष्टुं प्रयत्नं कुर्वन्नस्मि । अहं तं प्रेम्णा धैर्येण च जेष्यामि । नद्यप्येषा तेन सहैकदा संवादं करिष्यति यतः सोऽपि नद्यैवाऽऽहूतोऽस्ति । वासुदेवस्य स्मितमितोऽपि स्निग्धं जातम् । 'आम्, सोऽपि नद्याऽऽहूतोऽस्ति, सोऽपि च शाश्वतजीवने समभागी वर्तते । किन्तु भवान् जानाति यत् किमर्थं स आहूतोऽस्ति ?, केन वा मार्गेण ?, कस्मै वा कार्याय ?, कैर्वा दुःखैः सह ? तस्य दुःखानि स्वल्पानि न भविष्यन्ति । तस्य हृदयं हि दर्पयुतं कठोरं चाऽस्ति । स प्रायो बहु सहिष्यते, बहून् दोषान् समाचरिष्यति, बबन्याय्यं सेविष्यते, बहूनि च पापानि करिष्यति । कथयतु मां मित्र !, किं भवान् स्वपुत्रं समनुशासयन्नस्ति ? किं स भवदाज्ञाकारी वर्तते ? किं भवांस्तं ताडयति दण्डं करोति वा ?' | 'नैव वासुदेव ! अहमेतेषामेकतमदपि नैव करोमि' । 'आम्, अहं जानामि । भवान् तेन सह कठोरो न भवति, तं नैव दण्डयति नाऽपि चाऽऽज्ञापयति - यतो भवान् चिन्तयति यन्मृदुता हि कठोरत्वतः प्रबला, प्रेम हि बलात्कारादपि बलवत्, जलं हि पाषाणात् सबलमिति । शोभनमस्त्येतत् । अहं प्रशंसामि भवन्तम् । किन्तु चिन्तयतु भवान् यत् कठोरत्वानाचरणं दण्डकारणं च किं भवत्पक्षे दोषो नास्ति वा ? भवतः प्रेम तत्कृते बन्धनं तु न भवति खलु ? स्वसौजन्येन धैर्येण च भवान् तं लज्जितं कुर्वन् प्रत्यहं तस्य कृते जीवनमधिकं दुष्करं तु नैव कुर्वन्नस्ति खलु ? किं भवान् एनमुद्धतं दुर्ललितं च बालकं, द्वाभ्यां वृद्धाभ्यां कदलीखादकाभ्यां सहाऽस्मिन् कुटीरे, प्रसभं वसितुं न नियोजयन्नस्ति खलु, ययोः कृते ओदनमपि विशिष्टभोजनं भवति, ययोविचारास्तत्समा नैव भवितुमर्हन्ति, ययोर्हदये वृद्धे शान्ते ततश्च भिन्नतया स्पन्दमाने स्तः ? किं स एतादृशेनाऽऽचरणेनाऽधिकं निरुद्धो दण्डितश्च न भवेत् खलु ?' । व्यग्रः सिद्धार्थो भुवं विलोकयन् मन्दस्वरेण पृष्टवान् – 'तर्हि मया किं वा कर्तव्यम् ?' वासुदेवेनोक्तं – 'तं नगरे नीत्वा तन्मातृगृहं प्रापयतु । तत्र सेवकाः स्युरेव । तानस्य सेवायां नियोजयतु । यदि च ते न स्युस्तदा तं शालायां प्रवेशयत, न च शिक्षणार्थं किन्तु तत्राऽन्ये बाला बालिकाश्च स्युर्यैः सहाऽयं सम्पर्कं कुर्यात् स्वीयं विश्वं च परिचिनुयात् । किं भवताऽत्राऽर्थे कदाऽपि चिन्तितं वा?' ९४ For Personal & Private Use Only Page #104 -------------------------------------------------------------------------- ________________ 'भवान् मे मनोगतं सर्वमपि जानात्येव' सिद्धार्थः सखेदमुक्तवान् । 'अहं बहुश एतदर्थे चिन्तितवान् अस्मि । किन्तु, य ईदृशः कठिनहृदयोऽस्ति स जगति कथं व्यवहरिष्यति ? किं स श्रेष्ठम्मन्यो न भविष्यति ? किं स भौतिकसुखे समृद्धावैश्वर्ये च भ्रष्टो नष्टश्च न भविष्यति ? किं स स्वपितृसमाचरितान् दोषान् न पुनरावर्तयिष्यते ? एवं च स किं संसारे निमग्नो न भविष्यति ?' 1 — वासुदेवः पुनरपि स्मितवान् । स मृदुतया सिद्धार्थस्य स्कन्धे हस्तं स्थापयित्वोक्तवान् – 'एतत् सर्वं नद्यै पृच्छतु मित्र ! तदुक्तं शृणोतु ततश्च हसतु ! किं सत्यमेव भवान् चिन्तयति यद् भवता समाचरितान् दोषान् भवत्पुत्रो नैव समाचरिष्यति ? किं ततो भवांस्तं संसाराद् रक्षितुं प्रभविष्यति ? कथम् ? किमनुशासनेन ? प्रार्थनाभि: ? उपदेशैर्वा ? प्रियमित्र ! भवतैवाऽत्र कदाचित् मे कथितां ब्राह्मणपुत्रस्य सिद्धार्थस्य बोधप्रदां कथां किं भवान् विस्मृतवान् किल ? श्रमणमपि सिद्धार्थं संसारात् पापाल्लोभान्मौर्थ्याच्च को वा रक्षितवान् ? किं तस्य पितुर्धर्मनिष्ठा ? किं तस्य गुरोरुपदेशा: ? तस्य स्वीयो बोध: ? किं वा तस्य सत्यान्वेषणं तं समरक्षत् ? कः पिता कतमो वा गुरुस्तं स्वच्छन्दतया जीवनं जीवन्तं जीवनं दोषैर्मलिनीकुर्वन्तं, स्वं पापभरेण पूरयन्तं विषस्य कटु पानं पिबन्तं, प्रान्ते च स्वयमेव स्वीयं पन्थानमन्वेषयन्तं च न्यवारयत् ? किं भवांश्चिन्तयति यत् कश्चनैतस्मात् क्रमाद्रक्षितः स्यात् ? यदि परं भवतो लघुपुत्रः, यतो भवांस्तं दुःखेभ्यः क्लेशेभ्यो मोहाच्च रक्षितुमिच्छतीत्यत: ? नैव सिद्धार्थ ! नैव, यदि भवान् स्वपुत्रस्य कृते दशवारमपि मृत्वा जन्म धारयिष्यति तथाऽपि तस्य नियतिमणुमात्रमपि परावर्तयितुं नैव शक्ष्यति !' । वासुदेवो ह्येतावन्मात्रं न कदाऽप्युक्तवानासीत् । सिद्धार्थस्तस्योपकारं मत्वा दुःखितहृदयेन कुटीरं प्रविशत्, किन्तु निद्रातुं शक्तो नाऽभवत् । स्वयमचिन्तितमज्ञातं च न किमपि वासुदेवेन कथितमासीत् । किन्तु ज्ञानादपि पुत्रप्रेम, पुत्रासक्तिः, पुत्रवियोगभयं च बलवत्तरमासीत् । न हि कदाचित् स कस्यचित्कृते स्वहृदयमेवं हारितवानासीत्, न हि कञ्चनाऽपि स एवंरीत्याऽन्धीभूय, दुःखीभूय, हताशीभूयाऽथाऽपि च सुखितम्मन्यः प्रीतवानासीत् । स स्वमित्रस्योपदेशं स्वीकर्तुं नैवाऽशक्नोत्, स्वपुत्रं च परिहर्तुं शक्तो नैवाऽऽसीत् । स स्वमाज्ञापयितुं स्वपुत्रमन्वज्ञापयदिव, स्वं प्रत्यविनीतं च भवितुमप्यन्वमन्यतेव । स तूष्णींभूय धैर्येण प्रतीक्षामकरोत् प्रत्यहं च मैत्र्या धैर्यस्य च मूकं युद्धं प्रारभत । वासुदेवोऽपि मौनतया प्रतीक्षामकरोत्, सस्नेहं सद्भावेन क्षमाशीलतया च । द्वे अपि मित्रे धैर्यस्य तु स्वामिनावास्ताम् । एकदा, यदा बालकस्य मुखं तं कमलामस्मारयत् तदा, सहसैव सिद्धार्थो बहुकालपूर्वं कमला तं यत्कथितवत्यासीत् तदस्मरत् । 'भवान् न कस्मिश्चिदपि स्त्रियेत् कदाऽपि' इति सा तं कथितवती, सोऽपि च तत् स्वीकृतवानाऽऽसीत् । स स्वं तारया सहाऽन्यांश्च जनान् वृक्षात् पतद्भिः पर्णैः सह तुलितवान् आसीत्, । एवं सत्यपि स तस्याः शब्देषु स्थितमुपालम्भमनुभूतवानासीत् । एतत् तु सत्यमेवाऽऽसीत् यत् सः, स्वस्याऽपि विस्मरणं येन भवेत् तादृशं प्रेम, कस्याऽपि विषयेऽनुभूतवान् नाऽऽसीत् । एतत् कर्तुं स ९५ For Personal & Private Use Only Page #105 -------------------------------------------------------------------------- ________________ सर्वथाऽसमर्थ आसीत्, तदैव च तस्यैतत् प्रतिभातं यत् स्वस्याऽन्येषां च सामान्यजनानां मध्येऽयमेव महान् विशेषोऽस्ति इति । किन्तु, इदानीं, यदारभ्य तस्य पुत्र इहोषितवान् तदारभ्य, सोऽपि दुःखं स्नेहं चाऽनुभवन् सामान्यजनानामेवाऽन्यतमत्वमभजत् । पुत्रासक्त्याऽन्धीभूय स मूर्खत्वं समाचरन्नासीत् । स्वजीवने अतिचिरेणाऽपीदानीं सोऽत्युत्कटमपूर्वं च मनोभावमनुभवन्नासीत् । यद्यप्यनेन भावेन सोऽतिदारुणं सन्तापमनुभूतवान् तथाऽपि स इदमप्यनुभूतवान् यत् तस्य सत्त्वमनेन किञ्चिदिवोच्छ्रितं, किञ्चिदिव नवीभूतं समृद्धतरं च जातमस्तीति । स जानाति स्मैव यदिदं प्रेमैषा चाऽन्धाऽऽसक्तिः स्वपुत्रविषयिकी हि मूलतया मानवीय संवेदनमस्ति, एतदेव च संसारोऽस्ति खलु ! सर्वथा संक्षुब्धं गभीरजलस्रोतः । परन्तु समकालमेव सोऽनुभूतवान् यदिदं सर्वथाऽसारं तु नास्त्येव, अस्याऽप्यावश्यकता त्वस्त्येव, तथैतदपि निजप्रकृतेरेवोद्भूतमस्ति । एतत् संवेदनं, एषा पीडा, एतानि मौणि चाऽपि ह्यनुभवितव्यान्येव खलु !। एतावता च, तस्य पुत्रस्तस्य मूर्खताः समलोकयत्, तं प्रयतमानं नैव न्यवारयत्, प्रकृत्यैव च विनीतं तं नैवाऽगणयत् । पितरि तादृशं न किञ्चित् तेन दृष्टं येन स आकृष्टो भवेत् यस्माद् वा स भयमनुभवेत् । तस्य पितैष एकः सुजनः, एकः सदयः सज्जनः, एको धार्मिको मनुष्यः, पवित्रश्च जन आसीत् - किन्तु, एते गुणास्ते नाऽऽसन् ये तं बालकं समाकृषेयुर्जयेयुर्वा । एष पिता तं यदीदृशे शीर्णे कुटीरेऽवासयत् तदपि तस्मिन् निर्वेदमजनयत्, तथा यत् स तस्याऽविनयं स्मितेनोदतरत्, प्रत्येकमपमानं सौजन्येन, प्रत्येकं दुर्वृत्ति च प्रेम्णा प्रत्यभावयत् - तद् हि तस्मै बालाय 'वृद्धशृगालस्य गीतमं कपट' प्रतिभाति स्म । यदि सिद्धार्थस्तं बालकं निरभत्सिष्यताऽपीडयिष्यच्च तदा तत् तस्मै अधिकमरोचिष्यत । अन्ते च, तद्दिनमपि समागतं यदा सिद्धार्थपुत्रस्तत् कथितवान् यत् सर्वं तन्मानसे आसीत्, इदानीं स प्रकटं पितुर्विरोधं कृतवान् । तच्चैवं जातं – पित्रा स आदिष्टः काष्ठखण्डानानेतुम् । किन्तु स कुटीराद् बहिर्नैव गतवान् । स तत्रैव स्थित्वोद्धततया सकोपं च भूमिं पादतलेन प्रहृतवान्, मुष्टिं च बद्ध्वा द्वेषं तिरस्कारं च प्रदर्शितवान् । 'भवान् स्वयमेव काष्ठखण्डान् आनयतु' - स आवेशेनोक्तवान् । 'नाऽहं भवतः प्रेष्यो दासो वा । अहं जानामि यद् भवान् मां नैव ताडयति, भवतः साहसमेव नास्ति तदर्थम् !, एवं सत्यपि भवान् सततं दयालुतया मां लालयन् मयि हीनभावं जनयति । भवान् हि मामपि भवादृशं कर्तुमिच्छति - धर्मनिष्ठं, सज्जनं, धीरं च । किन्तु, केवलं भवन्तं पीडयितुमेवाऽहं कदाचित् यदि परं चौरो घातको वा भविष्यामि न पुनर्भवादृशः । अहं भवन्तं धिक्करोमि । भवान् नास्ति मे पिता यद्यपि भवान् शतशो मम मातुः प्रियतमोऽपि स्यात् !' । एवं च दुःख-सन्ताप-कोपाकुलः स क्रोधावेशपूर्णान् शब्दान् स्वपितुः पुरत उद्गीर्य बहिः कुत्रचित् पलायितः, ततश्च रात्रावेव पुनरागच्छत् । For Personal & Private Use Only Page #106 -------------------------------------------------------------------------- ________________ द्वितीयदिने प्रभात एव सोऽदृश्यो जातः । तेन सह, यस्मिन् द्विवर्णे करण्डके तौ द्वौ नाविको भाटकतया प्राप्तं धनं रक्षतः स्म, स करण्डकोऽपि न दृश्यते स्म । बहिरागत्य दृष्टं तावन्नौरपि घट्टे नाऽऽसीत् । सिद्धार्थेन सम्यङ् निरीक्षिते ज्ञातं यन्नौस्तु परस्मिन् तटे स्थिताऽस्तीति । अर्थात् स बालकः पलायितः । 'मया तत्पृष्ठतो गन्तव्य'मिति पूर्वदिने बालकस्य कटुशब्दैर्बहुव्यथितेन सिद्धार्थेनोक्तम् । ‘स बालकः एकल एवाऽरण्यमध्ये कथं यास्यति ? तत्र तस्य कश्चिदपायोऽपि स्यात् खलु ! । अतो वासुदेव ! आवाभ्यां तस्य पृष्ठे गमनार्थमवश्यं तरण्ड एको निर्मातव्य एव' । 'अवश्यं निर्मातव्यस्तरण्डः' - वासुदेव उक्तवान् । 'परं स अपरतटे स्थितां नौकामानेतुं निर्मातव्यो न पुनर्बालकस्य पृष्ठतो गमनार्थम् । गच्छतु नाम सोऽधुना मित्र !, न सोऽस्ति शिशुरितोऽपि, स स्वयं स्वं सम्भालयितुं सुष्ठ जानात्येव । स नगरं प्रति गच्छन्नस्ति, तच्च सम्यगेवाऽस्ति । मा विस्मार्षीदेतद् यद् - भवान् यत्करणमुपेक्षितवान् तदेव स कुर्वन्नस्ति । स स्वीयं रक्षणं कुर्वन् निजमार्गे एव गच्छन्नस्ति । किन्तु सिद्धार्थ ! अहं पश्यामि यद् भवान् खिन्नोऽस्ति । यां पीडां दृष्ट्वा जनेन हसितव्यं तथा भवानपि स्वस्मिन् हसिष्यत्येव तयैव पीडया भवान् खिन्नोऽस्ति ननु !' । सिद्धार्थः किमप्युत्तरं न दत्तवान् । स कुठारं गृहीत्वा तरण्डनिर्माणार्थमपेक्षितं काष्ठं छेत्तुमारब्धस्ततश्च वासुदेवसाहाय्येन तृणनिर्मितरज्ज्वा वंशखण्डान् बद्ध्वा तरण्डं निर्मितवान् । ततो द्वावपि ऊर्ध्वप्रवाहे महता परिश्रमेणाऽपरं तीरं प्राप्तौ । _ 'किमर्थं भवान् कुठारमेनमानीतवान् ?' - आश्चर्येण सिद्धार्थः पृष्टवान् । वासुदेवेनोक्तं - 'आवयोर्नीकायाश्चालनदण्डः कदाचिद् विनष्टः स्याद्, अतः' । सिद्धार्थो ज्ञातवान् यद् वासुदेवश्चिन्तयन्नाऽऽसीत् कदाचित् तेन बालकेन नौदण्ड आवां पृष्ठतोऽनुगन्तुं रोधनाय कुत्रचित् प्रक्षिप्तो भञ्जितो वा स्यादिति । वस्तुतोऽप्येवमेव जातम् । नौदण्डस्तु नाऽऽसीदेव । वासुदेवस्तं नौकां दर्शयित्वा स्मितवान्, यथा तं कथयतीव- 'किं भवतः पुत्रः कथयितुमिच्छतीति भवान् न पश्यति खलु ? आवां तं नाऽनुगच्छेवेत्यपि तस्येच्छाऽस्तीत्यपि भवान् न पश्यति किल?' । किन्तु स शब्दैस्तत् नैव कथितवान् नूतनं च नौकादण्डं निर्मातुं प्रारब्धवान् । ततः सिद्धार्थः पुत्रान्वेषणाय गन्तुं तदनुज्ञां पृष्टवान् । वासुदेवोऽपि तं नैव न्यषेधत् । सिद्धार्थश्चिराय वने तमन्विष्टवान् । ततस्तेन चिन्तितं यदिदं सर्वथा निरर्थकमस्ति । प्रायः स नगरमेव प्राप्तवान् स्यात्, अथवा, यदि स वने स्यात् तथाऽपि यत्र कुत्राऽपि निलीनः स्यात् स्वानुगामिनो मत्तः स्वं गोपयितुम्' । पुनश्च विमर्श कुर्वता तेनोपलब्धं यत् स्वपुत्रविषयिकी चिन्ता तु तस्य सर्वथा नाऽऽसीत् । तथा, वने तस्य बालकस्य काऽपि हानिः कुतश्चिद् वा भयं वाऽपि नैव जातं स्यादित्यत्राऽऽपि स सप्रत्यय आसीत् । एवं सत्यपि सोऽविश्रान्तं नगरं प्रति चलितवान्, न किन्तु तं रक्षितुमपि तु दैवात् स पुनरपि प्रत्यक्षीभवेदितीच्छयैव केवलम् । प्रान्ते च नगरसीमानं प्राप्तवान् । ९७ For Personal & Private Use Only Page #107 -------------------------------------------------------------------------- ________________ यदा स नगरस्य राजमार्ग प्राप्तस्तदा तदुपान्ते स्थितं सुन्दरं क्रीडोद्यानं - यदेकदा कमलायाः आसीद् - दृष्ट्वा तस्य द्वार्येवाऽतिष्ठत् स्थिरतया । अत्रैव स ऐदम्प्राथम्येन कमलां शिबिकयाऽत्राऽऽगच्छन्ती दृष्टवान् आसीत् । स समग्रोऽप्यतीतस्तस्य मानसचक्षुषोः पुरतः उपस्थितः इव । पुनरपि स स्वं दीर्घकूर्चयुतजीर्णवस्त्रधर-धूलिधूसरित-तरुणश्रमणत्वेन प्रत्यक्षीकृतवान् । स चिराय तत्रैवाऽवस्थायोद्यानं निरीक्षितवान्, तत्र च बहवो बौद्धभिक्षवस्तेन सुन्दराणां वृक्षाणामधस्तात् सञ्चरन्तो दृष्टाः । स तत्रैव तिष्ठन् स्वीयमतीतं जीवनं चित्रपटेषु चित्रितां कथामिव विलोकितवान् । तत्रोद्याने स्थितान् भिक्षून् दृष्ट्वा स युवानं सिद्धार्थं स्मृतवान् कमलया सहितं च तं रमणीयवृक्षराजीमध्ये पर्यटन्तं विलोकितवान् । स स्पष्टतया स्वं तत्रोद्याने कमलया सत्कृतं सर्वप्रथमतया च तस्याश्चुम्बनं स्वीकुर्वन्तं दृष्टवान् । स तदपि स्मृतवान् यथा कथं तेन स्वीयाः पुरातनाः श्रामण्यदिनाः सदएँ सावज्ञं च समीक्षिता आसन्, कथं च तेन सगर्वमुत्सुकतया च सांसारिकं जीवनं प्रारब्धमासीत् । स कामस्वामिनं, सेवकान्, भोजनसमारम्भान्, द्यूतक्रीडकान्, सङ्गीतकारांश्च मानसे प्रत्यक्षीकृतवान् । कमलायाः गायकपक्षिणं पञ्जरस्थितं चाऽपि स विलोकितवान् । एवं च सर्वमपि जीवनं स पुनरपि जीवितवान्, संसारं श्वसितवान्, वार्धक्यं स्पृष्टवान्, श्रान्तो जातः, निर्वेदमनुभूतवान्, मरणमभिलषितवांश्च; ततश्च पुनरपि पवित्रमोङ्कारं श्रुतवान् । चिरायोद्यानद्वार एवाऽवस्थानानन्तरं सिद्धार्थः लक्षितवान् यद् योऽभिलाषस्तमिहाऽऽगन्तुं प्रेरितवान् स सर्वथा मौर्यपूर्ण आसीत्, निजपुत्रं स कदाऽपि बोधयितुं समर्थो नाऽऽसीत्, निजजीवनपद्धतिं च बलात् तस्मिन्नारोपयितुमुचितं नाऽऽसीत् । स पलायितं बालकं प्रति व्रणं प्रतीव गाढं प्रेमाऽनुभूतवान्, समकालमेव चिन्तितवांश्चाऽपि यदयं व्रणो नेदानीं सपूयः कर्तव्यः किन्तु तस्य विरोपणं कर्तव्यमासीत् । किन्तु तस्मिन् समये स व्रणो नैव विरूढः, अतः स दुःखितः एव तत्र स्थितः । यदर्थं स्वपुत्रमनुसृत्य स इहाऽऽगत तत्प्राप्तेः स्थाने तेन केवलं शून्यता प्राप्ताऽऽसीत् । सदुःखं स तत्रैवोपविष्टः । स्वहदये किञ्चन म्रियमाणं सोऽनुभूतवान् । स तत्रेदानीं सुखं स्वध्येयपूर्ति वा नैव दृष्टवान् । अतः सर्वथा विषण्णः स प्रतीक्षारतः उपविष्टः । नद्याः सकाशात् स बहु शिक्षितवानासीत् – प्रतीक्षां कर्तुं, धैर्यं धत्, श्रोतुं च । स तत्र धूलिमयेवम॑नि निष्ण्णः श्रोतुमारब्धः । स दुःखितया म्लानतया च स्पन्दमानं स्वहृदयं श्रुतवान् ततः प्रकटन्तं च कञ्चन ध्वनि श्रोतुं प्रतीक्षितवान् । स दीर्घकालं यावत् पादावाकुच्य श्रवणार्थं प्रयतितवान् किन्तु किमपि नैवोपलब्धवान्, ततश्च कमपि मार्गं न दृष्ट्वाऽन्ते स स्वं शून्यतायां निमज्जितवान् । यदा च स स्वीयं व्रणं तीक्ष्णतया व्यथयन्तमनुभूतवान् तदा स 'ओम्' - इति शब्दं जपितवान्, स्वहृदयं च ओङ्कारनादेन पूरितवान् । उद्यानस्था भिक्षवस्तं चिरात् तथा निषण्णं दृष्ट्वा तन्मस्तकं च धूल्याऽवगुण्ठितं विलोक्य करुणार्द्रा जाताः, तेषामेकतमश्च तन्निकषा समागत्य द्वे कदलीफले तत्पुरतो मुक्तवान् । किन्तु वृद्धजनः स ते नैव लक्षितवान् । एतावता तस्य स्कन्धोपरि कस्यचन हस्तस्य स्पर्शोऽभवत् । एतेन स जागृतोऽभवत् । स इमं मृदं सचिन्तं च स्पर्शमभिज्ञातवान् झटिति च स्वस्थोऽभवत् । तत उत्थाय स वासुदेवमभिवादितवान् यस्तस्य ९८ For Personal & Private Use Only Page #108 -------------------------------------------------------------------------- ________________ पृष्ठत आगत आसीत् । यदा स वासुदेवस्य प्रसन्नं वदनं, स्मितमयीं मुखरेखां, भासुरे च लोचने दृष्टवांस्तदा सोऽपि स्मितं कृतवान् । इदानीं स स्वपुरतः पतिते कदलीफले दृष्टवान् । स ते गृहीत्वा तत एकं वासुदेवाय दत्तवानपरं च स्वयं खादितवान् । ततः स मौनमेव वासुदेवेन सह वनं गतवान्, ततश्च नावा नदी समुत्तीर्य स्वीयं कुटीरं प्राप्तवान् । अथाऽपि द्वयोरेकतरोऽपि प्रवृत्तस्य विषये न किमप्युक्तवान्, बालकस्य नामाऽपि नैव गृहीतवान्, तस्य गमनमधिकृत्य न किञ्चिदुदितवान्, व्रणविषयेऽपि च नोच्चरितवान् । सिद्धार्थो निजां शय्यां गत्वा सुप्तवान्, यदा च वासुदेवस्तस्मै किञ्चिन्नारिकेलजलं दातुमन्तर्गतस्तदा तेन दृष्टं यत् सिद्धार्थो गाढनिद्रायां शयितोऽस्तीति । For Personal & Private Use Only Page #109 -------------------------------------------------------------------------- ________________ ७. ॐ सा शल्यवेदना चिराय सिद्धार्थहदि पर्यस्पन्दत । सिद्धार्थो हि बहून् सापत्यान् यात्रिकान् नदीपारं प्रापयत्, किन्तु प्रत्येकं वारं तस्य तेषां यात्रिकानामीW भवति स्म । स चिन्तयति स्म यद् – 'एतावन्तो जनाः पुत्रसुखेन सुखिताः सन्ति, केवलमहमेव किमर्थं तत्सुखाद् रहितोऽस्मि ?. किञ्च, दुरात्मानश्चौराः लुण्टाकाश्चाऽपि सन्तानानि धारयन्ति, प्रेम्णा पालयन्ति, तेषां स्नेहमपि च प्राप्नुवन्ति, नवरं मया विना' । एवं चाऽत्यन्तं बालिशतयाऽतार्किकतया वितर्कान् कुर्वन् सोऽधुना प्राकृतजनवदाचरति स्म । स इदानीं जनैः सहाऽन्ययैव विधया व्यवहरति स्म । नाऽत्यन्तं चातुर्येण, नाऽपि गण, परन्तु सर्वथोष्मपूर्णेन कुतूहलपूर्णेन सहानुभूतिपूर्णेन च व्यवहारेण व्यवहरति स्म । इदानीं, यदा स सामान्यान् वणिक्-सैनिक-महिलादीन् यात्रिकान् नदीपारं नयति स्म तदा ते तस्य पूर्ववत् परे अपरिचिता वा नैव भासन्ते । यद्यपि स तेषां विचारान् अभिप्रायान् वा नैवाऽवबुध्यन्ते स्म तथाऽपि तैः सह जीवनस्योद्देशान् मनोरथांश्चाऽधिकृत्य संवादं करोति स्म । यद्यपि स स्वात्मसंयमस्योच्चावस्थां समासादितवानासीत् स्वीयमन्तिमं व्रणमपि च सुतरां सहित्वा पक्वो जात आसीत्, तथाऽपि स इदानीमेतान् सामान्यजनानपि स्वजनत्वेनैव पश्यति स्म । तेषां मिथ्याभिमानस्तृष्णास्तुच्छतादयश्चेदानीं तस्याऽसङ्गता न प्रतिभान्ति स्म, प्रत्युत ते जनास्तस्य सद्भावयोग्याः प्रेम्ण आदरस्याऽश्चि प्रतिभाताः । तेषु जनेषु कस्यचन स्वापत्यं प्रति मोहान्ध्यं, कस्यचित् तु स्वस्यैकमानं पुत्रमधिकृत्य मौर्व्यपूर्णो गर्वः, कस्याश्चन च यौवनोद्धताया युवत्या अलङ्काराद्यर्थं युवजनाकर्षणार्थं च क्रियमाणा औत्सुक्यपूर्णाः प्रयत्ना आसन् । एते सर्वेऽपि क्षुल्लकाः सामान्याः मूर्खतापूर्णाश्चाऽप्यत्यन्तं बलवन्त उत्कटाः सचेतनाश्चाऽऽवेगा मनोरथाश्चेदानीं सिद्धार्थस्य तुच्छतया न प्रतिभान्ति स्म । एतेषामावेगानां मनोरथानां च पुरणार्थं जना जीवन्ति, अतिमहतः प्रयत्नान कुर्वन्ति, प्रवसन्ति, युध्यन्ते, अतिमात्रेण सहन्ते तितिक्षन्ते चेति निरीक्षितवान् स एतदर्थं तान् प्रीणाति स्म, यतः स तेषां मनोरथेष्वावश्यकतासु च जीवनं, चैतन्यमविनश्वरं च ब्रह्म पश्यति स्म । सोऽचिन्तयद् यदेते जना हि तेषामन्धानुरागवत्त्वाद् अन्धपराक्रमाद् आग्रहवत्त्वाच्चाऽपि प्रेमपात्राणि प्रशंसास्पदानि च सन्ति । कस्यचित् तत्त्वविदश्चिन्तकस्य वा सकाशे यत् स्यात् तत् सर्वमपि केवलमेकं लघुमपवादं विहायैतेषां पार्वेऽप्यासीदेव । तच्चाऽऽसीत् सर्वेषामपि जीवानामैक्यबोधः । किन्तु, बहुशः सिद्धार्थोऽचिन्तयद् यत् - 'किमेतादृशो बोधो विचारो वा बहु मूल्यमर्हति खलु ? किमेतच्चिन्तनं चिन्तकानां बालिशाऽऽत्मप्रशंसा नाऽऽसीत् खलु, ये किल केवलं विचारयन्तो बालका एव सन्ति ? सामान्या जना हि सर्वेष्वप्यन्येषु १०० For Personal & Private Use Only Page #110 -------------------------------------------------------------------------- ________________ विषयेषु एतेषां चिन्तकानां तुल्या एवाऽऽसन्, कदाचिच्चैतेभ्यः श्रेष्ठा अपि; यथा हि पशवः कदाचित् आवश्यकतायां सत्यां तेषां दृढास्वविचलितासु क्रियासु मनुष्येभ्योऽपि श्रेष्ठाः दृश्यन्ते, तथा ! । सिद्धार्थहृदये – काऽस्ति वा शुद्धा प्रज्ञा ? किमस्ति च मम सुदीर्घान्वेषणस्य ध्येयम् ? - इत्यधिकृत्य ज्ञानं शनैः शनैः प्रवर्धमानं क्रमशः परिपक्वं जातम् । तेनाऽनुभूतं यदेतद्धि केवलं सर्वेष्वपि जीवेषु प्रतिक्षणमात्मौपम्यस्याऽनुभवनं श्वसनं साक्षात्करणं तदर्थं च स्वस्य प्रगुणीकरणं सामर्थ्यप्रापणं चाऽस्ति । एतच्चिन्तनं तस्मिन् शनैः शनैः परिणतं जातम् । एतस्य च प्रतिबिम्बं वृद्धस्य वासुदेवस्य बालतुल्ये वदने संवादितारूपेण, जगतः शाश्वततया सम्पूर्णत्वरूपेण ऐक्यरूपेण च प्रतिफलितम् । किन्तु, एतावताऽपि पुत्रगमनस्य दुःखमितोऽपि मनस्तुदति स्म । सिद्धार्थः स्वपुत्रविषये स्निग्धतयाऽऽत्यन्तिकतया च चिन्तयति स्म, तदर्थं स्वहृदये प्रेम्णो वात्सल्यस्य च भावं पोषयति स्म, तद्गमनस्य पीडया व्यथितो भवति स्म, आसक्त इव सर्वामपि मूर्खतां समाचरति स्म च । एवं च दुःखाग्नेालां निर्वापयितुमवकाशं नैव कल्पयति स्म । ___एकदा, दुःखशल्येऽत्यन्तं व्यथयति सति स पुत्रमिलनस्याऽऽत्यन्तिकेच्छया व्याप्तचित्तः सन् 'नगरं गत्वा तदन्वेषणं करोम्येवे'ति विचिन्त्य नावा नदी तीर्णवान् । ततो यावद् नौकातो बहिः पादं स्थापयति स्म तावत् तस्य दृष्टिर्नदीप्रवाहे पतिता । नदी मृदुतया मन्दमन्दं प्रवहमानाऽऽसीत् । ग्रीष्मकालस्य सन्निहितत्वात् यद्यपि जलमनल्पं नाऽऽसीत् तथाऽपि तस्याः कलकलध्वनिस्तु स्पष्टतया श्रूयते स्म । सिद्धार्थस्य प्रतिभातं यत् साऽद्य किञ्चित् विलक्षणं भाषमाणाऽस्तीति । तेनैकाग्रीभूय यावन्निरीक्षितं तावत्, सा तं प्रति हसति, व्यक्तमेव हसतीति लक्षितम् । वृद्धनाविकं दृष्ट्वा सा परिहासं कुर्वत्यासीत् । एतदभिलक्ष्य सिद्धार्थस्तत्रैव स्थिरीभूय स्पष्टतया श्रवणार्थं किञ्चिन्नतो जातः । एवंकरणेन च तस्य मुखं शान्ततया प्रवहमाने जले प्रतिबिम्बितम् । तत्र च प्रतिबिम्बे तादृशं किञ्चिदासीत् यत् तस्य विस्मृतं किञ्चिद् वस्त्वस्मारयत् । यदा च स सम्यगालोचनं कृतवांस्तदा स तत् सम्यक्तया स्मृतवान् । तस्य वदनं कस्यचनाऽन्यजनस्य वदनमनुहरति स्म यं स एकदा सम्यग् ज्ञातवान्, तद्विषये च प्रेम भयं चाऽप्यनुभूतवानासीत् । स जन आसीत् तस्य ब्राह्मणः पिता । स स्मृतवान् यत् कथं स श्रामण्यग्रहणार्थमनुमति प्राप्तुं तं बलात्कारेण प्रेरितवानासीत्; हठाच्चाऽनुज्ञां प्राप्य कथङ्कारं स तद्गृहान्निर्गत आसीत् पुनश्च नैव कदाऽपि तत्र प्रतिनिवृत्त आसीत् । किं तस्य पिताऽपि तदेव दुःखं नाऽनुभूतवान् स्यात् यदिदानी स स्वपुत्रस्य कृतेऽनुभवन्नासीत् ? किं तस्य पिता बहोः कालात् पूर्वमेव स्वपुत्रमदृष्ट्वैवैकाकितया मृतो नाऽऽसीत् खलु ? स्वपितुरिव किं तस्याऽपि एषैव नियतिर्नाऽऽसीत् किल ? किमेतत् पुनरावर्तनं, नियत्या वर्तुले घटमान एष घटनाक्रमः किमेकं प्रहसनं, विचित्रं मौर्ध्वपूर्णं च कार्यं वा नाऽऽसीत् खलु ! । नदी हसन्ती आसीत् । आम्, एतदेव तदासीत् । सर्वमपि यद् आऽन्तमसहित्वैव समापितं स्यात् तदवश्यं पुनरावर्तितं भवति स्म, तत्र च समानानि एव दुःखानि अनुभवितव्यानि भवन्ति । पितृविषयकं पुत्रविषयकं च चिन्तनं कुर्वाणः, नद्योपहस्यमानः, स्वेन सहैव विप्रतिपद्यमानः, १०१ For Personal & Private Use Only Page #111 -------------------------------------------------------------------------- ________________ नैराश्यासन्नं वर्तमानः, एवंसत्यपि च निजं प्रति जगतं प्रति चोच्चैर्हसितुमभिलषन् सिद्धार्थः पुनरपि नावमारूढः, नदी तीर्वा च गृहं प्रत्यागतः । तस्य दुःखशल्यमिदानीमपि तुदति स्म, नियतेः पुरतो विरोधं कर्तुमितोऽपि तस्य मनः समुज्जृम्भते स्म । इदानीमपि तस्य पीडाया अभिभवो नैव जातस्ततश्च तस्य चित्ते प्रशान्तिरपि नाऽऽसीत् । एवंस्थितेऽपि स तदर्थमाशान्वित एवाऽऽसीत् । यदा स कुटीरं प्राप्तस्तदा तस्य मनसि वासुदेवस्याऽग्रे गत्वा सर्वमप्यात्मनिवेदनं कर्तुमदम्योऽभिलाषो जागृत आसीत् । स स्वमनसि स्थितं सर्वमपि श्रवणकलानिपुणाय वासुदेवाय कथयितुमुत्कण्ठते स्म । ___ वासुदेवः कुटीरे उपविश्य वंशकण्डोलं विरचयन्नासीत् । सोऽधुना नौकार्यं न करोति स्म, यतस्तस्याऽक्षिणी निस्तेजस्के जायमाने आस्तां, हस्तौ पादौ च दुर्बले अभवतां, किन्त्वेवं सत्यपि तस्य वदने सैवाऽपरावर्तिता समुज्ज्वला च प्रसन्नता प्रशान्तिश्च विलसमानाऽऽसीत् । सिद्धार्थस्तस्य वृद्धजनस्य पुरत उपविष्टः शनैः शनैश्च कथयितुमारब्धः । स तस्य यत् कदाऽपि नैव निर्दिष्टवानासीत् तत् सर्वं कथितवान्, यथा – कथं स तदा नगरं गतवानासीत्, कथं च पुत्रवियोगशल्यं तन्मनस्तुदति स्म, कथं च स सुखिनो जनकान् दृष्ट्वाऽसूयते स्म, एतादृशां च भावानां मौर्यस्य विषये तस्य बोधः, तथा स्वात्मना सह नैराश्यपूर्णः सङ्घर्षः -- इत्येतत् सर्वमप्यधिकृत्य स कथितवान् । स तस्य पुरतो यत् किमपि - सर्वथा दुःखमयमपि विषयं कथयितुं सङ्कोचं नैव कृतवान् । स स्वीयं शल्यं तदने प्रकाशितवान्, तस्मिन् दिने नगरं प्रति गमनार्थं कथं स कुटीरान्निर्गत्य नावा नदी तीर्णवान्, कथं च नदी तं प्रति परिहसितवती - इत्येतत् सर्वमपि तस्याऽग्रे निवेदितवांश्च । ___ यथा यथा स स्वकथनमनुवर्तितवान् यथा च वासुदेवः प्रसन्नया मुद्रया तत् श्रुतवान्, तथा तथा सिद्धार्थेनाऽत्यन्तं सूक्ष्मतया सावधानतया च वासुदेवस्य पूर्णाऽनन्यवृत्तिरनुभूता । तस्य सर्वा अपि व्यथाः चिन्ता दुराशाश्च यथा वासुदेवं प्रति प्रवहिताः शुचीभूय पुनरपि च तं प्राप्ताः सन्तीति सोऽनुभूतवान् । स्वीयशल्यस्य तदग्रे निवेदनं नाम सर्वथां शीतलीभवनं यावन्नद्यां स्नानं, प्रान्ते च नद्यै क्यमेव ! यथा यथा स कथितवान् आत्मनिवेदनं च कृतवांस्तथा तथा तेनाऽनुभूतं यदयं नास्ति सम्प्रति वासुदेवः, नास्ति चाऽयमितः परं कश्चन श्रवणनिरतो मनुष्यः, प्रत्युत सोऽनुभूतवान् यदेष निश्चलः श्रोता, तस्याऽऽत्मनिवेदनं, वृक्षो वर्षाजलमिव, प्रतिलवं निपिबन्नस्ति, यदयं निःस्पन्दो जनः स्वयमेव नद्यस्ति ननु !, अथवाऽयं स्वयमेव देवोऽस्ति, शाश्वततत्त्वं वाऽस्ति । यथा यथा च सिद्धार्थः स्वविषयकात् स्वीयशल्यविषयकाच्च चिन्तनात् निवृत्तो जातस्तथा तथा वासुदेवस्य परिवर्तनविषयकेण बोधेन स आक्रान्तो जातः । यथा यथा च स इमामनुभूतिमात्मसात् कृतवान् तथा तथा तद्विषयिकी अपरिचितता तस्याऽल्पत्वं प्राप्ता, तथा सोऽनुभूतवानपि यत् सर्वमपि स्वाभाविकं सुस्थं चाऽस्तीति । तथा वासुदेवोऽपि चिरादेव, प्रायः सर्वदाऽपि एतादृश एवाऽऽसीत् कथमपि भिन्नो नाऽऽसीत् । सोऽनुभूतवान् यद् यथा जना देवान् पूजयन्ति स्म तथैव सोऽपि वासुदेवं पूजयितुमारब्ध आसीत्, एतच्च चिराय नैव स्थास्यतीति च, यतोऽभ्यन्तरे तु स वासुदेवाद् वियोक्तुमारब्ध आसीत् । एतावता तस्य कथनं त्वनुवर्तमानमासीत् । यदा तस्य कथनं समाप्तं वासुदेवेन स्वीया किञ्चिद् विकला दृष्टिस्तस्योपरि निवेशिता । स किञ्चिदपि १०२ For Personal & Private Use Only Page #112 -------------------------------------------------------------------------- ________________ नैवाऽभाषत, परन्तु तस्य प्रशान्तवदनाद् वात्सल्यस्य प्रसन्नतायाश्च प्रभा प्रसरति स्म, सद्भावस्य प्रज्ञायाश्च छाया विलसति स्म । स सिद्धार्थहस्तं स्वहस्तेन गृहीत्वा तं नदीतीरेऽनयत् । ततस्तस्य पुरत उपविश्य नदीं प्रति दृष्ट्वाऽस्मयत् । स्नेहेनाऽकथयच्च - 'भवता नद्याः हास: श्रुतः, किन्तु ततोऽप्यधिकं बहु श्रोतव्यमस्ति । आवां शृणुयाव तावत्' । सर्वमपि शुभमशुभं च - एतेषां सर्वेषामपि सम्मीलनं नामैव जगदासीदिदं खलु । एतेषां सर्वेषामपि मीलनमेवाऽऽसीद् घटनाप्रवाहो नाम, जीवनसङ्गीतं नाम ! I यदा सिद्धार्थ ऐकाग्र्येण नदीम श्रौषीत्, सहस्रशः शब्दानां गानमश्रौषीत्, यदा च स शोकमयं हास्यमयं वा शब्दं नैव श्रुतवान्, यदा स स्वं केनचित् विशेषेण ध्वनिना नैवाऽबध्नात्, नाऽपि च तं ध्वनिमात्मसात् कृतवान्, किन्तु सर्वानपि श्रुतवान्, यदा च स सर्वमपि सामग्र्येणाऽद्वैतेन च श्रुतवान्, तदा सहस्रशो ध्वनीनां महागानं केवलमेकशब्दात्मकमेव जातम् - ओम् - पूर्णता इति । 'किं भवान् श्रुतवान् ?' पुनरपि वासुदेवो दृष्टिक्षेपेण पृष्टवान् । तस्य स्मितमुज्ज्वलमासीत्, यथा ओम् - नद्याः सर्वेष्वपि ध्वनिषु सर्वतः प्रसृतस्तथा तस्य स्मितस्य कान्तिरपि तस्य मुखस्य सर्वास्वपि वलिषु सर्वतः प्रसृता । यथा स स्वमित्रमुखमवलोकितवांस्तथा तस्य स्मितं प्रोज्ज्वलं जातम् । ततश्च सिद्धार्थस्य मुखेऽपि तदेव स्मितं प्रकटितम् । तस्य व्रणमुपशान्तं जायमानमासीत्, तस्य पीडाऽपस्त्रियमाणाऽऽसीत्, तस्याऽऽत्मा चैक्ये विलीयमान आसीत् । ततः क्षणादेव सिद्धार्थो नियतिं विरुध्य युद्धकरणात् निवृत्तो जातः । तस्य वदनोपरि; इच्छानां सङ्घर्षाद् यो निवृत्तोऽस्ति, यो मुक्ति प्राप्तोऽस्ति, यो घटनाप्रवाहेण सह जीवनप्रवाहेण च सह संवादितां भजति, यस्य चित्तं सहानुभूत्या करुणया च पूर्णमस्ति यः प्रवाहे एव समर्पितोऽस्ति सर्वेषामपि चैक्येन संस्थितोऽस्ति, तस्य वदने या ज्ञानानन्दस्य प्रभा विलसेत् सा, प्रभा विलसमानाऽऽसीत् । वासुदेवो नद्यास्तटादुत्थितः । यदा स सिद्धार्थस्य नेत्रयोर्निरीक्षितवान् तत्र च ज्ञानानन्दं प्रकाशमानं विलोकितवान्, स स्वीयेन सहृदय - सौम्यव्यवहारेण मृदुतया तस्य भुजं स्पृष्ट्वाऽकथयत् – 'मित्र ! अस्यैव क्षणस्य चिरप्रतीक्षा मया कृताऽऽसीत्, अधुना स क्षण उपस्थितोऽस्ति । इदानीमहं गमिष्यामि । अहं वासुदेवो नांविकतया चिरायाऽभवम् । अधुनैतत् समाप्तं जातमस्ति । स्वस्ति कुटीराय, स्वस्ति नद्यै, स्वस्ति च सिद्धार्थाय । सिद्धार्थोऽपि गच्छतस्तस्याऽग्रे सविनयं प्राणमत् कथितवांश्च मृदुतया भवान् वनं गच्छति किल ?' 'आम् अहं वनं गच्छामि, अहं समग्रस्याऽपि वस्तुजातस्यैक्यं प्रति गच्छन्नस्मि' – प्रोज्ज्वलवदनो वासुदेवोऽवदत् । एवं च स गतवान् । सिद्धार्थस्तं गच्छन्तं समवलोकितवान्, स गच्छन्तं तं महताऽऽनन्देन गौरवेण चाऽवलोकितवान् । तस्य प्रशान्तान् पादन्यासान्, देदीप्यमानं वदनं, प्रकाशमयं च सर्वमपि व्यक्तित्वं सोऽवलोकयन्नतिष्ठत् । O १०३ For Personal & Private Use Only - 'मया ज्ञातमासीदेतत्, किं Page #113 -------------------------------------------------------------------------- ________________ ८. गोविन्दः एकदा गोविन्दः, प्रसिद्धया गणिकया कमलया बौद्धभिक्षुभ्यो विहारार्थं समर्पिते क्रीडोद्याने कैश्चिदन्यैर्भिक्षुभिः सह कञ्चित् कालं विश्रान्त्यर्थमुषितवान् । तत्र च स वृद्धनाविकविषयिकी वार्ता श्रुतवान्, यः केवलमेकदिवसीयप्रवासान्तरे नदीतटे वसति स्म, जनेषु च सत्पुरुषतया प्रथित आसीत् । यदा गोविन्दस्ततः प्रस्थितस्तदा स नदीं गच्छता मार्गेणैव प्रस्थितः । यतो यद्यपि स स्वीयं समग्रं जीवनं भिक्षुसङ्घस्य नियमाननुसृत्यैव यापितवान् आसीत्, स्वस्य वयो नियममर्यादां विनीतत्वं चाऽऽश्रित्य युवभिक्षूणामादरपात्रमप्यासीत्, तथाऽपि तस्य हृदयमितोऽपि चाञ्चल्यं बिभर्ति स्म, सत्यान्वेषणेच्छा चाऽतृप्ताऽऽसीत् । नदीं प्राप्य स वृद्धनाविकाय नदीपारं प्रापयितुं प्रार्थयत । यदा तौ नदीपारं प्राप्य नौकातोऽवतीर्णौ तदा स वृद्धं तं कथितवान् – 'भवान् साधून् यात्रिणश्च प्रति भृशं सद्भावं दर्शयति खलु ! भवान् आस्माकीनान् बहून् साधून् नदी तारितवानसि । मन्ये, अहमिव भवानपि सन्मार्गगवेषक एवाऽस्ति किल?' सिद्धार्थस्य वृद्धयोनयनयोः स्मितज्योत्स्ना दृश्यते स्म । सोऽवदत् - 'किं भवान् स्वं मार्गगवेषकत्वेन गणयति खलु ? मान्यो भवान्, यो वर्षाणि यावद् भिक्षुत्वं प्रपन्नः सोऽपि एवं वदति खलु ?' गोविन्देनोक्तं- 'यद्यप्यहं वृद्ध एव, तथाऽपि मयाऽन्वेषणं नैव त्यक्तं, कदाऽप्यहं तन्नैव त्यक्ष्याम्यपि। एषैव मम नियतिरस्ति । किन्तु मन्ये यद् भवान् किञ्चिदुपलब्धवान् अस्ति इति । मित्र ! किं भवान् तद्विषये किञ्चिद् कथयति वा माम् ?' सिद्धार्थनोक्तं - 'भवते मूल्यवद् भवेदित्येवं किं वाऽहं वदानि ? केवलं, भवान् प्रायः सत्यान्वेषणार्थं भृशं प्रयतते, तत्परिणामतश्च भवान् तन्न लब्धुं शक्तः स्यात् - इति' । 'एतत् कथं वा स्यात् ?' 'यदा कश्चनाऽन्वेषणे रतो भवति तदाऽनायासमेव स यदन्वेषणे लग्नस्तदेव स पश्यति ततश्च सोऽन्यत् किञ्चिदपि प्राप्तुं नैव शक्नुयात्, किञ्चिदप्यङ्गीकर्तुं नैव सिद्धो भवेत्, यतः स केवलं तस्मिन् विषय १०४ For Personal & Private Use Only Page #114 -------------------------------------------------------------------------- ________________ एव चिन्तयन् भवति, स ध्येयनिष्ठो भवति, स ध्येयेनैवाऽऽविष्टो भवति । अन्वेषणं नाम - ध्येयसहितेन भवितव्यं, किन्तु प्राप्तिर्नाम मुक्तिः, सर्वग्रहणशीलता, ध्येयविहीनता वा । भोः सत्पुरुष ! यद्यपि भवान् सत्यान्वेषकोऽस्ति, स्वध्येयार्थं नितरां प्रयत्नशीलोऽप्यस्ति, किन्तु तत एव भवतो दृष्टेः समक्षमेव यानि वस्तूनि सन्ति तान्यपि भवान् द्रष्टुं न क्षमः । 'अहमितोऽपि भवतः कथनस्य भावार्थं नैवाऽवगच्छामि ननु ! किं वाऽभिप्रैति भवान् ?' - गोविन्दोऽपृच्छत् । 'भो मान्य ! एकदा भवान्, बहु वर्षेभ्यः पूर्वं, नद्या अस्यास्तटे आगतः, जनमेकं चाऽत्र शयानं दृष्टवान् । भवान् तद्रक्षणार्थं तत्समीप एवोपविष्टः किन्तु तमभिज्ञातुं नैव प्रभुर्जातो भो गोविन्द !' । आश्चर्यचकितो मन्त्रमुग्धश्च जातः स भिक्षुर्नाविकं निरीक्षितवान् । 'भवान् सिद्धार्थोऽस्ति खलु ?' - स कातरतया पृष्टवान् । 'अहं भवन्तमिदानीमपि नैव प्रत्यभिज्ञातवान् । भवतः पुनदर्शनं जातमित्यतोऽत्यन्तं प्रसन्नोऽस्मि भोः ! सिद्धार्थ ! अतीव हृष्टोऽस्मि । भवान् बहु परावर्तनं प्राप्तोऽस्ति मित्र ! किमिदानीं भवान् नाविकः संवृत्तोऽस्ति वा ?' सिद्धार्थः सस्नेहं हसितवान्, 'आम् अहं नौचालको जातोऽस्मि । बहुभिर्जनैर्बहुशः परावर्तनं प्राप्तव्यं भवति, नैकविधानि च वस्त्राणि परिधातव्यानि भवन्ति । अहमपि तेषामन्यतम एव प्रियसखे ! । भवतोऽत्र स्वागतमस्ति गोविन्द !, अहं भवन्तं मे कुटीरे रात्रियापनार्थमामन्त्रयामि' । गोविन्दस्तस्यां रात्रौ कुटीर एव न्युषितः, वासुदेवस्य चैव शय्यायां शयितवान् । स बाल्यकालीनाय स्वमिंत्राय बहून् प्रश्नानपृच्छत्, सिद्धार्थश्च स्वजीवनविषयकान् बहूनंशान् तस्याऽकथयत् । प्रातर्यदा गोविन्दस्य गमनकालः सन्निहितस्तदा किञ्चित् स्खलद्वाक् सन् स सिद्धार्थमुक्तवान् - 'मित्र ! मम गमनात् पूर्वमहमितोऽप्येकं प्रश्न प्रष्टुमिच्छामि तावत् । भवान् कं सिद्धान्तं कां वा श्रद्धां किं वा ज्ञानमवलम्बते यद् भवते सम्यग् जीवितुमुचितं च कर्तुं सहायं करोति ?' सिद्धार्थेनोक्तं – 'भवान् जानात्येव मित्र ! यत् तारुण्येऽपि यदाऽऽवां श्रमणीभूय वनेऽवसतां तदाऽपि अहं सिद्धान्तेषु गुरुषु वा नैव श्रद्दधामि स्म, प्रत्युत तान् पृष्ठतः करोमि स्म । अहमिदानीमपि तादृशीमेव विचारधारां दधामि, एवंसत्यपि ततः कालादेवाऽद्ययावत् मे बहवो गुरवः सञ्जाताः । एका सुन्दररूपवती गणिका चिराय मे गुरुरासीत्, एवं कश्चन धनिको वणिक् द्यूतक्रीडकश्चाऽपि मे गुरू अभवतम् । एकस्मिन्नवसरे तु पर्यटनं कुर्वाणो महात्मनो बुद्धस्य कश्चन शिष्योऽपि मे गुरुः सञ्जातः । अरण्यमध्ये गाढनिद्रावशगस्य मम रक्षणार्थं स स्वीयां यात्रामपि रुद्धवा मत्पाā उपविष्ट आसीत् । अहं तत्सकाशादपि किञ्चिच्छिक्षितवान्, एतदर्थं चाऽहं तस्य कृतज्ञोऽस्मि, भृशं कृतज्ञः । एवं स्थितेऽपि अधिकं ज्ञानं तु मया अस्या नद्याः सकाशात् मे पूर्वगामिनश्च वासुदेवस्य सकाशादेव प्राप्तमस्ति । स हि सर्वथा सामान्यो जन आसीत्, विचारकस्तु नाऽऽसीदेव, तथाऽपि गौतमबुद्धवत् स जीवनस्य सारभूतं तत्त्वं १०५ For Personal & Private Use Only Page #115 -------------------------------------------------------------------------- ________________ जानाति स्म । वस्तुतः स एकः पवित्रो मनुष्य एकः सत्पुरुष आसीत्' । गोविन्द उक्तवान् – 'सिद्धार्थ ! मन्ये यद् भवते अद्याऽपि विनोदकरणं किञ्चिदिव रोचते । अहं भवन्तं श्रद्दधे, जानामि च यद् भवता कस्यचनाऽपि गुरोरनुसरणं नैव कृतम् । किन्तु, एतावताऽपि भवतः स्वयंसिद्धमेव किञ्चन ज्ञानं, केचन सिद्धान्ता विचारा वा न सन्ति यत्साहाय्येन भवान् सुखेन जीवति ? यदि भवानत्र विषये कञ्चित् कथयेत् तदा मे महान् सन्तोषो भविता' । सिद्धार्थः कथितवान् – 'आम्, ममाऽपि केचन विचाराः किञ्चिच्च ज्ञानमासीदेव । कदाचिच्च मुहूर्तमात्रं दिनार्धं वाऽहं ज्ञानविषयिकीं जागृतिं वहामि, यथा कश्चन स्वचित्ते कदाचिद् जीवनविषयिकीं जागृतिं धारयति । तथा ममाऽपि बहवो विचारा आसन्नेव किन्तु तेषां भवदग्रे निरूपणं मत्कृते कष्टदं स्यात्। अथाऽप्येको विचारो मां सदाऽपि आकृषति गोविन्द !, यत् - प्रज्ञाया: सङ्क्रमणं सर्वथाऽशक्यमस्ति । यदि कश्चन प्राज्ञो जनो प्रज्ञां कस्मैचिद् वितरीतुं प्रयतते तदा तदज्ञानमेव मे प्रतिभाति' । 'किं भवान् परिहासं करोति वा ?' ‘नैव भोः ! । मया यदाविष्कृतमस्ति तदेव भवते कथयन्नस्मि । ज्ञानं हि परस्मै दातुं परस्मिन् वा सङ्क्रमयितुं शक्यं, न तु प्रज्ञा । कश्चन तां समासादयेत्, तया स्थिरो भवेत्, तामुपयुज्य च चमत्कारानपि कुर्यात् किन्तु तस्या वितरणं सङ्क्रमणं शिक्षणं वा कर्तुं तु सर्वथाऽशक्यम् । अहं तारुण्य एवैतस्मिन्नर्थे साशङ्क आसम् । अनेनैव च कारणेनाऽहं गुरूणां सान्निध्ये स्थिरो नैव जातः । अन्योऽप्येको विचारोऽस्ति गोविन्द ! यं भवान् परिहासं मूर्खत्वं वा मन्येत । स चैवमस्ति - प्रत्येकं सत्यस्य विपर्ययोऽपि समानतयैव सत्यमेवाऽस्ति । उदाहरणार्थं, यदि किञ्चित् सत्यमेकपक्षीयं स्यात् तदैव तत् शब्दैरभिव्यज्येताऽऽव्रियेत वा । प्रत्येकं विचाररूपं शब्दैश्चाऽभिव्यज्यमानं वस्तु एकदेशीयं सत्यमर्धसत्यम् । तस्मिन् साकल्यं पूर्णत्वमैक्यं वा नैवाऽस्ति । यथा, यदा महात्मा बुद्धो जगद्विषयकं तथ्यमुपदिष्टवांस्तदा तेन तत् संसारो निर्वाणं चेति द्विधा विभक्तव्यमापतितं; एवं सत्यं भ्रान्तिश्च बन्धनं मुक्तिश्च इत्यादि । अन्यथा च नैतच्छक्यमस्ति । उपदेष्टृणां कृतेऽन्या काऽपि पद्धतिरेव नाऽस्ति । एवं सत्यपि जगदिदं - अस्मदन्तः अस्मत्परितश्च वर्तमानं हि न कदाऽप्येकदेशीयमेकाङ्गीयं वा भवति । कञ्चनाऽपि मनुष्यः किञ्चित् कृत्यं वाऽपि च सर्वथा संसाररूपं निर्वाणरूपं च वा नैव भवति । कोऽपि जन: सर्वथा पापी सर्वथा च सज्जनो वा नैव भवति । किन्तु अस्माकं यदेवं प्रतिभाति तत्र "कालः सद् द्रव्यमस्ती' 'ति भ्रम एव कारणम् । कालस्तु सद्द्द्रव्यं नास्त्येव गोविन्द ! | अहं बहुश एतदनुभूतवानस्मि । एवं च यदि काल एव सत् नाऽस्ति तदा जगत: शाश्वततत्त्वस्य च मध्ये, दुःखस्य आनन्दस्य च मध्ये, पुण्यस्य पापस्य च मध्ये या भेदरेखा दृश्यते सा केवलं भ्रम एवाऽस्ति' । 1 'एतत् कथं स्यात् ?' गोविन्दः ससम्भ्रमं पृष्टवान् । 'पश्यतु मित्र ! अहं पापी अस्मि भवान् पापी अस्ति । किन्तु कदाचित् पापी ब्रह्मस्वरूपो भविष्यति, 1 १०६ - For Personal & Private Use Only Page #116 -------------------------------------------------------------------------- ________________ निर्वाणं प्राप्स्यति, बुद्धो भविष्यत्येव । अथाऽत्र यदिदं 'कदाचित्' इत्यस्ति तद् भ्रम एव, तद्धि केवलमुपमानमेवाऽस्ति । पापी हि बुद्धत्वप्राप्तेर्मार्गे नैव वर्तते, उत्क्रमणार्थं च नैव प्रयतते कदाऽपि । किन्तु वयमन्यरीत्या चिन्तयितुमालोचयितुं वा नैव प्रभवामः । वस्तुतः सम्भाव्यतारूपो बुद्धः पापिन्यपि विद्यत एव । तस्य भविष्यत् तत्राऽस्त्येव । शक्यस्वरूपोऽयं बुद्धः सुषुप्तो बुद्धस्त्वयि मयि तस्मिन् सर्वस्मिश्चाऽपि प्रतिपत्तव्य एव भवति । गोविन्द ! जगदिदं हि नाऽस्त्यपूर्णं नाऽपि च दीर्घपथेन पूर्णत्वं प्रति उत्क्रान्तिमत् । तत् तु प्रतिक्षणं सर्वथा पूर्णमेवाऽस्ति । प्रत्येकं पापमन्तर्निहितपुण्यबीजमेव भवति, प्रत्येकं शिशुर्वार्धक्यसम्भावनां स्वस्मिन् धारयत्येव, प्रत्येकं स्तनन्धये मृत्योः शक्यता निहिताऽस्त्येव, प्रत्येकं मरणासन्नो स्वस्मिन् शाश्वततत्त्वं धारयत्येव । इतरो जनो मार्गे कियद्दूरे वर्तते इति ज्ञातुं न केनाऽपि शक्यते । यतः, कस्मिंश्चिल्लुण्टाके द्यूतकारे वाऽपि बुद्धो वर्तेत, कस्मिंश्चिच्च ब्राह्मणेऽपि लुण्टाको विद्येताऽपि । गाढध्यानवेलायां समाधौ वैव कालातिक्रमणं शक्यं, युगपदेव भूत-वर्तमानानागतं च द्रष्टुं शक्यं; ततश्च प्रत्येकं वस्तु पूर्णमेव, शुभमेव, ब्रह्मैव । अतो ममेदं प्रतिभाति यद् अस्तित्वयुतं प्रत्येकं वस्तु शुभमेवाऽस्ति - मरणं जीवनं चाऽपि, पापं च पुण्यं च, वैदुष्यं च मूर्खत्वं चाऽपि । प्रत्येकं वस्तु यथावस्थितं सुन्दरमेवाऽस्ति, प्रत्येकं वस्तु ममाऽनुमति ममाऽभ्युपगमं चैवाऽपेक्षते, मम स्नेहं सद्भावमेव च प्रतीक्षते । यद्येतत् स्यात् तदा मम सर्वत्र-सर्वदा च शुभमेव भवति, न किञ्चिदपि च मामुपद्रोतुं पीडयितुं वा समर्थं भवति । अहं मे शरीरादात्मनश्च सकाशात् बढेव शिक्षितवान् यथा - मया पापं कर्तव्यमनिवार्यमासीत्, कामासक्तिमत्कृते आवश्यक्यासीत्, धन-वैभवप्राप्त्यर्थं मया प्रयतनीयमासीत्; निर्वेदो निराशायाश्च परिसीमा, तत्प्रतीकारकरणं यया रीत्या विस्मरेयं, सर्वस्याऽपि जगतः प्रेम कर्तुं शिक्षेयं, केनचित् काल्पनिकतया पूर्णेन जगता तस्य तोलनं च न कुर्यामहं किन्तु तत् यथावत् स्वीकुर्यां, तस्मिन् स्निह्येयं, अहमपि च तस्यैवांऽशोऽस्मि - इत्येतदर्थं प्रमुदितो भवेयं, तया रीत्या मयाऽनुभवितव्यैवाऽऽसीत् । गोविन्द ! एते एतादृशाश्चाऽन्ये विचारा मम मस्तिष्के सन्ति' । ततः किञ्चिदानम्य सिद्धार्थेनैकः पाषाणखण्डो गृहीतो गोविन्दस्य च दर्शयित्वा कथितं - 'पश्यतु, अयमेकः पाषाणखण्डोऽस्ति, कियच्चित्कालानन्तरं ह्येष उर्वरामृत्तिकारूपेण परिणतो भविष्यति ततश्च वृक्षरूपेण पशुरूपेण मनुष्यरूपेणाऽपि वा परिणतिं प्राप्स्यति कदाचित् । पूर्वं तु मया पाषाणखण्डं दृष्ट्वा कदाचिदेवं कथितं स्यात् – एष तु केवलं कश्चन प्रस्तरखण्डः, अस्य न किमपि मूल्यं महत्त्वं वा, मायास्वरूपस्य जगतोऽश एषः, किन्तु परावर्तमाने जगति कदाचिदेष मनुष्यत्वं ब्रह्मत्वं चाऽपि प्राप्तुं समर्थः, अत एव चाऽस्य महत्त्वमस्तीति । किन्त्वधुनाऽहमेवं चिन्तयामि यदेष पाषाणखण्ड: पाषाणस्त्वस्त्येव, एष पशुर्देवो बुद्धश्चाऽप्यस्ति । अहं तमेतदर्थं नैव पूजयामि प्रीणामि वा यदेष पुरा कश्चनाऽऽसीत् भविष्यति चाऽन्यविधः कश्चन भविष्यति, किन्तु स पूर्वमेव सर्वरूपोऽस्त्येव सर्वकालं चाऽपि सर्वरूपोऽस्ति । अहमेनं प्रीणामि यतः अयं प्रस्तरोऽस्ति, अद्याऽधुना च स मे प्रस्तरयाऽध्यक्षीभवन्नस्ति । तस्य प्रत्येकं रेखाः, सूक्ष्माण्यङ्कनानि, लघूनि छिद्राणि, पीत-धूसरादिवर्णाः, काठिन्यं, तदभिघातशब्दः, तस्य शुष्कत्वं क्लिन्नत्वं १०७ For Personal & Private Use Only Page #117 -------------------------------------------------------------------------- ________________ वा चेति सर्वत्र किञ्चिन्मूल्यवत्ता सार्थकता च विद्यत एव । तादृशाः पाषाणखण्डा भवन्ति ये तैलमया इव फेनकमिव वा भासन्ते, अथवा पर्णवत् रेणुवद् वाऽपि भासन्ते, प्रत्येकमेते भिन्न-भिन्नाः, स्वकीयपद्धत्यैव च ओङ्कारमुपासते, प्रत्येकमपि च ब्रह्मण एव स्वरूपाणि । किन्तु समकालमेव एते प्रस्तरस्वरूपा अपि सन्त्येव, भवन्तु नाम तैलमया फेनकसमा वा । एतदेव मां प्रीणयति अद्भुतं च प्रतिभाति, उपासनार्हं च भासते । किन्त्वेतद्विषयेऽहमधिकं न किञ्चिद् वक्ष्ये । यतः शब्दैविचाराणामभिव्यक्तिः सम्यङ् नैव जायते । यदा वयं विचाराणामभिव्यक्तिं कुर्याम तदा सर्वदा ते किञ्चिदिव परावर्तन्ते, किञ्चिद् विकृता भवन्ति स्वल्पतया मूर्खत्वयुता अपि भवन्ति । एवं सत्यपि, एकस्य जनस्य यन्मूल्यवत् प्रज्ञापरं च भासते तदेवेतरस्याऽसम्बद्धमनर्थकं च भासते – इत्येतदपि मां प्रीणयति समुचितं च भासते' । गोविन्दः शान्त्या शृण्वन्नासीत् । किञ्चिन्मौनानन्तरं तेन स्खलद्वाचा पृष्टं – 'किमर्थं भवान् मे पाषाणविषयकं कथनं कथितवान् ?' 'अहो ! तत् त्वहं विना कञ्चनाऽऽशयमेव कथितवान् । किन्तु कदाचित् तदेवमपि ज्ञापयति यन्मे - पाषाणो, नदी, सर्वाणि चाऽन्यानि वस्तूनि यानि वयं पश्यामः यतश्च वयं किञ्चित् शिक्षामहे - तत् सर्वमपि रोचते । अहं पाषाणमपि प्रेमविषयं कर्तुं शक्नोमि, वृक्षं वल्कलखण्डं वाऽपि च । एतानि सर्वाण्यपि वस्तून्येव, तानि च कश्चन प्रीणात्येव । किन्तु शब्दानहं नैव प्रीणीयाम् । ततश्चोपदेशा मत्कृते न किञ्चिदुपयोगिनः, यतस्तेषु नास्ति काठिन्यं, न मार्दवं, नैव वर्णाः, नाऽपि कोणाः, न हि गन्धः, न च स्वादः । ते हि अन्यत् किञ्चिदप्यभूत्वा केवलं शब्दा एव सन्ति । एते शब्दा एव भवन्तं शान्तिप्रापणे बाधकाः स्युः कदाचित् । अस्मिन् जगति अत्यधिकाः शब्दाः सन्ति, मोक्षार्थं गुणार्थं चाऽपि बहुशो बहवः शब्दाः प्रयुज्यन्ते, अतो मन्येऽहं यत् संसारो निर्वाणं चेत्यादयः केवलं शब्दा एव गोविन्द ! । निर्वाणं नाम न किञ्चित् सत् तत्त्वं, परन्तु केवलं शब्द एव' । गोविन्देनोक्तं – 'भोः ! निर्वाणं न केवलं शब्दः, तत् तु विचारोऽस्ति मित्र !' । सिद्धार्थोऽनुवर्तितवान् – 'भवतु स विचारः, किन्तु मया स्वीकर्तव्यमेवैतद् यन्मम दृष्टौ विचारस्य शब्दस्य च मध्ये नाऽस्ति भूयान् भेदः । स्पष्टं वदामि चेत् अहं विचारान् महत्त्वयुतान् नैव मन्ये । उदाहरणार्थं कथयामि – अत्र नाविकरूपेणैको मनुष्य आसीद् यो हि मे पूर्वगामी गुरुश्चाऽऽसीत् । स एकः पवित्रो मानव आसीत् यो वर्षाणि यावत् केवलं नद्यामेव विश्वसितवान् नाऽन्यत्र कुत्रचित् । नद्या ध्वनिस्तेन सह भाषते इति स लक्षितवान् । स तत एव शिक्षितवान्, ध्वनिश्च तमध्यापितवान् पाठितवांश्च । नदी हि तस्य कृते भगवानासीत् । बहूनि वर्षाणि यावदेतदपि नैव ज्ञातवान् स यत् प्रत्येकं वायुः, प्रत्येकं मेघः, प्रत्येकं पक्षी, प्रत्येकं भ्रमरश्चाऽपि समानतयैव दिव्या ज्ञानवन्तो नदीवच्च बोधदानाय समर्था एव । किन्तु यदाऽयं पवित्रो जनो वनं गतवांस्तदा स सर्वमपि ज्ञातवान्, विनैव गुरुं पुस्तकानि च स भवत्तो मत्तश्चाऽप्यधिकतया ज्ञातवान्, यतः स नद्यां पूर्णतया विश्वसिति स्म' । गोविन्देन कथितं – 'किन्तु भवान् यं पदार्थं वस्तुरूपेण जानाति स किं वास्तविकस्तात्त्विकश्च ? १०८ For Personal & Private Use Only Page #118 -------------------------------------------------------------------------- ________________ किं स मायाया भ्रामकं रूपं नास्ति किल? केवलं प्रतिबिम्बमाभासो वा? भवतः पाषाणो भवतो वृक्षश्च - किमेतौ वास्तविकौ वा ?' 'एतदपि नास्त्येव मत्कृतेऽधिकक्लेशकरं ननु । यद्येते आभासरूपाः स्युस्तदाऽहमपि तादृगेव, ततश्चैतेषां मम च स्वभावः सदृश एव खलु ! एतदेव तत्त्वं तान् प्रेमार्हान् उपास्यांश्च करोति । एतदर्थमेव चाऽहं तान् प्रीणामि । ममैकः सिद्धान्तोऽस्ति यं ज्ञात्वा भवान् हासमपि करिष्यति । गोविन्द ! ममैवं भाति यदत्र जगति प्रेमैव सर्वथोत्कृष्टः पदार्थः । महतां चिन्तकानां कृते तु जगतः परीक्षणं, तव्याख्यानं तस्य तिरस्करणं च महत्त्वयुतं प्रतिभायात् किन्तु मम मतेन तु जगतः प्रेमकरणमेव महत्त्वयुतं न पुनस्तिरस्करणम् । परस्परमप्यस्माकं द्वेषकरणं नैवोचितं किन्तु जगतः स्वेषां, सर्वेषामपि च जीवानां प्रेमस्नेहादरैः स्वीकरणार्थमस्माकं समर्थीभवनमेवोचितं महत्त्वयुतं च' । 'अहमवबुध्ये तत्, किन्तु भगवता बुद्धनेदमेव भ्रमो माया वा कथितम् । स कारुण्यं धैर्यं क्षमा सहानुभूति – सर्वमप्येतदुपदिष्टवान् न किन्तु प्रेम । सोऽस्माकं जागतिकप्रेमबन्धने पतनान्निषेधितवान् ।' ___ मधुरस्मितं कृत्वा सिद्धार्थेनोक्तं – 'गोविन्द ! अहं जानाम्येव तत् । तथा वयं शब्दानामर्थानां च विसंवादे कथं प्रवृत्ताः स्मस्तदप्युपलभ्यतेऽत्र । अहमेतत् प्रत्यादेष्टुं नैवेच्छामि यन्मे प्रेमविषयकाः शब्दा गौतमस्योपदेशेन सह स्पष्टतया विसङ्गताः सन्तीति । किन्त्वेतत्कारणादेव शब्देषु नैवाऽधिकं विश्वसिमि, यतोऽहं जानामि यदेषा विसङ्गतिहि केवलं भ्रमरूपैवाऽस्ति, अहं च गौतमेन सह सर्वथैक्यमनुभवामि । यो जगतोऽसारतां क्षणभङ्गरतां च सम्यक्तयाऽवबुद्धवान्, अथाऽपि यः सर्वेषु प्राणिषु स्निह्यन् तानुपदेष्टुमुपकर्तुं च स्वीयं समग्रमपि जीवनं व्ययितवान् समर्पितवांश्च स कथमिव प्रेमपदार्थं नैव जानीयात् न स्वीकुर्याद् वा ? अस्य महागुरोरिदमेव कृत्यं तच्छब्देभ्योऽप्यधिकं महत्त्वपूर्णं, तस्य कार्याणि जीवनं च तदभिप्रायेऽप्याधिक्येन महिमान्वितानि । अहं तं केवलं शब्दानां विचाराणां च कृते महात्मतया नैव सम्मानयामि किन्तु तस्य जीवनस्योत्तमकार्यजातस्य च कृते' । ततो द्वावपि वृद्धजनौ चिराय मौनमेवोपविष्टौ । ततो गोविन्देन गन्तव्यमासीदतः स उक्तवान् - 'सिद्धार्थ ! भवता स्वविचारा यत् प्रकाशितास्तदर्थं नितरां कृतज्ञोऽस्मि । तेषु केचन विचाराः किञ्चिदिव विलक्षणाः सन्ति, अहं शीघ्रतया तानाकलयितुमसमर्थोऽस्मि । तथाऽपि, भवतः उपकारं मन्ये, भवतो जीवनं शान्तिमयं भवेदित्याशासे च' । स यद्यप्येवं वदन्नासीत् तथाऽप्यन्तस्तले तु सोऽचिन्तयद् यत् - सिद्धार्थो हि विचित्रो जनो, विचित्रांश्च विचारानभिव्यनक्ति । तस्य कल्पना भ्रान्ता इव लक्ष्यन्ते । महात्मनो बुद्धस्य सिद्धान्तास्तु ततः कियन्तो भिन्नाः सन्ति खलु ! ते हि स्पष्टाः सरलाः सुबोधाश्च सन्ति, तेषु नास्ति किञ्चिद् विलक्षणमयुक्तिकमुपहासयोग्यं वा । एवं सत्यपि सिद्धार्थस्य हस्तौ, पादौ, नेत्रे, ध्रुवौ, श्वसनं, स्मितं, प्रणतिः, गतिश्चेति सर्वमपि तस्य विचारेभ्यो भिन्नरूपेण मां प्रभावितं करोति । भगवतो गौतमबुद्धस्य निर्वाणानन्तरं १०९ For Personal & Private Use Only Page #119 -------------------------------------------------------------------------- ________________ सिद्धार्थेन विना नाऽहं तादृशमेकमपि जनं न प्रत्यक्षीकृतवान् यं दृष्ट्वा 'अयं सर्वथा पवित्रो जनः' इति प्रतीतिः स्यात् । भवन्तु नाम तस्य कल्पना विचित्राः, स्युर्नाम च तस्य वचांसि निरर्थकानि, किन्तु तस्य दृष्टिस्तस्य च हस्तः, तस्य त्वक् केशाश्चेति सर्वमपि पवित्रतां, शान्ति, प्रसन्नतां, सौजन्यं, साधुतां चैव प्रसारयति; एतच्च मयाऽस्माकं महागुरोनिर्वाणानन्तरं न कुत्रचिदपि जने दृष्टमस्ति' । ___ एवं विचारयन् गोविन्दः संशयितचित्तः सन्नेव सिद्धार्थं प्रणतवान्, मौनेन शान्ततयोपविष्टं सिद्धार्थ स भावपूर्वकं नतः । ततस्तेनोक्तं - 'सिद्धार्थ ! आवां वार्धक्यग्रस्तौ जातावधुना । इतः परं जीवने आवां न कदाचिदपि परस्परं द्रक्ष्यावः । मम प्रियमित्र ! भवता शान्तिः प्राप्ताऽस्तीति साक्षात् विलोकयामि, तथैवाऽनुभवाम्यपि यन्मया सा नैव प्राप्ताऽस्ति । समादरणीयमित्र ! कृपया मे शब्दमेकं वा कथयतु यमहं सम्यगवबोद्धं शक्नुयाम् । सिद्धार्थ ! तादृशं किञ्चन मे ददातु यन्मम पथ्युपयोगि स्यात्, यतो मे पन्था हि प्रायः कठिनस्तमसाऽऽवृतश्चाऽस्ति' । निःशब्दः सिद्धार्थस्तं मृदुना प्रशान्तेन स्मितेन सह विलोकितवान् । गोविन्दः स्थिरतया तद्वदनमेव पश्यन्नासीत् - सौत्सुक्यं सस्पृहं च । दुःखसहनं, निरन्तरं सत्यान्वेषणस्य श्रान्तिनिरन्तरा च निष्फलता तस्य दृष्टौ संलक्ष्यते स्म । सिद्धार्थस्तल्लक्षित्वा स्मयमान एव तत्कर्णेऽत्यन्तं मन्दतयर्जुतया च कथितवान् – 'इतोऽपि किञ्चिन्निकटमायातु, इतोऽपि निकटम् । इदानीं मम ललाटे चुम्बनं करोतु' । ____एतन्निशम्य गोविन्दो यद्यपि किञ्चिद्विस्मितोऽभवत् तथाऽपि केनचिदकथ्येन संवेदनेन प्रेमाधिक्येन च वशीभूतः स तदादेशमनुसृत्य प्रह्वीभूतः सन् समीपमागतः स्वीयाधरद्वयेन च तस्य ललाटं संस्पृष्टवान् । संस्पृष्टमात्र एव तत्र किञ्चिदद्भुतं संवेदनं तेनाऽनुभूतम् । इतोऽपि तन्मानसे सिद्धार्थस्य विचित्राः शब्दाः प्रतिफलन्त आसन, इतोऽपि स कालस्य कल्पनामपास्तुं निरर्थकतया प्रयतमान आसीत्, संसारनिर्वाणयोरैक्यमवगन्तुं यत्नं कुर्वन्नासीत्, इतोऽपि च तन्मानसे मित्रस्य शब्दानधिकृत्य प्रकटितोऽनादरस्तं प्रति जातेन दुर्निवारप्रेम्णा पूज्यभावेन च सह विवदन्नासीत् तावतैवैतत् संवेदनं घटितम् । तस्येदानीं स्वमित्रस्य सिद्धार्थस्य वदनं नैव दृश्यते स्म, प्रत्युताऽन्यान्येव वदनानि स दृष्टवान्, बहूनि वदनानि, दी(काऽऽवलिरेव वदनानां, निरन्तरो वदनप्रवाहः - शतशः सहस्रशो वदनानि, यानि क्षणं स्थित्वाऽदृश्यीभवन्ति स्म, तथाऽपि च तत्रैव सन्तीति प्रतिभासमानानि आसन, यानि च प्रतिक्षणं स्वयमेव परावर्तमानानि नावीन्यं च प्राप्यमाणानि आसन्, तथाऽपि सर्वाणि सिद्धार्थसत्कान्येवाऽऽसन् । स कस्याश्चित् शफर्याऽतिमहत्तरया व्यादत्तं मुखं दृष्टवान्, कस्यचिन्मरणोन्मुखस्य निष्प्रभलोचनस्य मीनस्य मुखं दृष्टवान् । स कस्यचन नवजातस्य शिशो रक्तवर्णं वलीपूर्णं रोदनप्रवणं च मुखं विलोकितवान् । मनुजशरीरं छुरिकया प्रहरतः कस्यचित् हिंसकस्य मुखं स दृष्टवान्, समकालमेव च स तं हिंसकं मस्तकमानम्य जान्वोरुपविष्टं वधकेन च च्छिद्यमानमस्तकं दृष्टवान् । स कामकेलिरतानां स्त्री-पुरुषाणां शरीराणि - विविधमुद्रास्थितानि For Personal & Private Use Only Page #120 -------------------------------------------------------------------------- ________________ दृष्टवान् । स स्थिराणि शीतलानि शून्यानि विस्तीर्णानि च शवानि दृष्टवान् । स पशूनां, शूकराणां, मकराणां, करिणां, वृषभाणां, पक्षिणां च मस्तकानि दृष्टवान् । स कृष्णमग्नि च दृष्टवान् । स एतान् आकारान्, वदनानि चैतानि परस्परं सहस्रधा सम्बद्धानि, अन्योन्यं साहाय्यकराणि, स्निह्यमानानि, द्वेषकराणि, विनाशकराणि च दृष्टवान् । प्रत्येकमेतानि मरणशीलानि, उत्कटानि पीडाकराणि च क्षणभङ्गरत्वोदाहरणानि आसन् । एवंस्थितेऽपि तेषामन्यतमदपि नैवाऽम्रियताऽनश्यत वा, केवलं तानि परावर्तितानि, पुनर्जन्म प्राप्तानि, निरन्तरं च नूतनं वदनं धारयन्ति आसन् – केवलं काल एव नव-पुराणयोर्वदनयोर्मध्येऽतिष्ठत । एते सर्वेऽपि आकारा वदनानि च विरमन्ति स्म, प्रवहन्ति स्म, पुनर्जायन्ते स्म, अतीतं तरन्ति स्म, परस्परेण च संयुज्यन्ते स्म । तथैतेषां सर्वेषामप्युपरिष्टात् सातत्येन किञ्चित् सूक्ष्ममवास्तविकमप्यस्तित्वमयं, श्लक्ष्णकाचवद्, हिमवत्, पारदर्शकचर्मवत्, कवचवत्, जलावरणवत् वा विस्तृताकारं दष्टवान्, तच्चाऽऽवरणमासीत् सिद्धार्थस्य वदनं - स्मितपूर्णं वदनं, यत् स्वीयौष्ठाभ्यां गोविन्दस्तदा स्पृशन्नासीत् । गोविन्देन दृष्टं यदिदमावरणतुल्यं स्मितं, प्रवहमानानामाकाराणामैक्यतुल्यं स्मितं, सहस्रशो जन्म-मरणानां समकालीनत्वरूपं स्मितं - सिद्धार्थस्य स्मितमिदं सम्पूर्णतया तथैव मृदु, प्रशान्तं, गहनं, प्रसन्नं, सोपहासं, धीरं, सहस्रपुटयुतं चाऽऽसीद् यथा भगवतो गौतमबुद्धस्याऽऽसीत्, यच्च स सहस्रशः समादरेण विलोकितवानासीत् । यथा स पूर्णत्वं प्राप्तो भगवान् स्मयति स्म तथैवेदमपि सिद्धार्थस्य स्मितमासीत् । कालोऽस्ति न वेत्यतः परं सर्वथाऽजानानः, इदमपरोक्षं ज्ञानं क्षणमात्रस्थितिकमुत वर्षशतं यावत् स्थितमित्यप्यनवगच्छन्, अयं सिद्धार्थोऽस्ति किं वा गौतमोऽस्तीत्यनवबुध्यमानः, स्वमन्यांश्च प्रति सर्वथाऽनवधानः, दिव्यानुग्रहशरेण गाढं विद्धस्ततश्चाऽवर्णनीयसुखमग्नः, गहनानन्दमग्न उदात्तभावश्च गोविन्दः सिद्धार्थस्य प्रशान्तवदनस्य पुरतो बहुकालं यावत् तथैवाऽवनम्य स्थितवान्, यत् स इदमिदानीमेव चुम्बितवानासीत्, यच्चाऽतीतानागतानां सर्वेषामप्याकाराणामेकमास्पदं जातमासीत् । यदा चैते सहस्रशः आकारास्तान् प्रतिबिम्बयंश्चाऽयं सहस्रपुटो दर्पणो विलीना जातास्तदाऽपि तस्य मुखमुद्रा तु तथैव विलसन्ती आसीत् । स प्रशान्तं, मृदु; सोपहासं, सर्वथा च भगवतो बुद्धस्य सदृशं स्मितं कुर्वन्नासीत् । गोविन्दस्तं प्रति प्रणतिं कृतवान् । तस्य वृद्धे नयने मन्दमन्दमनियन्त्र्याणि अश्रूणि स्रवतः स्म । स दिव्यप्रेमानुभूत्या विनयपूर्णादरभावेन चाऽऽक्रान्तोऽभवत् । स भूमौ शिरः स्थापयित्वा सर्वथा स्थिरतयोपविष्टस्य सिद्धार्थस्य पुरतो वन्दनं कृतवान् - यस्य स्मितं, तस्य जीवने यत्र कुत्राऽपि तेन प्रेमानुभूतिः कृताऽऽसीत्, यत्किमपि च मूल्यवत् पवित्रं चाऽऽसीत्, तत् सर्वमपि स्मारितवत् । १११ For Personal & Private Use Only Page #121 -------------------------------------------------------------------------- ________________ अनुवादः तरणोपायः मुनिधर्मकीर्तिविजयः मनुष्येषु मूलत एवोत्तमत्वमंस्ति, सद्गुणान् प्रति निष्ठाऽस्ति । तासां सद्वृत्तीनां मूलोपरि समाजरचना करणीयाऽस्ति । अद्यावधि मानवमनः तथैव भूतकालस्य बन्धनेन, ग्रथिलमस्ति । अद्यतनकालस्य महत्यावश्यकाऽस्ति - मानसिकपरिवर्तनम् । समाजो मानवतानिष्ठो भवेत् - तथाविधं परिवर्तनमुपयोग्यस्ति | जीवनस्य सकलेष्वपि क्षेत्रेषु जनशिक्षणेन जनजागरणेन च शुभसंस्कारसेचनस्याऽऽन्दोलनमेव तरणोपायोऽस्ति । न धार्मिकवादो न संप्रदायवादो, न वैचारिकवादः, नाऽऽध्यात्मिकवादश्च इत्याद्यनाग्रहिचित्तधारका मानवीयतत्त्वोपासकाश्चाऽत्युपयोगिनः सन्ति साम्प्रतम् । ये नेतृत्वं नेच्छन्ति, अपि तु जीवनसाधनां लक्ष्यीकृत्य देशस्य कृते जीवनं समर्पयेयुः तादृशानां जनानां समाजो रचनीयोऽस्ति । अनेकान् जनान् प्रवचने गच्छतः पश्याम्यहं, मन्दिरे मस्जिदे च गच्छतः पश्याम्यहं तदा मे हृदि कम्पनं जागर्ति; आध्यात्मिकप्रवचनं कुर्वतां जनानां महत्सु सभासु सत्सङ्गेषु शिबिरेषु चाऽनेके जना गच्छन्ति । यदि आध्यात्मिकी जिज्ञासाऽपि जगतो लोकाचारो ( Fashion) भवेत्, असंस्कारिता व्यापारप्रवृत्तिरूपा च भवेत् तर्हि दुःखस्याऽन्त एव न स्यात् । महापुरुषाणां दर्शनं, तेषां शुभविचाराणां श्रवणं च करणीयमेव, किन्तु यदि तत्रैव समाप्तिर्भवेत् तर्हि समाजे नवीनतम दम्भः प्रसरिष्यति । ११२ For Personal & Private Use Only ले. विमला ठाकर (अध्यात्मनी अग्निशिखा) Page #122 -------------------------------------------------------------------------- ________________ ग्रन्थसमीक्षा 'संस्कृतकवितासृष्टिः' __ (संस्कृतकवितासंग्रहः) समीक्षकः डा. रूपनारायणपाण्डेयः [रचयिता तथा प्रकाशकः डा. रामकिशोरमिश्रः । आवासः - २९५/१४, पट्टीरामपुरम्, खेकड़ा - २५०१०१, उ.प्र., दूरभाषाङ्गाः (०१२१) २२३३५२७, पृ.सं. ११२, मूल्यम् १००/-] विविधविद्यासु विविधविषयान् समाश्रित्य सुरभारतीसाहित्यसमृद्धि संवर्धयन्तो विश्वविदिताः केचनैव विद्वांसः कवयो लेखकाश्च साम्प्रतं विराजन्ते, तेषु वार्धक्येऽपि संस्कृतग्रन्थानां प्रणयने प्रकाशने च निरतोऽस्ति डा. रामकिशोरमिश्रमहाभागः । तेनैव २०७०तमे विक्रमाब्दे संस्कृतकवितासृष्टिः प्राकाश्यं नीता। ___ ग्रन्थेऽस्मिन् - श्रीगरुडध्वजस्तोत्रम्, श्रीवृषमध्वजस्तोत्रम्, श्रीकिरणध्वजस्तोत्रम्, श्रीशारदास्तोत्रम्, मातृभूमिः, तृष्णा, भस्मासुरचरितम्, शनैश्चरचरितम्, वनदेवा, अश्वमेधयज्ञः, आनन्दमयजीवितम्, तारकं तीर्थम्, अम्बरीषचरितम्, त्रिपिण्डश्राद्धम्, मृत्योः पश्चान्न वैरम्, जगद्गुरुः, शुभविचारवान्, प्रजापतेरुपदेशः, दिव्यपुरुषप्राप्तिः, चतुर्माससमयः, सावित्रीचरितम्, अष्टावक्रचरितम्, अपालाचरितम्, यशोधराचरितम्, भामतीचरितम्, पुत्रमोहः, चैतन्यचरितम्, भारतराष्ट्रपतयः, ईश्वरकृपा, भारतस्य प्रधानमन्त्रिणः, तुलसीदासचरितम्, मृत्युः सत्यः, सत्यवतीचरितम्, भारतस्योपराष्ट्रपतयः, साधोरुपदेशः, सावरकरचरितम्, सुकन्याचरितम्, कचदेवयानीचरितम्, श्रीशशकध्वजस्तोत्रम्, शाकुन्तलशतकम्, ययातिदेवयानीशर्मिष्ठाशतकम्, शुक्राचार्यशापः, कपिलदेवोपदेशः, आत्मनियन्त्रणम्, ध्रुवचरितं चेति कविताः शोभन्ते । (पद्यसंख्या ८६७) यद्यपि ग्रन्थेऽस्मिन् कानिचन श्रीगरुडध्वजस्तोत्रादिकानि परिहाय प्रायशः सकला रचनाः पौराणिकानि पुरावृत्तानि समाश्रित्य सरलया भाषया नूतनया च विधया विरचिता विलसन्ति, तथाऽपि 'भारतराष्ट्रपतयः', 'भारतस्य प्रधानमन्त्रिणः', 'भारतस्योपराष्ट्रपतयः' चेत्यादयः काश्चन रचना आधुनिकछात्राणां कृते नितरामुपयोगिन्यः सन्ति । ते तासां पठनेन संस्मरणेन वा भारतस्य राष्ट्रपत्यादीनां नामानि कार्यावधि च सुगमतयाऽवगन्तुं शक्नुवन्ति । अत्र कालनिर्देशः समेषां सुबोधायाऽङ्कतोऽपि विहितः । वक्ष्यमाणयोः पद्ययोः प्रथमराष्ट्रपतेः कार्यकालो द्रष्टव्योऽस्ति । ११३ For Personal & Private Use Only Page #123 -------------------------------------------------------------------------- ________________ 'श्रीराजेन्द्रप्रसादोऽभूद् भारतस्य राष्ट्रपतिः । षड्विंशतिजनवरीव्योमशरनिधीश २६-१-१९५० तः ॥ त्रयोदशमयिनेत्ररसग्रहेश १३-५-१९९२ हायन - पर्यन्तं भारतरत्नं स मुदाऽकरोच्छासनम् ॥' (संस्कृतकवितासृष्टिः २७०-२७१) श्रीशारदास्तोत्रे संस्कृतभाषाया गौरवं सस्मर्यते कविवर्येण रम्यतया - 'वेदाश्च यत्र लिखिता ऋषिभिः प्रसिद्धाः, ग्रन्थाः कृता इह महाकविभिः प्रबन्धाः । नानाविधाश्च रचना प्रददाति या हि, तामत्र संस्कृतगिरा सततं नमामि ॥” (संस्कृतकवितासृष्टिः २०) भारतीयसंस्कृतेर्महनीयतत्त्वानि (मातृभक्तिः, तीर्थम्, आर्तरक्षा, त्यागः, सतीत्वम्, समता, राष्ट्रप्रेम) 'मातृभूमि', 'वनदेवी', 'तारकं तीर्थम्', 'अम्बरीषचरितम्', 'त्रिपिण्डश्राद्धम्', 'सावित्रीचरितम्', 'अपालाचरितम्', 'यशोधराचरितम्', 'भामतीचरितम्', 'चैतन्यचरितम्', 'सत्यवतीचरितम्', 'तुलसीदासचरितम्', 'सावरकरचरितम्', 'सुकन्याचरितम्' चेत्यादिकवितासु वर्णितानि सन्ति । तद्यथा - 'कौसल्या त्वमसि भूमे ! देवकी यशोदापि च । व्यचरन् त्वयि युद्धेषु शिवाजी - प्रतापादयः ॥' (सैव २४) 'सत्यस्तीर्थं क्षमातीर्थं तीर्थमिन्द्रियनिग्रहः । दया तीर्थं दमस्तीर्थं दानं च तीर्थं कथ्यते ॥' (सैव ९१) । 'निरीहदुःखिरक्षायै संघर्षेण दुःखैः सह । यो वीरगति प्राप्नोति स्वर्गे स हि सम्मान्यते ॥' (सैव १०४) 'विवाहो मे न भोगाय, जीवेद् विद्वत्परम्परा । सेवा तस्याऽऽवश्यकता येन स रचनां लिखेत् ॥' (सैव २४३) 'हरिदृष्टौ न कोऽप्युच्चो न नीचोऽत्र कोऽप्यस्ति भोः । आवयोरस्ति भेदो न यथाऽसि त्वं तथाऽस्म्यहम् ॥' (सैव २६८) 'तेषामेव कुसुमानां जीवनमस्ति सार्थकम् । यानि देवचरणेषु समर्प्यन्ते हि सादरम् ॥' (सैव ४१५) अत्र 'तुलसीदासचरितम्' इति कवितायां कविवृषभस्य गोस्वामितुलसीदासस्य जन्मस्थानं 'सोरोंशूकरक्षेत्रे' इति कथ्यते । परम्परया गोरक्षपुरस्थगीताप्रेसतः प्रकाशितेषु श्रीरामचरितमानसस्य च १. 'सत्यम्' इति पाठः स्यात् ।। २. 'सोरोंशूकरक्षेत्रेऽस्मिन्.... भार्याहुलसीजठरात्समुत्पन्न एकः शिशुः ॥' (सैव ३१४-३१५) ११४ For Personal & Private Use Only Page #124 -------------------------------------------------------------------------- ________________ विविधसंस्करणेषु तस्य जन्म राजपुरेऽभूत् - इति निगद्यते । अतो गो-तुलसीदासस्य जन्मस्थानसन्दर्भे मतभेदात् कस्याऽप्येकस्यैव निर्देशो न युज्यते । 'अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानान्तु वसुधैव कुटुम्बकम् ।। (सैव १२८) ... सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । (सैव १३१) सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् । प्रियं च नाऽनृतं ब्रूयादेष धर्मः सनातनः ।। (सैव १४८)' इत्यादिसूक्तानि ग्रन्थेऽस्मिन् सन्दर्भनिर्देशं विनैव संगृहीतानि । कस्याऽपि समादरणीयस्य कवेः कृतौ स्वकीयरचनात्वेन परकीयरचनानां समावेशः कथमपि समीचीनं न विद्यते । यद्यपि कृतिरियं प्रायशः मुद्रण-त्रुटिरहितास्ति तथाऽपि कानिचन स्खलितानि सन्ति । (द्र.पृ. ४८, ६२ इत्यादि) कृतिरियं सर्वथा सर्वैः, विशेषेण किशोरैः, संग्राह्या पठनीया च । जयति संस्कृतं संस्कृतिश्च । -x ११५ For Personal & Private Use Only Page #125 -------------------------------------------------------------------------- ________________ मर्म गभीरम् मुनिकल्याणकीर्तिविजयः (१) गाम्भीर्यम् गुरोः शिष्येणैकेनैकदा कश्चन गभीरोऽपराधः कृतः । अतोऽन्यैः शिष्यैरनुयायिभिश्च चिन्तितं यदद्य गुरुरेनमवश्यं दण्डयिष्यति । किन्तु यदा मासे व्यतीतेऽपि गुरुणा न किमपि कृतं कथितं वा तस्य तदा केनचिच्छिष्येण गुरोस्तत् स्मारयतेव कथितं – 'यज्जातमस्ति तत् सर्वथैव नाऽर्हत्युपेक्षाम् । किं बहुना कथितेन ? यतो भगवताऽस्मभ्यं सर्वेभ्यो नेत्रे प्रदत्ते स्तः' । 'आम्', इति सस्मितं प्रत्युत्तरं ददता गुरुणा कथितं – 'तथा नेत्रच्छदे अपि !!' । (२) विवादस्य निवारणं नाम.... अन्यदा गुरुणोक्तं यदेते मानसचिकित्सका यद्यपि केषाञ्चित् प्रश्नानां विवादानां वा समाधानार्थमुपकारका एव तथाऽपि तेषां मुख्यं कार्यं तु विवादस्योपशमनमेव न तून्मूलनं निवारणं वा । तेषां कृते समाधानं नाम अन्यस्मिन् सुखकरे विवादे चित्तस्याऽभिमुखीकरणं, येन पूर्वतनाद् विवादाच्चित्तं निवर्तेत । अत्र च विषये स एकमुदाहरणं कथितवान् – एकस्मिन् बस्-याने कश्चन यात्रिकः स्वीयेऽङ्के किञ्चन महाभारयुतं वस्तु वृत्तपत्रसंवेष्टितं धारयन्नुपविष्ट आसीत् । 'एतत् किमस्ति भोः ?' – याननिर्वाहकस्तं पृष्टवान् । 'अहो ! एतदस्त्यप्रस्फुटितमग्निनगोलकास्त्रम् । अहमेतदग्निशमनकार्यालयं प्रति नयन्नस्मि' इति तेनोक्तम् । 'अतीव भयानकमिदमस्ति भोः ! । भवतैतादृशं वस्तु स्वोत्सङ्गे नैव धारणीयं कदाऽपि । भवत आसन्दस्याऽधस्तात् तत् स्थापयतु तावत् !!' (३) चक्रकम् एको भूस्वामी गुरोः पार्वे आगतः । गुरुणाऽपि तत्कक्षामवगत्य तेन सहाऽन्यान्यविषयक: संलापः कृतः । ११६ For Personal & Private Use Only Page #126 -------------------------------------------------------------------------- ________________ सहसा स सनिःश्वासमवदत् – 'यदि यम स्वाम्ये इतोऽप्यधिका भूः स्यात् तदा वरम् !' । 'किमर्थं भोः! ? एतावताऽपि भवत्सकाशे पर्याप्ता भूरस्ति' – गुरुणा पृष्टम् । 'यद्यधिका भूः स्यात् तदाऽधिका गा: पालयेयम्' इति तेनोक्तम् । 'ततः किं स्यात् ?' 'गा विक्रीय धनमर्जयेयम्' । 'तेन किं स्यात् ?' 'अधिकां भुवं क्रीत्वाऽधिकाधिका गाः पालयेयम् !!' [त्रयमप्येतत् One Minute nonsense इति पुस्तकाधारेण लिखितम् ।] (४) अल्पः परिश्रम....... मुल्ला-नसीरुद्दीनो यद्यपि मेधावी सुचतुरश्चाऽऽसीत् तथाऽपि तद्व्यक्तित्वमालस्येन संभृतमासीत् । अत आदिनं किमपि कार्यमकुर्वन् स खट्वायां शयानो भवति स्म विविधं च कल्पनाजालं रचयति स्म । तत्पत्न्या गृहकार्याणि तु कर्तव्यान्येव भवन्ति स्म, बहिस्तादपि तयैव कार्यार्थं धावितव्यं भवति स्म । अत एकदा कुपितया तया सभर्त्सनं स उक्तः - 'किमित्यादिनं भवान् शयितः सन् दिवास्वप्नान् पश्यति ? अहं तु कार्याणि कुर्वती सती भृशं श्रान्ता भवामि तथाऽपि भवान् न किमपि लक्षयति ? अद्य भवान् विपणिं गत्वा पञ्च किलोमितांस्तण्डुलान् क्रीत्वा समानयतु, अन्यथाऽद्य भोजनं नैव पक्ष्यते !' ___ 'भोजनं विना कथं स्थातव्य'मिति चिन्तयन् नसीरुद्दीनो विमनस्कोऽपि सन् स्यूतं गृहीत्वा विपणि प्राप्तः । तत्र च धान्यविक्रेतुरापणं गत्वा तण्डुलस्य मूल्यं पृष्टवान् । आपणिकेनोक्तं 'किलोमितस्य दश रूप्यकाणी'ति । अनेनोक्तं – ‘एवं, तर्हि पञ्च किलोमितान् ददातु' । आपणिकेन चिन्तितं – 'जनोऽयं न कदाऽपि क्रयणार्थमागच्छति । प्रायशस्तत्पत्न्येव समागच्छति । मूर्खश्चाऽसौ परिलक्ष्यते । अतो यद्यस्मै न्यूनं तोलयित्वा दद्यां तदाऽपि नैव जानीयात् सः' । ततश्च स तस्मै यथाकथमपि तोलयित्वा न्यूनान् तण्डुलान् प्रदत्तवान् । नसीरुद्दीनेन तल्लक्षित्वाऽऽपणिकाय कथितं – 'भोः ! किमिति न्यूनान् तण्डुलान् ददाति ?' तदा नसीरुद्दीनस्याऽऽलस्यप्रियतां स्मृत्वा तेनोक्तं – 'भोः ! भवताऽल्पीयान् भार उन्नेतव्यः स्यादित्यतः !' तच्छ्रुत्वा स्मयन् नसीरुद्दीनः स्यूतमुत्पाट्य तण्डुलमूल्यं चाऽऽपणिकाय प्रदाय प्रस्थितः । आपणिकेन तत्प्रदत्तं धनं गणयित्वोच्चैः कथितं – 'भोः ! भवता किमिति चत्वारिंशदेव रूप्यकाणि प्रदत्तानि ?' गच्छतैव तेनोक्तं – 'भवतो गणनपरिश्रमोऽल्प: स्यादित्यतः !!' | ११७ For Personal & Private Use Only Page #127 -------------------------------------------------------------------------- ________________ कथा बालकस्य देशभक्तिः मुनिरत्नकीर्तिविजयः अय् ! कुत्र गच्छथ रे? - वप्रमुल्लङ्घ्य बहिर्गन्तुमुत्सुकान् त्रयोदशवर्षदेशीयान् पञ्चषांन् डिम्भान् मुख्यद्वारि स्थिता रक्षका: कठोरं पृष्टवन्तः । रक्षकाणां कठोररवेण सम्भ्रान्तचित्तास्ते बालकास्तत्रैव स्थिताः । ततश्च रघुनाथनामा साहसिको बाल उक्तवान् – 'पुरतः स्थित उद्याने आम्रफलान्यानेतुं गच्छामः ।' 'रे चलत, गृहं निवर्तयत... ! अकाण्डमेवाऽऽपदमामन्त्रयिष्यव । किं न जानीथ यदावश्यककार्यमन्तरेण वप्राद् बहिर्गमनं निषिद्धम् ?' - रक्षक उक्तवान् । 'किन्तु...' रघुनाथो निवर्तनं नेच्छति स्म । सहाऽऽगता डिम्भास्तु रक्षककृतभर्त्सनेनैव प्रतिगन्तुं सज्जा आसन् । 'आस्तां किन्तु परन्तु वा... ! यूयं स्त बालाः । न वर्तमानसंयोगस्य गाम्भीर्यमभिजानीथ । प्रतिपलमत्र दुर्गे आङ्ग्लानामाक्रमणस्य भयं प्रवर्तते । चलत, शीघ्रं निवर्तयत' – रक्षकः समीपमागत्य हस्तसंज्ञया सूचितवान् । रघुनाथः क्षणं विचारयन् स्थितः । कथमप्याम्रफलान्यद्याऽऽस्वाद्यान्येवेति तस्य प्रबलेच्छाऽऽसीत् । किन्तु दुर्गरक्षकस्य वचनस्योल्लङ्घनं न हितायेति शान्त्या तं बोधयितुकामः स्वपरिचयं दत्तवान् – 'अहं दुर्गपालस्य लक्ष्मणरावस्य पुत्रो रघुनाथोऽस्मि । अस्माकं बहिर्गमनं यद्यमस्यत तर्हि महती कृपा भविष्यति । त्वरयैव वयमाम्रफलान्यानीय प्रत्यागमिष्यामः' इति । परिचयं प्राप्य रक्षकः किञ्चिच्छिथिल इव जातः । स उक्तवान् - 'वत्स ! लक्ष्मणरावस्य त्वं पुत्रोऽसीति तवैकाकिनो गमनमनुमिनोमि । किन्त्वन्यैर्बालैस्तु निवर्तनीयमेव' - इति । रघुनाथस्तु मित्राणि परित्यज्य गन्तुं नोत्सुक आसीदतः साशङ्कः स तत्रैव स्थित्वा मित्राणि प्रति दृष्टिं कृतवान् । वयस्यास्तन्मनोगतमभिज्ञाय कथितवन्तः – 'रघो ! त्वमेकाक्येव गत्वाऽऽम्रफलान्यानय । वयं हि निवर्तयामः ।' ११८ For Personal & Private Use Only Page #128 -------------------------------------------------------------------------- ________________ 'भवतु, यूयं गृहं गच्छत । मां च प्रतिपालयत । सर्वेषां कृते आम्रफलान्यानीयाऽऽगच्छामि' - इत्युक्त्वा रघुनाथ एकल एव वनं प्रत्यगच्छत् । ग्रीष्मर्तुरासीत् । सूर्योऽप्यग्निमेव वर्षयतीव । तादृशादसह्यतापाद् स्वरक्षणाय शिरोवेष्टनं स समीपवर्तिनि निर्झरे आर्द्र कृत्वा शिरसि च परिधायोद्यानं प्रति चचाल । कतिपयनिमेषानुद्याने वृक्षस्याऽन्वेषणं कुर्वन् स आम्रफलभारैर्नम्रीभूतमाम्रवृक्षमेकं दृष्टवान् । रघुनाथः शीघ्रमेव वृक्षमधिरूढवान् । आम्रफलानि चिन्वन् सन्नेव स किञ्चिद् दूरं पितरमागच्छन्तं दृष्टवान् । आनन्दः समुद्भूतस्तच्चित्ते । उत्साहितः स वृक्षस्थित एव पितरमाकारयितुमुद्युक्तो जातः, किन्तु किञ्चिद् दृष्ट्वा तूष्णीमेवाऽभवत् । यत्तेन दृष्टं तत्र तस्य विश्वास एव न जातः । स्वप्नोऽयमुत सत्यमिति विकल्पस्तस्य चेतसि समुद्भूतः । अक्षिणी मर्दयित्वा स सावधानतया दृष्टवान् यत् सत्यमेव तस्य पिता केनचिदाङ्गलाधिकारिणा सहाऽऽगच्छन्नासीत् । आङ्ग्लाधिकारिणा सार्द्ध स्वस्य जनकं दृष्ट्वा तस्य चित्तं भ्रान्तमिव जातम् । आङ्ग्लानां चातुर्येण धूर्तत्वेन च स सम्यक् परिचित आसीत् । प्रथमस्य स्वातन्त्र्यसङ्ग्रामस्य ई.स. १८५७तमवर्षस्य ते दिवसा आसन् । समग्रेऽपि वातावरणे व्याकुलता उत्तेजना च प्रसृते आस्ताम् । जना अपि यत्र तत्र सम्मील्य स्वतन्त्रतायै युध्यमानानां सैनिकानां शौर्यं क्रान्तिमेव च चर्चयन्ति स्म । आबालवृद्धेषु जनेषु स्वदेशाभिमानं जागृतमासीत् । रघुनाथस्तु प्रायः त्रयोदशवर्षदेशीय एवाऽऽसीत् । का नाम क्रान्तिरित्यपि स सम्यग् नाऽवबुध्यति स्म । किन्तु, 'मातृभूमिरस्माकमाङ्ग्लशासकानामधीना वर्तते । तां च स्वतन्त्रां कर्तुं कारयितुं वा जनाः स्वातन्त्र्यान्दोलने भागं निर्वहन्ति' इति स जानाति स्म । तस्य पिता लक्ष्मणरावो हि क्रान्तिकारिणां सेनापतेः 'तात्याटोपे'महोदयस्य सैन्ये नायकपदारूढ आसीत् । तात्याटोपेमहोदय आङ्ग्लेभ्यः ग्वालियरस्य दुर्गं गृहीतवानासीत् । तत्र च तस्य पितरं दुर्गपालत्वेन नियुक्तवानासीत् । अतस्तद्गृहेऽपि बहवः क्रान्तिकारिणस्तत्पित्रा सह चर्चार्थं समागच्छन्ति स्म । रघुनाथोऽपि तेषां वार्तालापं सावधानं शृणोति स्म, तेन च तस्य चित्तमानन्दमनुभवति स्म । 'अहमप्येतादृशो देशभक्तो भविष्यामी'ति मनोरथमपि सेवते स्म सः । ग्वालियरस्य दुर्गस्य ह्यत्यन्तं व्यूहात्मकं महत्त्वमासीत् । तत्र प्राप्तेन पराजयेनाऽऽङ्ग्ला अत्यन्तं खिन्नाः कुपिताश्चाऽऽसन् । दुर्गं च पुनः स्वसात्कर्तुं ते बहुवारमाक्रमणं कृतवन्तः किन्तु तदा तदा घोरं पराजयमेव ते प्राप्तवन्तः । एवं वारं वारं जायमानेन पराजयेन ते चिन्तिता जाताः "किमत्र करणीयम् ? नैतद् बलेन ग्रहीतुं शक्यमतः कपटपूर्णेन चातुर्येणैव ग्राह्यम्" इति । ११९ For Personal & Private Use Only Page #129 -------------------------------------------------------------------------- ________________ 'मम पिता आङ्ग्लेन सह ?' - विचारमात्रेण स खिन्नो जातः । गृहे क्रान्तिकारिभिः सह चर्चाकाले आङ्ग्लानां नाममात्रेणैव यस्य मुखं रक्तवर्णं जायते, हस्तश्च खड्गं ग्रहीतुमुद्युक्तो जायते, समग्रायामप्याङ्ग्लजातौ तीव्र तिरस्कारं दधाति... एतादृशोऽपि मम पिता केनचिदाङ्ग्लेन सह हसन्नेवं वार्तालापं करोति ? हस्ततालदानपूर्वकं चाऽट्टहासमपि कुर्वते ??? - एवं विचारयन् रघुनाथः स्वं घनासु शाखास्वन्तरितं कृतवान् येन कस्याऽपि दृग्गोचरो न स्यात् । आङ्ग्लाधिकारिणा सह संलपन् लक्ष्मणराव तत्रैवाऽऽगच्छन्नस्ति यत्राऽऽम्रवृक्षे रघुनाथ उपविष्ट आसीत् । तस्यैव च वृक्षस्याऽध आगत्योभावपि तौ स्थितौ । अथ परस्परं जायमानो वार्तालापः स्पष्टतया रघुनाथस्य कर्णगोचरीभवति स्म । आङ्ग्लाधिकारी कथयन्नासीत् - 'लक्ष्मणराव ! एष दुर्गः कथमपि हस्तगतः करणीयोऽस्माभिः । किन्त्वस्माकं सर्वानप्याक्रमणान् तात्याटोपे विफलयति । तस्य सैनिकैस्तु हाहाकारः प्रवर्तितः सर्वनाऽस्माकं मध्ये । सहसैवाऽऽक्रमणं कृत्वा त्वरितमेव तिरोभवन्ति ते । परिणामतो हानिस्त्वस्माभिरेव वोढव्या भवति ।' 'महोदय ! चिन्ताकुलो मा भवतु । मदर्ह कार्यं चेत् सूचयतु । इदानीमहमेव दुर्गरक्षकोऽस्मि । मदधीनः सैनिकानां दलो ममाऽऽदेशं पालयितुं बद्धप्रतिज्ञोऽस्ति ।' – यद्यपि मन्दध्वनिना कथितवानासीद् लक्ष्मणराव: किन्तु रघुनाथेन तत्स्पष्टतया श्रुतम् । तस्य नेत्रे विस्फारिते जाते । "वाह ! एवं चेत् कार्यमस्माकं सरलमेव जातम् । भवन्तं प्रत्याभारप्रदर्शनं तु न पर्याप्तमस्ति !" - आङ्ग्लाधिकारी स लक्ष्मणरावं मधुमधुरया कपटगिरा प्रशंसितवान् । अनेनं तु लक्ष्मणरावोऽपि प्रसन्नो जातः । "लक्ष्मणराव ! भवति सहायके सति न कमप्यन्यमपेक्षामहे वयम् । कथयतु कीदृशं साहाय्यं भवान् करिष्यति' - किञ्चिद् विचार्याऽऽङ्ग्लाधिकारी कथितवान् । तच्छ्रुत्वा लोभाविष्टया दृष्ट्या लक्ष्मणरावस्तमधिकारिणं प्रति दृष्टवान् । स चाऽधिकारी तस्याऽऽशयमवबुद्धवान् - ओह, ज्ञातं भवदपेक्षितम् - इत्युक्तवांश्चाऽपि । स्वप्रावारकात् स लघुस्यूतमेकं निष्कासितवान् । तेन जायमानेन नाणकानां रणत्कारेण लक्ष्मणरावस्य नेत्रे दीप्ते जाते । तद् ग्रहीतुं स आक्रमणमिवैव कृतवान् । किन्तु तेनाऽधिकारिणा स्यूतं दूरीकृतम् । कपटहासेन चोक्तवान् – “अम्...हम्...प्रथमं तावत् कथयतु यत् कीदृशं साहाय्यं कर्तुं भवान् शक्नोति?" लक्ष्मणरावस्य मुखे क्षोभः प्रसृतः । तं गोपयितुमिव स हसन्नुक्तवान् – “होम्स् महाशय ! मयि विश्वसतु । ग्वालियरस्य दुर्गो भवदधीन एव इति निश्चित: !" अथ सोऽधिकारी धनस्यूतं लक्ष्मणरावायाऽपितवान् । तद्गतनाणकानां भारेणैव तस्य मुखेऽधम आनन्दः प्रसृतः । उत्साहितः स कथितवान् - १२० For Personal & Private Use Only Page #130 -------------------------------------------------------------------------- ________________ "होम्समहोदय ! अथ भवान् निश्चिन्तो भवतु । अद्य हि बहवः सैनिका इतोऽष्टादशक्रोशदूरं स्थिते तात्याटोपे-इत्यस्य दक्षिणशिबिरे गतवन्तः सन्ति । इदानी दुर्गेऽल्पङ्ख्याका एव सैनिका विद्यन्ते । तेभ्योऽपि बहून् सैनिकानहं मत्पक्षीयान् कृतवानस्मि । अद्य रात्रौ दुर्गस्य पूर्वद्वार्यहं नियुक्तोऽस्मि । मध्यरात्रौ दुर्गस्य लघुद्धारमपावृत्योल्मुकं प्रज्वाल्य सङ्केतयिष्यामि । सङ्केतेन सहैव भवताऽऽक्रमणं कर्तव्यम् । दुर्गश्च स्वसात्कर्तव्यः - इति । "अस्तु, अस्तु, एतावदेवाऽपेक्षितमस्माकम् । दुर्गे हस्तगते वयमपि राजानो भवानपि राजा !" - आङ्ग्लाधिकारी प्रशंसापुष्पैः स्वागतं कृतवान् लक्ष्मणरावस्य । ___लक्ष्मणरावोऽथ सविस्मयं पृष्टवान् – 'भवन्तस्तु राजान एवेति ज्ञातचरं, किन्तु कथमहं 'राजा' ? - इति न ज्ञातम् !' । 'अरे ! नाऽस्ति किमप्यसमञ्जसमत्र । भवता क्रियमाणं साहाय्यमुपलक्ष्य किमपि प्रतिकरणीयमेवाऽस्माभिः खलु ! । न पर्याप्तमधुना प्रदत्तं धनम् । दुर्गेऽस्मदधीने जाते भवतेऽपि भूसम्पदमुपदीकरिष्यामः । तथा भवानपि राजा भविष्यति खलु !" । लक्ष्मणराव एतच्छ्रुत्वा प्रसन्नो जातः । अट्टहासमेव कृतवान् सः । किन्त्वट्टहासेनाऽनेन वृक्षस्थितस्य रघुनाथस्य हृदयं विदीर्णमिव जातम् । क्रोधेन रक्तवर्णं जातं तस्य मुखम् । स्वगतमेव स उक्तवान् - "मम पिताऽयं देशद्रोही किम् ?" दीर्घकालं यावत् स शाखामवलम्ब्य विचारमग्नः स्थितः । पितुरेतच्चेष्टितं स कथमपि स्वीकर्तुं न प्रभवति स्म । किन्तु स पितरं दृष्टवानासीत् । साक्षाच्च श्रुतो वार्तालापोऽपि कथं मिथ्या स्यात् ? क्षणं तु किमत्र करणीयमित्येवं निर्णेतुं न शक्तवान् सः । क्षणं तु स उपरिष्टादेवोत्प्लुत्य पितरं गलेन पाशबद्धं ग्रहीतुं सज्जो जातः । किन्त्वेतद् दुस्साहसमेव जायेत । मृत्युस्तु न चिन्ताविषयः किन्तु ग्वालियरस्य दुर्गस्य रक्षणमत्यावश्यकमिति स दृढं विचारितवान् । तावदेव पितुर्ध्वनिं श्रुत्वा तस्य विचारशृङ्खला खण्डिता जाता – “महोदय ! मामथ गन्तुमनुजानातु । अहं भवता सार्द्धमस्मीति केनाऽपि ज्ञातं दृष्टं वा चेत्.... !" । लक्ष्मणरावो गतः । गच्छन्तं तं पुना रात्रिव्यूहं स्मारितवान् सोऽधिकारी वचनबद्धं च कृतवान् । उभयोर्वार्तालापेन रघुनाथस्य मस्तिष्कं भ्रान्तमिव जातम् । स विचारितवान् - "पितुरनेन विश्वासघातेन किमद्यैव रात्रौ भव्योऽयं दुर्गः शत्रूणामधीनो भविष्यति ? नैव, नैव, एतत् कथमपि विफलयिष्याम्येव ।" कतिपयाम्रफलानि तस्य हस्ताद् भूमौ पतित्वा विनष्टानि । स तु किमत्र करणीयमित्येव विचारे मग्न आसीत् । क्षणं तु विचारः स्फूर्तोऽपि – 'दुर्गं गत्वाऽन्येभ्यो रक्षकेभ्यः षड्यन्त्रमिदं ज्ञापयितव्यं किम् ?' - स स्वमेव प्रश्नं कृतवान् । अनन्तरक्षण एव For Personal & Private Use Only Page #131 -------------------------------------------------------------------------- ________________ विवेकः समुद्भूतः - 'मम पितैव यदीदृग्रूपं विश्वासघातं कर्तुं शक्नोति तर्हि कोऽन्यो विश्वासार्हः स्यात् ?' इति । निराशया स हस्तौ भूमावास्फालितवान् । को मार्गोऽवलम्बनीय इति ज्ञातुं न प्रभवति स्म सः । 'किमथ करणीय'मिति चिन्तातुरः स जातः । तावत् सहसैवाऽऽङ्ग्लाधिकारिणमुद्दिश्य कथितं तस्य पितुर्वचनं स्मृतिपथमायातम् - 'दुर्गादष्टादशमीलदूरमरण्ये तात्याटोपे-इत्यस्य सैनिकानां शिबिरोऽस्ति' इति। ____ 'किन्तु नैतदन्तरं लघु ! किं तावद् दूरं गन्तुं शक्यम् ? तदपि च सायङ्कालात् पूर्वम् ? सन्देश एष किं तत्र प्रापयितुं शक्यः ?' - क्षणं तु अशक्यप्रायमाभात् तस्यैतत्कार्यम् । इदानीमेवाऽहं धावेयं चेत् ? - स विचारितवान् । अनन्तरक्षण एव वृक्षात् कूदितवान् । परितः किमप्यलक्षयित्वा स धावनमारब्धवान् । किन्तु कतिचिदन्तरं गत्वैव तस्य पादौ स्थगितौ । पितरं प्रति हृदि स्थितस्य मोहस्य शृङ्खलया तस्य पादौ बद्धाविव जातौ । स्थित एव स विचारितवान् – 'तात्याटोपे महोदयो यदैतत् ज्ञास्यति तदा पितुर्बन्धनमपि कुर्यात्, कदाचिन्मृत्युदण्डमपि दद्यात्' – एतादृशेन विचारमात्रेणैव कल्पनामात्रेणैव वा स स्वमातुर्वैधव्यं ततश्च दुःखितं तस्या मनोऽपि कल्पितवान् । हृदयं सन्तप्तं जातं, विश्वासोऽपि तस्य विचलितः, मनोऽपि शिथिलं जातम् । गमनमेव स्थगितवान् । ___ "किन्त्वेषा हि स्वार्थमूलिका वृत्तिर्मम । ममैकस्या मातुः सुखाय कथं मातृभूम्या सहाऽन्यायः कर्तुं शक्यो मया ? भारतवर्षस्य स्वातन्त्र्यं त्वत्यावश्यकमस्ति । अस्यां पवित्रायां भूमौ देशद्रोहिणां विश्वासघातिनां च नाऽस्ति किमपि स्थानम् । भुवि भारभूता एते जनाः' - इति मोहमूलकान् विचारान् स स्वहृदयाद् दूरमपसारितवान् । मनो दृढं कृत्वा सर्वां शक्तिमुपयुज्य स शिबिरं प्रति धावितुमारब्धवान् । ज्येष्ठमासस्याऽग्नि वर्षयतीव मध्याह्नकाले रघुनाथ उच्चावचायां कण्टक-कर्कराकीर्णायामरण्यपदव्यां धावन्नासीत् । समग्रमपि शरीरं स्वेदक्लिन्नमासीत् । श्वासोऽपि भस्त्रे चलन्नासीत् । अक्ष्णो र्दाहोऽप्यनुभूयते स्म । कण्ठशोषोऽप्यासीत् । धावन्नेव स पतितोऽपि बहुवारम् । पादौ श्रान्तावास्ताम् । तीक्ष्णानां पाषाणखण्डानामाघातेन तस्य पादाभ्यां रक्तमपि प्रवहितमासीत् । अतिश्रान्तः स आसीत् । किन्त्वस्तं गच्छन्तं सूर्यं दृष्ट्वा स द्विगुणेन वेगेन धावति स्म । बुभुक्षां तृषं परिश्रमं तापं चेत्यादिकं सर्वमपि स विस्मरति स्म । श्रान्तिमसहमान एव स कदाचित् क्षणं तिष्ठति स्म, किन्तु समयोऽल्प एवेति स्मृत्वा पुनर्धावनमारभते स्म । सूर्योऽपि शीघ्रतया पश्चिमाकाशं प्रति गच्छन्नासीत् । वेगेन चलता श्वासेन तस्य फुफ्फुसाः फुल्लिता जाता आसन् । ___ सूर्योऽस्तं गतः । अन्धकारश्च शनैः शनैः प्रसृतः । चन्द्रोऽप्युदितः । चन्द्रस्य चन्द्रिकाप्रकाशमवलम्ब्य धावन् स शिबिरे प्राप्तवान् । १२२ For Personal & Private Use Only Page #132 -------------------------------------------------------------------------- ________________ "आङ्ग्ला ..... विश्वासघातः... दुर्गः... तात्या...' - तस्य मुखादेवं त्रुटिता शब्दाः प्रकटिता तदनन्तरमेव स मूच्छितो जातः । 'निर्जनेऽस्मिन् वने कुत एष बाल आगतः ?' इत्याकारकमाश्चर्यं प्राप्तवान् जगत्या शिबिरपालकाः सैनिकाः । धावन्त इव ते तत्राऽऽगताः । तस्य स्थितिं दृष्ट्वा शिबिरं नीतवन्तस्तम् ? तस्य मूर्छामपाकर्तुं विभिन्नान् प्रयत्नानपि कृतवन्तस्ते । कतिपयनिमेषैः स शुद्धि प्राप्तवान् । किन्तु श्रान्तो बुभुक्षितस्तृषितश्च स उत्थातुमपि न प्रभवति स्म । मूर्छाप्राप्तेः पूर्वं तेनोक्तानां शब्दानां गाम्भीर्यमवगत्य तं तात्याटोपे-समक्षं नीतवन्तः सर्वे । तात्याटोपेमहोदयं नमस्कृत्य शुष्कस्वरेण कष्टेन स उक्तवान् – 'सेनापतिमहोदय ! अद्य मध्यरात्रौ आङ्ग्ला विश्वासघातेनाऽऽक्रम्य ग्वालियरदुर्गं स्वसात्करिष्यन्ति ।' "किमेतत् प्रलयसि रे ! ?" - तात्यामहोदयस्तस्य कथनं श्रुत्वा चकित उत्थित एव । क्षणं तु 'एष उन्मत्तप्रलाप एवाऽस्य' इति मतवान् । किन्तु तं स्वस्थं दृष्ट्वा पुनः पृष्टवान् – 'किं कथयसि रे?' 'अरे ! सत्यमेव वदामि । दुर्गपालो लक्ष्मणराव आङ्ग्लैः सह सम्मीलितोऽस्ति । समेषां विश्वासं विहत्याऽपि स दुर्गद्वारमद्य मध्यरात्रावुद्घाटयिष्यति ।' 'त्वया कथमेतज्ज्ञातम् ?' - अविश्वस्त एव पुन: पृष्टवान् तात्याटोपेमहोदयः । पुनश्च कठोरस्वरेण पृष्टवान् – 'कस्त्वम् ?' 'दुर्गपालस्य लक्ष्मणरावस्यैव पुत्रोऽस्म्यहम्' – इत्युक्त्वा स सर्वं सविस्तरं वर्णितवान् । कथनकाले तस्य नेत्राभ्यामविरलाश्रुधारा प्रवहन्त्यासीत् । स्वपितुरेतादृशं कुकृत्यं परिकल्प्य स उच्चै रुदितवान् । तस्य कथनं श्रुत्वा तात्याटोपे दिङ्मूढ एव जातः । धावन्निव गत्वा तं गाढमालिङ्गितवान् उक्तवांश्च - 'यस्यां मातृभूमौ त्वादृशा देशभक्ताः पुत्रा जाताः सा न दीर्घकालं परतन्त्रा स्थास्यति !' तत्कालं च तात्यामहोदयः सैनिकान् सज्जान् कृतवान् । मध्यरात्रिपूर्वमेव दुर्गस्य परितः सैन्यं व्यवस्थापितवान् । तस्यां च रात्रौ विश्वासघातेनाऽऽक्रमणं कर्तुमुधुक्तानामाङ्ग्लानां स्वागतं तु जातमेव किन्तु न द्वाराण्युद्घाट्याऽपि तु गोलकास्त्रैः । आक्रान्तुमागतेभ्य आङ्ग्लेभ्यः कोऽपि नाऽजीवत् । लक्ष्मणरावस्तस्य च विश्वासघातिनः सहायका निगृहीताः । त्रयोदशवर्षदेशीयस्य रघुनाथस्य च नूतनदुर्गपालत्वेन नियुक्तिर्जाता । -X १२३ For Personal & Private Use Only Page #133 -------------------------------------------------------------------------- ________________ कथा | किं कृतं त्वया ? मुनिधर्मकीर्तिविजयः जना येभ्यो रोचेरन् तेषां बन्दीकरणेन जनेभ्यः सकाशादभीप्सितं धनं ग्रहीतुं शक्यमित्युद्देशेन 'मिसर'देशस्य राज्ञा 'हजरत इमानो' निगृहीतः । एषा कथा सर्वत्र प्रसृता । एतच्छ्रुत्वैव सर्वे जनाः शोकाकुला जाताः । देशे ये केऽपि धनिकाः श्रेष्ठिनोऽग्रण्यश्च जना आसन् ते सर्वेऽपि स्वकीयं सर्वमपि धनं गृहीत्वा हजरतं मोचयितुं गतवन्तः । किन्तु, हन्त ! तत् सर्वमपि धनं राजानं सन्तुष्टं कर्तुं न सफलं जातम् । एषोऽपि वृत्तान्तो राज्ये सर्वत्र प्रसृतः । सर्वे जनाः स्तब्धा जाताः । तत्र कस्यचिद् ग्रामस्याऽधोभागे वढेका वसति स्म । साऽऽदिनं प्रभुनामस्मरणं सूत्रचक्र (Spinning Wheel)व्यापारेण जीवननिर्वहणं चेति द्वे एव कार्ये करोति स्म । तयैषा वार्ता श्रुता । सा चिन्तितवती - तत्राऽहमपि गच्छेयम् - इति । वृद्धायाः समीपे नीविधनं तु नाऽन्यत् किमप्यासीत्, किन्तु केवलं तन्तुगुच्छः आसीत् । तं तन्तुगुच्छं १२४ For Personal & Private Use Only Page #134 -------------------------------------------------------------------------- ________________ गृहीत्वा सा वृद्धा राज्ञः समीपं गन्तुमुत्थिता । यष्टिसाहाय्येन शनैः शनैः सा गच्छन्त्यासीत् । राजमार्गतो गच्छन्तीं तां दृष्ट्वा युवानः सोपहासमवोचन् – वृद्धे ! एतावत्या शीघ्रगत्या कुत्र गच्छन्त्यसि ? वृद्धोवाच - राज्ञः प्रासादं प्रति गच्छामि । किमुपहारं दातुं गच्छसि? नैव, नैव, निर्धनाऽहं किमुपहारं यच्छेयम् ? एको युवाऽवोचत् - एषा तु राज्ञः सकाशाद् हजरतं मोचयितुं गच्छति । अन्यो युवोवाच - एषा वृद्धा सरला दृश्यते, किन्तु तस्याः कक्षे रत्नभृतः स्यूतोऽस्ति ।. तत्प्रभावेणेदानीमेव हजरतं मोचयिष्यति । पुत्र ! सत्यं, सत्यम् । मया त्वधुनैव श्रुतं, ततः सत्वरं मोचयितुं गच्छामि । युवाऽऽह – मित्राणि ! युष्माभिः श्रुतं किल ? एषा वृद्धाऽधुनैव हजरतं मोचयिष्यति । रे वृद्धे ! यद्यनेकेषां धनिकानां धनं हजरतं मोचयितुं न्यूनं जातं तर्हि तव समीपे कीदृशानि रत्नानि स्युः ? मित्राणि ! मम समीपे तु किं स्युः ? वृद्धे ! तथाऽपि स्यूते यदस्ति तद् दर्शय किल । युवभिरतीवाऽऽग्रहः कृतः । ततो वृद्धया स स्यूत उद्घाटितः । स्यूतात् तन्तुगुच्छो निर्गतः । रे वृद्धे ! हन्त ! एतेन कि हजरतं मोचयिष्यसि भवती ? प्रतिनिवर्तस्व । वृद्धोवाच – मित्राणि ! हजरतो मुक्तो भविष्यति न वा, सा चिन्ता न मया कृता । किन्तु ईश्वरस्य सभायां "यदा हजरतो बन्दीकृत आसीत्तदा तं मोचयितुं त्वया किं कृतम् ?" इति यदि प्रक्ष्यते तदाऽधोमुखीभूयाऽहं न स्थास्यामि किल ! १२५ For Personal & Private Use Only Page #135 -------------------------------------------------------------------------- ________________ कथा त्याग: कृतो मया मुनिधर्मकीर्तिविजयः महात्मा गान्धिः किमपि लिखितवान् आसीत् । तस्य समीपे आसीनो(काका कालेलकरः)ऽहम् । 'उमर खय्यामे'त्यनेन लिखितस्य 'रूबायत'स्याऽऽङ्ग्लानुवादं पठन्नासम् । 'फिसिराल्डे'न कृतस्याऽनुवादस्य बह्वी प्रशंसा श्रुता मया किन्त्वद्यावधि न तत् पुस्तकं कथमपि प्राप्तं मया । अद्य तत् पुस्तकं प्राप्तवानहम् । तत इदानीमेव तद् गृहीत्वा पठितुमारब्धवान् । महात्मना गान्धिनाऽहं दृष्टः । स पृष्टवान् – किं पठति भवान् ? मया तत् पुस्तकं दर्शितम् । आवयोर्द्वयोर्मध्ये विशेषः परिचयो नाऽऽसीत् । अतो गान्धिमहोदयः सत्वरं मे उपदेशं दातुं नेच्छेत् । ततो दीर्घ निःश्वस्य गान्धिरवोचत् – “अहमपि आङ्ग्लकाव्यपठनस्य रसिक आसम् । तथाऽपि मया चिन्तितं - कोऽधिकारो मे आङ्ग्लकाव्यपठनस्य ? यदि मम समीपे समयोऽवशिष्टः स्यात्तर्हि कथं गूर्जरकाव्यलेखनस्याऽभ्यासं न कुर्याम् ? यद्यहं राष्ट्रस्य सेवां कर्तुमिच्छेयं तर्हि निखिलमपि समयं सेवाशक्तिं वर्द्धितुमेव प्रयतेय । क्षणं स्थित्वा पुनरुक्तवान् – राष्ट्रसेवार्थं यद्यहं त्यागं कर्तुमिच्छेयं तदाऽऽङ्ग्लसाहित्यस्य रुचेस्त्याग एव श्रेयस्करः, धनस्य व्यवसायस्य च त्यागस्तु न त्याग एवेति मन्येऽहम् । धनं प्रति च न कदाऽपि अहमाकृष्टोऽभवम् । केवलमाङ्ग्लसाहित्यस्य विशेषतयाऽऽसक्तिरासीत्, किन्तु मया मनसि निर्णीतं - "साऽऽसक्तिर्मया त्याज्यैव" इति । अहं तस्याऽऽशयमवगतवान् । तत्क्षणं तत् पुस्तकं मया त्यक्तम् । गूर्जरलेखकः - काका कालेलकरः ('वाचनयात्रानो प्रसाद'पुस्तकतः) -x१२६ For Personal & Private Use Only Page #136 -------------------------------------------------------------------------- ________________ कथा विरलानि संस्कारमूल्यानि मुनि: *अक्षयरत्नविजयः ___ आत्मप्रबोधिका दृष्टिः कश्चित् संशोधको विविधानि ग्राम-नगराणि पर्यटति स्म । ऐतिहासिकस्थलानि पश्यन्नन्यदा स कञ्चिद् ग्राममागतः । बहिामं तेन स्थले स्थले पाषाणमूर्तयः प्रस्थापिता दृष्टाः । ततः स संशोधकः साश्चर्यो जातः । युगपद् बढ्यो मूर्त्तय आसन् । सर्वाश्च मूर्तयो ग्राम्याणां विभिन्नजनानामासन् । किञ्च प्रत्येकस्याऽधः तत्तज्जनस्य संक्षिप्तः परिचयोऽपि आसीत् । स परिचय एव महद् विस्मयपदम् । कस्याश्चिन्मूर्तेरधः परिचयः प्रदत्त आसीत् 'स्व. श्रीरमणलालवर्यः - आयुः सार्धं वर्षद्वयम्' इति । कस्याश्चिदधो ज्ञापितमासीत् 'स्व. श्रीहिम्मतलालवर्यः - आयुः त्रीणि वर्षाणि' इति । कस्याश्चिदधः 'सपादं वर्ष'मिति लिखितमासीत् । बढ्यो मूर्त्तय आसन् । सर्वत्र चैतादृशी परिस्थितिरासीत् । कासाञ्चिदधः 'एकं वर्षम्' 'सार्द्धं वर्षम्' 'पादोनत्रयं वर्षम्' इति जीवितकालो दर्शित आसन् । सर्वाधिकं वयः सार्द्धत्रयं वर्षं दृश्यते स्म । तदधिकं वयः कस्यचिदपि न दृश्यते स्म । संशोधकस्य विस्मयो वृद्धि गतवान् । स चिन्तितवान् 'त्रिचतुर्वर्षवयोधरास्तु बाला एव भवितुमर्हन्ति । मूर्त्तयस्तु महतां स्युर्न तु बालानाम् । अतोऽत्र विसंवादो ज्ञायते । यतो यो महान् भवेत् स बालो न भवेत्, यश्च बालो भवेत् स महान्न भवे'दिति । [*पू.आ.श्रीधर्मसूरीश्वरसमुदायवर्ती] १२७ For Personal & Private Use Only Page #137 -------------------------------------------------------------------------- ________________ तस्य चिन्तनं यथार्हमासीत् । किन्तु, समाधानं नाऽऽसीत् । अत्रान्तरे कश्चिद् ग्राम्यो युवा तत्राऽऽगतः । संशोधकेन स पृष्टः – "मित्र ! युष्मदीये ग्रामे केऽपि महान्तो जना नैव प्रजाताः सन्ति किम् ?" ग्रामीणयुवकेन सस्मितं प्रत्युक्तम् – “ओम्, अस्माकं ग्रामे सर्वेऽपि बाला एव प्रजाताः सन्ति ।" संशोधकः साश्चर्योऽवदत् - "किं वदसि ? सर्वेऽपि बाला एव प्रजातवन्तः ?" युवकेन पुनः सस्मितमुक्तम् – “अरे ! महानुभाव ! अस्माकमेव नहि, जगतः प्रत्येकं ग्रामेषु नगरेषु च बाला एव जायन्ते ।" ___ अथ संशोधकेन यूनो भ्रमो ज्ञातः । तेन स्पष्टतया कथितं – "भ्रातः ! भ्रान्ति कथं करोषि ? अहं पृच्छामि 'अत्र या इमा मूर्तयः सन्ति । तासामधः 'एकं वर्षं - द्वे वर्षे - त्रीणि वर्षाणि' इति वयो लिखितमस्ति । ततः किम्, एते सर्वे बालावस्थायामेव मृत्युं प्राप्तवन्त आसन् ?" इति । इदं श्रुत्वा युवक एकं सुविचारं प्रदर्शितवान् – “महानुभाव ! एवं नाऽस्ति । इमे सर्वे तु वृद्धावस्थायामेव मृत्यु प्राप्ता आसन् । तथाऽपि सूक्ष्मदृष्ट्याऽस्माभिरेवं लिखितमस्ति । मूर्तिस्थजनानां जीवितकालः कियानपि भवेत्, सोऽत्र न गण्यते । किन्तु, तज्जीवने परोपकार-प्रभुभक्ति-गुरुभक्ति-अतिथिभक्तिप्रमुखसत्कार्येषु यावान् समयो व्यतीतः, स एवाऽत्र गण्यते लिख्यते च । त्रिवर्षं वयो नाम तज्जीवनस्य तावान् समयः सामाजिक-धार्मिककार्यार्थं व्यतीत इति । यतो मनुजानां तदेव कार्यं पारलौकिकं भवति ।" असौ संशोधकस्तु ग्राम्यजनानामात्मप्रबोधिकां दृष्टिं ज्ञात्वा नतशीर्ष एव बभूव । अद्यावधि यावत् संशोधनं कृतं तदद्य सफलमभवदित्यनुभववानपि जातः । (६) आदर्शदम्पती आसीद् दक्षिणभारतस्थ एक ऋषितुल्यो महाँस्तत्त्वचिन्तको गृहस्थः । स प्रभोभक्तः प्रामाणिकतायाः सेवकश्चाऽऽसीत् । युवावस्थायां तस्य परिणयो जातः । परिणयस्य प्रथमं दिनम् । स नूतनधर्मचारिणीं सूचितवान् – “यदाऽहं भोक्तुमुपविशामि तदा काष्ठपट्टस्योपरि एका सूची स्थापनीया, एकस्मिश्च लघुपिठरे स्वच्छं जलमपि रक्षणीयमिति ।" धर्मपत्न्या सूचनमङ्गीकृतम् । तस्या मनसि प्रश्नस्तु जातः - 'भोजनसमये सूच्याः काऽऽवश्यकता?' इति, किन्तु सा प्रश्नमन्तरेवोपशान्तं चकार । यतः पतिर्यदा कार्यं दर्शयेत्तदा तदङ्गीकरणमेवाऽऽर्यनारीलक्षणम् । १२८ For Personal & Private Use Only Page #138 -------------------------------------------------------------------------- ________________ तया मनसि चिन्तितं – 'प्रश्नेनाऽलम् । भोजनसमये तत्प्रयोजनं साक्षाद् द्रक्ष्यामी'ति । भोजनसमयो जातः । गृहस्थः पतिर्भोजनार्थमुपविष्टः । पत्न्या सूचीलघुपिठरे स्थापिते । भक्ष्यं च पात्रे स्थापितम् । दक्षिणभारतीयजना भोजने प्रधानतः सूपमोदनं च भक्षयन्ति । अत्राऽपि एवमेवाऽऽसीत् । स गृहस्थः सूपोदनयोर्भोजनमकरोत् । स्थालं च प्रक्षाल्य पपौ । आर्या पत्नी पत्युः सर्वां चेष्टां सावधानं निरैक्षत । किन्तु तत्र सूचीलघुपिठरयोः प्रयोजनं न ज्ञातम् । अतः प्रश्नोऽनुत्तर एवाऽवस्थितः । आर्यपत्न्या चिन्तितम् – 'न कोऽपि बाधः । भोजनं तु प्रत्यहं भविष्यति । सूचीलघुपिठर अपि प्रत्यहं स्थापयिष्येते । क्वचित्तूत्तरं प्राप्स्यते । परं, प्रश्नस्तु प्रष्टव्य एव न । मम स्वामी महाँस्तत्त्वचिन्तकोऽस्ति । तदीया काऽपि चेष्टा वृथा न भवेत् ।' 'उत्तरमद्य प्राप्स्यति, श्वो वा प्राप्स्यति' इति प्रतीक्षायां वर्षाणि व्यतीतानि । सूचीलघुपिठरे प्रत्यहं रक्ष्येते । तयोः किमपि प्रयोजनं न ज्ञायते । आर्या पत्नी पृच्छत्यपि न, पतिश्च ज्ञापयत्यपि न । ऋषितुल्यो गृहस्थोऽपि चेतसि चिन्तयति – 'मम पत्नी स्त्रीषु अनन्याऽस्ति । निष्प्रयोजनेऽपि कार्ये सा तत्पराऽस्ति । प्रश्नमपि न करोति । किञ्च, कदाचिदपि तया कलहोऽपि न कृतः । कण्ठिकाशाटिकादीनि वस्तून्यपि तया कदाऽपि न याचितानि । मम सूचनमप्यविरोधमङ्गीकुरुते । सा नूनं धन्या । एतादृशीं च धर्मचारिणीं प्राप्याऽहमपि धन्योऽस्मी'ति । एवं पञ्चाशद् वर्षाणि यावत् समयो व्यतीतः । पत्न्या अन्तकालः समीपमागतः । चिन्तकेन पत्या पत्नी पृष्टा - "तव काऽपि अन्तिमेच्छाऽस्ति किल?" पल्या कथितम् – “अस्ति ।" "ज्ञापय" पतिः कथितवान् । अथ पत्न्या नम्रस्वरेण कथितम् – “अद्य यावन्मया सूच्या लघुपिठरस्य च प्रयोजनं न ज्ञातम् । यदि बाधो न भवेत्तर्हि तत्प्रयोजनं ज्ञापयतु ।" पतिरुक्तवान् – "शृणु, ओदनोऽस्मद्भोजनम् । भोजनवेलायामोदनस्य कणो यदि भूमौ पतेत्तर्हि स पतितकणोऽपि निरर्थको न भवेत्, पिपीलिका नाऽऽगच्छेयुः, जीवहिंसा न भवेत्, उच्छिष्टेन च हस्तेन कणस्य ग्रहणेन हस्तभूमी दूषिते मा भूतामित्याशयात् सूचीपिठरयोः प्रयोजनम् । सूच्या तत्कणं गृहीत्वा लघुपिठरस्य जले क्षालयित्वा भूमिरजःकणाद्विमुच्य तं भक्षयेयमिति तत्प्रयोजनम् । परं, पञ्चाशति वर्षेषु कदाऽपि तव हस्तेन भक्ष्यस्य पात्रे स्थाप्यमाने कणो न पतितः । मयाऽपि भक्षणे न पतितः । तव मम चाऽप्रमादेन सूचीलघुपिठरयो रहस्यं नाऽभिद्यत ।" पत्युरगाधं तत्त्वज्ञानं श्रुत्वा पत्नी सन्तोषेण मृत्यु प्राप्तवती । चिन्तकस्य कीदृशमुत्तमं चिन्तनम् ? १२९ For Personal & Private Use Only Page #139 -------------------------------------------------------------------------- ________________ पत्न्या विनयोऽपि कीदृशोऽनन्यः ? स ऋषिसदृशस्य तत्त्वचिन्तकगृहस्थस्य नामाऽऽसीत् 'तिरुवल्लुवरः' इति । तस्याश्चाऽदर्शरूपाया गृहिण्या नामाऽऽसीत् 'वासुकी' इति । (७) अनन्या मैत्री इयमपि दक्षिणभारतीया कथा । अध्ययनं यदा काननेषु विद्याश्रमेषु गुरुकुलेषु गुरुनिश्रायां च भवति स्म, तायुगीनेयं वार्ता । तत्रत्ये कस्मिंश्चिद् विद्यापीठे तेजस्वितारकाविव द्वौ विद्यार्थिनावधीयाते स्म । तयो म क्रमेण 'निमायः' 'रघुः' (-रघुनाथः) चेत्यासीत् । द्वयोर्मध्य अनन्या मैत्री प्रवर्तमानाऽऽसीत् । विद्याभ्यासे वर्षाणि व्यतीतानि । अत्राऽन्तरे कायौ द्वौ हृदयमेकमिति द्वयोमैत्री सुदृढा जाता । द्वौ सहचरौ तर्कशास्त्रे नदीष्णौ सञ्जातौ । एकदा रात्रिसमये द्वौ सुहृदौ तटिन्यां परिभ्रमणार्थं गन्तुकामौ नद्याः प्रतीरं गतौ । नौका चोपविश्य नौकाविहारं कर्तुं लग्नौ । पौर्णमास्याः कलाधरः कमनीयां चान्द्रीं वितनोति स्म । अत्राऽन्तरे निमायः स्वेन सहाऽऽनीतमेकमभिरामं ग्रन्थं रघोः करे प्रदाय प्राह - "रघो ! एकवर्षीयेण कठोरपरिश्रमेणाऽयं टीकाग्रन्थो मया विरचितः । अद्य यावन्मया कस्यचिदपि नैव दर्शितः । त्वं मम प्रियमित्रम् । अतस्तव प्रथमं दर्शयामि । ग्रन्थं पठ, पश्चाच्च तवाऽभिप्रायं कथय' इति । रघुः सहर्षं ग्रन्थं गृहीतवान् । पठनं चाऽऽरब्धवान् । ग्रन्थमाहात्म्यं रघुहृदयं पस्पर्श । परं किं जातम् ? ग्रन्थं पठतस्तस्य मुखारविन्दमम्लासीत् । मित्राननस्येदं परिवर्तनं निमायेन ज्ञातम् । स रघोर्हस्तात् सहसा ग्रन्थमाकृष्टवान् पृष्टवांश्च – "मित्र ! किं कारणमस्ति ? तव मुखकमलं कथमम्लासीत् । तव वदनज्योतिः कथं विलुप्तम् ? तव क्लेशं मह्यं ज्ञापय । यतोऽहं तव कष्टं निवारयितुं शक्नोमि'' इति । अन्तर्भावं छादयन् रघुः कथितवान् – “न, न मित्र ! किमपि कारणं नास्ति । अथ तं ग्रन्थं मे देहि । इदानीं तु तस्योत्तरार्धस्य पठनमवशिष्टमस्ति ।" "मित्र ! अस्मत्सख्यमाबाल्यादस्ति । अहं सर्वात्मना त्वां जानामि । कारणं कथं छादयसि ? ग्रन्थः पश्चात् प्राप्स्यते । प्रथमं तव क्लेशं कथय । अहं त्वदुःखमपाकर्तुमिच्छामि ।" रघुः पुनरुक्तवान् – “निमाय ! आत्मीयमित्र ! अद्य भ्रान्ति कथं करोषि ? अहं दुःखी नाऽस्मि । प्रत्युत तव ग्रन्थस्य वाचनेन नितरां हर्षितोऽस्मि । अथ ग्रन्थमानय मित्र !" "रघो ! प्रथमं तव दुःखं मह्यं ज्ञापय, पश्चादेव ग्रन्थं दास्यामि । मुखं हृदयस्य दर्पणः कथ्यते । १३० For Personal & Private Use Only Page #140 -------------------------------------------------------------------------- ________________ तव दुःखं तव मुखादाविर्भवति । अतो मिथ्या मा वादीः । सत्यं कथय । आवयोः सख्यं घनमस्ति चेत् कथने कः सङ्कोचः ?" अन्ततो मित्रस्याऽत्यन्ताग्रहवशात् सलज्जो रघुरवदत् - "निमाय ! मयाऽपि अस्मिन्नेव विषये संस्कृतग्रन्थो विरचितोऽस्ति । ह्य एव तल्लेखनं समाप्तम् । परं...परं..." "परं किम् ? निःसङ्कोचं वद ।" निमायो धैर्यं दत्तवान् । "परं, मत्कृतिस्त्वत्कृतितोऽतीव निम्नतराऽस्ति । अतो मनसीषत् खेदो जातः 'मम प्रयासो वृथा भविष्यती'ति । अहं जानामि 'मम खेदः सर्वथाऽनुचितः' इति । ईदृशं चिन्तनं मया न कर्तव्यम् । तत एवेदानीं यावदिदं मया तुभ्यं न ज्ञापितम् । किन्तु, इदानीं किञ्चिदपि दुःखं न विद्यते । त्वं मनागपि अन्यथा न चिन्तय । आवामभिन्नहृदयौ स्वः । अतस्तव ग्रन्थोऽपि ममैव ग्रन्थः । अधुना त्वं मदीयां चिन्तां त्यज, ग्रन्थं चाऽऽनय ।" किन्तु.. रघु श्रुत्वा निमायेन तु किञ्चिदकल्पितमेव कृतम् । अचिरेण तमननुकृति (प्रत्यन्तररहितं) ग्रन्थं निमायः सरिते समर्पितवान् । प्रशस्यतरं ग्रन्थं जलसमाधि गृह्णन्तं दृष्ट्वा रघुः सवेगमरोदीत् । रुदन्नेव सोऽवदत् - "निमाय ! त्वया किं कृतमिदम् ? तव बहूनां दिवसानां मासानां च प्रयासो निरर्थकः सञ्जातः । मदुःखं तु केवलं क्षणिकमासीत् ।" तदानीं विश्वस्याऽनन्याया मैत्र्या उदाहरणं दर्शयन्निव निमायः सस्मितमाह - "मित्र ! इदानीं दुःखस्य किं कारणम् ? मच्चेतसि तव मैत्री ग्रन्थादधिकाऽस्ति । किञ्च, अधुनैव त्वमपि उक्तवान् 'आवामभिन्नहृदयौ' इति । अतस्तव ग्रन्थोऽपि ममैव ग्रन्थः । ततो मम ग्रन्थोऽधुनाऽपि विद्यते । रोदनं मा कुरु मित्र !" निमायो वदति स्म, रघू रोदिति स्म । ज्योत्स्नामयी सा रात्रिरविस्मरणीया सञ्जाता । कीदृशी साधुवादाऱ्या मैत्री ? अनेन प्रसङ्गेन जगतैकमनुकरणीयमुदाहरणं प्राप्तम् । १३१ For Personal & Private Use Only Page #141 -------------------------------------------------------------------------- ________________ कथा निलोभिता सा. श्रीधृतियशाश्रीः ___एकदा देशे दुष्कालो जातः । क्षुधा मरणावसर आगतः । तदा एक उदारः श्रेष्ठी उद्घोषितवान्, "अहं नित्यं बालकेभ्यो रोटिका दास्यामि" । एतादृश्युद्घोषणां श्रुत्वा द्वितीयदिने सहस्रं बालकास्तस्य गृहाद् बहिः समागच्छन् । ते सर्वेऽपि बाला रोटिका नेतुं कोलाहलं कुर्वन्तो धावन्तश्च रोटिकानामपि खण्डान् चक्रुः । रोटिकास्सूक्ष्मस्थूलाः सर्वप्रकारा सञ्जाताः । प्रत्येकं बालस्स्थूलरोटिकां प्राप्तुम् ऐच्छत् । . एभ्यो बालकेभ्यो दूरमेका धीरा बाला मौनेन स्थिता । यदा सर्वैः बालकै रोटिका गृहीता तदा साऽग्रे आगतवती । सर्वेषु बालकेषु रोटिकां प्राप्तवत्सु तस्यां स्थाल्यामेकैव रोटिकाऽऽसीत् । सा हृष्ट्वा तां रोटिकामग्रहीत् गृहं च प्रति चलिता । ____ अनेनैव क्रमेण प्रत्येकं दिने रोटिकादानं प्रवृत्तम् । अद्य दिनेऽपि ह्य इव घर्षणं कोलाहलश्च अभूत् । किन्तु अद्याऽपि सा तेनैव प्रकारेण स्थिता । सर्वे बाला घर्षणं कृत्वा शोभना रोटिका नीत्वा गताः, प्रान्ते च या लघुरोटिका शिष्टा तां गृहीत्वा सा गृहं प्रति प्रस्थिता गृहं गत्वा यदा तया रोटिकायाः खण्डः कृतस्तदा तस्या मध्यात् सुवर्णमुद्रा निरगच्छत् । बालाया माता बालायै तां मुद्रां श्रेष्ठिने प्रतिदातुं कथितवती । बाला यदा मुद्रां गृहीत्वा श्रेष्ठिनो गृहं समागमत् तदा श्रेष्ठी उक्तवान् - "अहं मुद्रामाभोगेनैव सकलरोटिकाभ्यो लघुरोटिकायां स्थापितवान्, अहं धीरबालकाय पुरस्कारं दातुमैषम् । अतस्तां त्वमेव धारय' । तदा मुग्धा बाला अवोचत् – "मम धैर्यस्याऽयं पुरस्कार आसीत् यन्मम केनाऽपि सह घर्षणं न जातम् । परमिमां गृहीत्वाऽहं लोभिनीभविष्यामि, सर्वदा च सकलरोटिकाभ्यो लघुरोटिकां प्राप्तुं प्रयतिष्ये। अतो भवान् इमां प्रतिगृह्णातु' । एवं श्रुत्वा श्रेष्ठी बालया प्रभावितो जातः । तया च सह निजपुत्रीवत् व्यवहारं कृतवान् । उपदेशः – कदाऽपि लोभो न कर्तव्यः । १३२ For Personal & Private Use Only Page #142 -------------------------------------------------------------------------- ________________ मर्म नर्म कीर्तित्रयी भवान् किमर्थं विस्फोटकनिर्माणोद्योगे कार्यं करोति ? अहो ! अहं धूमपानं त्यक्तुमिच्छामि, इत्यतः !! - किं भवत्याः पतिरश्वधावनस्पर्धाविषये किञ्चिज्जानाति वा ? - प्रारम्भादन्तं यावज्जानाति सः । स्पर्धायाः पूर्वं कतमोऽश्वो जेष्यतीति स सहेतु-कारणं जानाति, स्पर्धानन्तरं च सोऽश्वः किमर्थं नाऽजयदित्यपि स्पष्टतया जानाति !! । प्रायः प्रत्येकं जनस्य द्वौ पाश्वौं भवतः । एकः सः, यं तस्य पत्नी जानाति; अपरः सः, यं तस्य पत्नी नैव जानाति - इति स चिन्तयति !! १३३ For Personal & Private Use Only Page #143 -------------------------------------------------------------------------- ________________ रमणी संशोधकाः कथयन्ति यत् शिक्षिकाः पत्नीत्वेन श्रेष्ठा भवन्ति - इति । किमर्थं तथा स्यात् ? रमणः यतः, प्रश्नः कथं प्रष्टव्य इति ताभिः शिक्षितं भवति, तथा प्रश्नस्योत्तरं श्रोतुं कियच्चिरं तूष्णीं स्थातव्यमित्यपि !! विदग्धः अहो ! भवान् विदेशादधुनैव प्रतिनिवृत्तो वा ? किं तत्रत्यया भाषया भवतः काचिद् बाधा जाता वा ? दुर्विदग्धः न, मम तु न काचिद् बाधा जाता, किन्तु तत्रत्यजनानां तु भृशं जाता !! एकस्मिन् कार्यक्रमे सुदीर्घ प्रवचनं दत्त्वा गृहं समागतः कश्चन विद्वान् स्वपत्नी पृष्टवान् – 'कथमासीदद्यतनीयं मे निर्वहणम् ?' पत्न्या कथितम् – अत्युत्तमम् ! नवरं भवान् प्रवचनाद् विरमणस्य कांश्चन श्रेष्ठानवसरान् विफलीकृतवान् !! पतिः अस्माकमधिकारी दुष्टोऽस्ति, किन्तु तत् शोभनमस्ति । । पत्नी कथं तत् ? पतिः स सर्वेषामपि कर्मकराणां कृते दुष्टोऽस्ति !! १३४ For Personal & Private Use Only Page #144 -------------------------------------------------------------------------- ________________ प्राकृतविभागः कथा पाइयविन्नाणकहा आ. विजयकस्तूरसूरिः १. नाणगब्भमंतिस्स कहा देव्वजण्णा विवत्तीओ, बुद्धिमंता जणा दुयं । धुवं तरंति जत्तेण, नाणगब्भुव्व धीसहो ॥१॥ सिरिमुणिसुव्वयतित्थयरथूभालंकियाए वेसालीए जियसत्तुनामो निवो आसि । तस्स रण्णो सामाइनीइभायणं सयलनिवरज्जकज्जसज्जयरो णाणगब्भो नाम मंती अहेसि । अन्नया सहानिविट्ठो राया दोवारिएण पणमिऊण एवं विनत्तो – 'सामि ! एगो नेमित्तिओ कत्तो वि आगओ दारंमि ठिओ समाणो पहुपायदंसणं महेइ । लद्धाणुन्नेण तेण निवसहाए पवेसिओ । सकोउगेण नरिंदेण तण्णाणजाणणकए विहिउचियपडिवत्ती सो जोइसिओ पुट्ठो – 'थोवदिणमझे कस्स अपुव्वं सुहं दुहं वा होही ?' । अटुंगनिमित्तसत्थविउसेण तेण भणियं – 'हे सामिअ ! तुब्भेहिं पुच्छिओ संतो सत्थभणियमत्थं कहितो दोसं न जामि' त्ति कहिऊण वएइ – 'जो एसो नाणगब्भो महामंती मंतिपंतीणं सिरोमणित्तणं पत्तो, तस्स सकुलस्स मारी अइघोरा उवट्ठिया अत्थि । सा मारी नो वरिसाओ, न मासाओ, किंतु एयाओ पक्खाओ आरेण होहिइ' । __तओ सा सहा सव्वा वज्जहयव्व खणा साबाहा तुण्हिक्का संजाया । तओ मंती धीरमाणसो ताओ सहाओ विणिग्गओ संतो केणइ अलक्खिओ नियगिहे तं नेमित्तियं आणवेइ । कयगरुयगोरव्वो वत्थ-पुप्फ-वरभोयणाइदाणेण संपन्नसंतोसो एसो एगंते परिपुट्ठो – 'कत्तो एसा मारी भविस्सइ, 'त्ति । सो नेमित्तिओ कहेइ – 'तव जेट्टपुत्ताओ' । मंती पुच्छेइ – “नियमा एसा होस्सइ, एत्थ को पच्चओ?' । नेमित्तिओ कहेइ – 'अमुगदिवसम्मि तुम्हं असुंदरो सुमिणो होहिइ' । एवं सो मंती कज्जस्स उवलद्धसारो १३५ For Personal & Private Use Only Page #145 -------------------------------------------------------------------------- ________________ देवण्णुं पूइअ परमायरेण वारेइ – 'सव्वहा इमं नो पयासियव्वं' । तओ उवगओ सो नियपएसं । अहऽन्नया रत्तीए मंतिणा सुमिणो दिट्ठो – 'जह मम मंदिरं अइबहलतिमिरनिउरंबसामलाहिं धूमजालाहिं समंतओ ठइअं' । तओ मंतिणा सपच्चयं नियजिट्ठपुत्तो उत्तो – 'हे पुत्त ! जोइसविऊहिं तव जम्मकालिएहिं सुट्ठ पण्णत्तोऽहं, इण्हि पुण तुमहिंतो कुलस्स पलओ हुँतो दीसइ । तओ एगं पक्खं ताव सुविसुद्धबुद्धिपुव्वं वट्टिज्जउ, जेण उवट्ठिअं एअं वसणं कहं पि वंचेमो । जइ अस्स वसणस्स खलणं न करेमि, तया मे सयलजणपसिद्धाए इमाए मईए को गुणो होज्जा ?' । अइचित्तं गहचरियं, सुमिणो सउणाइयं निमित्तं च । देवोवजाइयाई, फलंति जइ कस्सइ कयाइ ॥२॥ 'तओ धीरिमं वहंतेहिं बुद्धिधणेहिं णो तसियव्वं, किं तु उचिओवायपरेहिं निच्चं पि होयव्वं । परिघडियनिउणनीईणं दूरओ मुक्ककुपहगमणाणं कयाई दिव्वाओ कज्जारंभो विहडिओ वि हु न दोसाय । तओ हे पुत्त ! मंजूसाए पविस, पक्खस्स भोयणजलाणि एयाणि तुज्झ तणुट्टिईए साहणाई मुक्काई' । तओ नियकुलरक्खणत्थं पुत्तेण वि तहा विहिए, नरिंदस्स पासे उवागम्म मंतिणा निवेइअं - 'हे राय ! रायकुलसेवाओ पुरिसपरंपरपत्तं एयं दव्वं नियायत्तं अत्थि' । रण्णा भणियं – ‘मा बीहसु' त्ति । मंतिणा 'को जाणइ, किं भविस्सइ' एवं वोत्तूण अणिच्छंतो वि राया एयं मंजूसं पडिच्छाविओ । सा मंजूसा राइणो भंडारगिहमि नीया । भणियं च – 'हे देव ! इह मज्झ सव्वसारं संचिट्ठइ, पक्खं जाव मज्झोवरोहाओ चेव सव्वायरेण संरक्खिज्जउ' । तओ रण्णा तीसे मंजूसाए निविडाइं तालगाइं दिण्णाइं, सव्वओ सीसगमुद्दाओ वि दिण्णाओ । पइपहरं च तीसे रक्खणत्थं दोण्णि दोण्णि पाहरिआ वि ठविआ । एवं कयसुविहाणो सइवो विम्हएणं 'किं एसो मज्झ पओगो विहडेज्जा, अचिंतचरियं दिव्वं, किं च न होज्जा' ? एवं खणेण विसाएण छुप्पंतो जाव चिट्ठइ ताव तेरसम्मि वासरे पभायसमए कण्णंतेउरम्मि नरवइस्स कन्नाए वेणीच्छेओ जाओ, केण कओ इइ निमित्तचिताए, जेट्टेण मंतिसुएण कओ'त्ति पवाओ संजाओ-जह 'किल नियमंदिरसेज्जापरिसंठिअं एअं रायकण्णं समागम्म जिट्ठो मंतिसुओ विण्णवित्था 'उम्मीलियकमलवयणे ! हे सुंदरि ! मए समं रमसु', बहुं पि भणिआ जावेसा नेच्छइ, ताव रोसवसेण छुरिआहत्थेण अणेण तीसे वेणी छिन्न' त्ति । तओ सा कमलमुही अंसुपुण्णनयणा विस्सरं रुयमाणा पिउणो पासम्मि गया । सव्ववुत्तंतो निवेइओ । कोवानलारुणिअदेहो राया पुरारक्खगलोगं एरिसं भणइ – 'जह स मंतिसुओ सूलारोवणपमुहदुक्खमारेण मारिओ होइ तहा लहुं चिय करेइ, अहवा सचिवाहमस्स गेहं तणेहिं छगणेहिं दारुयभरेहि सव्वत्तो वेढिऊण, जलंजलणं च काऊण सव्वे दहह, जओ मज्झ परं पसायं लहित्ताणं उम्मत्ता जाया, कहमन्नहा इमेरिसं आयरणं एएसिं होज्जा' । ____ तओ नगररक्खगलोगा करालच्छा जमभडसमा तक्खणं चिअ अमच्चगेहे पत्ता । मंतिणो कुटुंब जा हत्थग्गाहं गिहिउं आढत्ता, ताव मंतिणो वि भडा समुट्ठिआ । उडुंडभंडणपरे ते दट्टण थिरमणेण १३६ For Personal & Private Use Only Page #146 -------------------------------------------------------------------------- ________________ मंतिणा विणिवारिअ रायनरा पुट्ठा 'किं कारणं जेण एयारिसं असमंजसं उवट्ठियं ?' | 'तुह पुत्तेण रायकन्नगाए वेणीछेओ अज्ज कओ' । तं सुणिऊण मंती चिंतेइ – 'अचितं कम्मं, जं तारिसे चोज्जहेउम्मि पडियारे विहिए वि एयारिसं दारुणं वसणं समावडिअं'ति । 'जइ वि एरिसमवराहं सेवंताणं एयारिसो चिय दंडो होज्जा, तह वि नरिंदं पेच्छामि'त्ति तेण नियपुरिसा भणिआ । — तओ सो नरिंदसहाए गंतूण कुद्धं नरणाहं पणमिअ भणइ - 'जहा देव! मंजूसाए मज्झे दिट्ठम्मि, तत्तम्मि वियारिए तओ मज्झ महंतो दंडो जुज्जइ, जेण सुवियारियकारित्तणं होज्जा' । एवं होउ त्ति भणिए जाव जंति मंजूसापासम्मि, तीए मुद्दाओ तहच्चिय तालगाई च पेच्छंति । पुरपरियणपच्चक्खं तालुग्घाडणे कए, निभालंति छुरियावेणीहत्थं सुपसन्नमुहं सचिवपुत्तं । तओ सव्वे वि अच्छेरजुअं सज्झसं परिवहंता अन्नोन्नमुहनिवेसिअदिट्टिणो परिजंपिउं लग्गा ' हे अमच्च ! किमेयं अच्छेरयं दीसइ ?' । स पडिभणइ - ‘देवो च्चिअ परमत्थं एत्थ वियाणइ, न उण अन्नो, जस्स गिहे मंजूसा पाहरिया य, जस्स दत्तमुद्दाओ, जस्स तालगाई दिण्णाइं तत्थ को अन्नो वियाणगो होउ' । मूढत्तणं पत्तो राया वि भणेइ – 'अयं तुज्झ णाणविसओ' । तओ रन्ना अलंकारेहिं सक्कारिओ मंती भणेइ - 'हे देव ! एत्तियमेतं मए विन्नायं, जह मम सुयाओ सव्वविणासो होहिइ, ण उणो वेणिच्छेयाउत्ति, तओ मंजूसाए संगुत्तो पत्तो तुहं समुवणीओ, जे तुह पच्चए जणिए अवराहठाणं अहं न होमि । अओ णज्जइ पुव्वभवंतरवेरी को वि णूणं सुरो होज्जा, जेण मज्झ वसणकए एयागारधरेण तेण सुरेण एयं सव्वं अणुट्ठिअं ति संभाविज्जइ' । - तओ संजायपच्चएहिं सव्वेहिं 'एवमेयं' ति भणियं 'कहमन्नहा एसो तुज्झ पुतो सुरक्खिओ इणं कज्जं कुणेज्जा' ! हे देव ! अचितं कम्मं कयपडिकारं पि जं एवं फलइ, बुद्धिमंताणं चरियं पि कम्मस्स पसरं जं हरइ । अओ लद्धावसरं कत्थइ बलियं कम्मं, तह य पुरिसयारो वि कत्थइ बलिओ होइ । एवं परिणयमइआणं जारिसं चरियं, तारिसं चिअ चरिअं कम्मपुरिसगाराण णेयं । हुतं कत्थइ जीवो बलिओ, कत्थइ कम्माई होंति बलियाई । कत्थइ धणिओ बलवं, धरणओ कत्थई बलवं ॥३॥ १. धारणक: अधमर्णः ॥ - एवं सोच्चा रण्णा बहुपूइओ सो णाणगब्भो मंती नियनाम समाणचेट्ठिओ होउं सिरिं तह जसं च लोए पत्तो ॥ उवएसो नाणगब्भस्स मंतिस्स, देव्वदिवारणं । सोच्चा भे चरियं 'होह, मईए कज्जसाहगा' ॥४॥ फलदाणसमुत्थिअ- असुहकम्मनिवारणे णाणगब्भमंतिस् कहा समत्ता ॥ - १३७ For Personal & Private Use Only - उवसपाओ Page #147 -------------------------------------------------------------------------- ________________ २. पुण्ण-विक्कमपहावे पुण्णसार-विक्कमसाराणं कहा पुण्णोदएण सोक्खं वा, कासइ विक्कमेण वा । पुण्ण-विक्कमसाराणं, इह रम्ममुदाहियं ॥१॥ आसि खिइपइट्ठियनामं नयरं, तत्थ पुण्णजसो नाम नरिंदो अहेसि, तस्स य पिया सुहगंगी अत्थि । अह तत्थ पुरम्मि धणड्डसुओ पुनसारो नाम, बीओ विक्कमवणिणो सुओ विक्कमसारो नाम आसि । ते दो वि अहिगयकलाकलावा तारुण्णं समणुपत्ता । एगया ते वियारिति – 'तारुण्णे पत्ते वि जइ लच्छीए अज्जणं न होज्जा, तया अणज्जचरियस्स तस्स को पुरिसगारो? । जाव जस्स लच्छी दाणाइकिरियासु वुच्छेयं न एइ, ताव तस्स जसो, जणसोहग्गं च । तत्तो पणयजणवंछियत्थकरणओ कयचमक्कारा जह सिरी समुग्घडइ, तह जत्तो कायव्वो । तेण अणुसरिमो देसंतरं, आरोहेमो परक्कमगिरिम्मि, तो अम्हाणं जणवल्लहा लच्छी दुल्लहा नो भविस्सइ' । तओ कयपत्थाणा जा सत्थसन्निवेसं गया, ताव पढमस्स पुण्णसारस्स विहिवसओ तत्थ खणणेण महंतो निही समुवट्ठिओ, तं गिण्हिऊण गेहं समागओ, तदुचिएसु कज्जेसु लग्गो । बीओ विक्कमसारो पुणो जलहिपारगमणेण लद्धधणो तुलाए जीवं आरोविऊण नियगेहं पत्तो । सो वि य सधणोचियकिरियासु तं सिरिं विलसिउं परिलग्गो । नयरम्मि ताणं पवाओ संजाओ - जह 'एसो पुण्णसारो पोढपुन्नपब्भारो संपत्तसयलवंछियलच्छीविच्छड्डो सुहिओ, बीओ य पुणो विक्कमसारो दारुणजलहितरणसंजायगरुअधणरिद्धी बंधुवग्गसहिओ भोगे भुंजइ । ता एएसि मज्झे पढमो अईव पुण्णबलिओ दइवेण संजुओ अत्थि, बीओ वि अखलियपसरो ववसायपरो पुरिसकारेण जुत्तो अत्थि' । रन्ना एसो पवाओ निसुओ, अइकोउगाओ सहाए ते सद्दाविआ, पुट्ठा य – “किं एसो पवाओ सच्चो, अण्णहा व ?'त्ति । तेहिं भणियं – 'जणप्पवाओ वितहो न होज्जा जओ पायं अइपच्छन्नं पि कयं कज्जं लोगो सज्जो वियाणेई' । एवं सोच्चा रन्ना तेसिं परिक्खा आरद्धा । पढमो पुण्णसारो एगागी चिअ भोयणस्स कए निमंतिओ । महाणसनरा वि भणिया – 'अज्ज तुम्हेहिं रसवई न कायव्वा, जओ एयस्स पुण्णवसेण पत्तं अम्हेहिं भोत्तव्वं' । अह पत्ते भोयणसमए महादेवीए संपेसिओ महल्लो अंतेउररक्खगो विन्नवेइ – 'अज्ज देवीगिहम्मि तुम्हेहिं भोत्तव्वं, जओ अज्ज जामाउओ नियनयराओ किं पि पयोयणत्थं समागओ अत्थि । तस्स निमित्तं सूओदणाइभेयं साउभोयणं पसाहियं । ता देव ! तुमए सद्धिं भुंजतो सो सोहागं लहेज्जा' । तो ते सव्वे वीसत्था तं भोयणं भुंजीअ । अन्नदिवहे बीओ विक्कमसारो भोयणत्थं निमंतिओ । सव्वे वि रसवईए पसाहगा भणिया - 'लहुं चेव भोयणं कुणेह' । तेहिं सव्वायरेण भोयणं उवट्ठियं कयं, भोयणावसरे आसणेसुं दिनेसुं, उवट्ठिए भत्ते समाणे, तया रायसुयाए अट्ठारससरसमनिओ आमलगथूलमुत्ताहलुब्भडो हारो निन्निमित्तं पि तुडिओ, दीणाणणा य सयंती रायसुआ पिउस्स पासम्मि समागम्म भासइ - 'मे हारो इहि पोइज्जउ, नऽन्नहा भोयणं काहं' । इअ जंपिए तो नरवई जाव विक्कमसारमुहं पलोयइ, ताव उज्जियभोयणकज्जेण तेण सो १३८ For Personal & Private Use Only Page #148 -------------------------------------------------------------------------- ________________ हारो नवसुत्ततंतुसज्जो खणेण पगुणो कओ । पच्छा दोवि तं भोयणं सुहं भुत्ता । निवइणा परिभाविअं'सच्चो जणप्पवाउ' त्ति । एवं पुण्णसारो पुण्णुदएण ववसायं विणा सुहं पत्तो, विक्कमसारो अ तारिसपुण्णं विणा ववसाएण सोक्खं पावीअ ॥ उवएसो - पुण्णविक्कमसंजुत्तं, सेट्ठिपुत्ताण नायगं । सुणित्ता ताण पत्तीए, उज्जमेह तहा सया ॥२॥ पुण्ण-विक्कमपहावे पुण्णसार-विक्कमसाराणं कहा समत्ता ॥ - उवएसपयाओ ३. अवियारियकज्जम्मि पहाविअस्स कहा वाणिअस्स सहावो जं, किं पि देइ सहेउअं । हाविअस्स जहा होत्था, 'टक्कोरत्तं घणं दुहं ॥१॥ कत्थइ नयरे एगो सिरिमंतो सेट्ठी आसि । तेण वाणिज्जकलाए बहुं धणमज्जियं । बुद्धिपहावेण सव्वकज्जेसु पउरजणेहिं पुच्छणिज्जो होत्था । सो वुड्डत्तणे पुत्तेसुं हट्ट-घराइभारं आरोविऊण निवुत्तो संजाओ। ___ तस्स सेट्ठिस्स एगो ग्रहाविओ पिओ अस्थि । दिणंतरेण सो तस्स पासंमि केसकम्मं करावेइ । मासे सद्धमासे य सव्वओ समंताओ मत्थयं मुंडावेइ । एगया सेट्ठी तस्स पुरओ मुंडावणत्थं समुवविट्ठो समाणो कहेइ – 'अज्ज सव्वं मत्थयं मुंडेहि' । सो वि दिवाकित्ती हत्थलहुत्तणेण सोहणयरं मउययरं मुंडणं काही । करफासणेण सिरं फासिऊण भणेइ – 'सुंदरयमं मुंडणकम्मं मए कयं' । तओ परिणामं अवियारित्ता हरिसेण सेट्ठिणो मुंडिअसिरंसि टक्कोरं देइ । अंतो रूसिओ वि सेट्ठी पच्चुप्पण्णमई कि पि चिंतिऊण दुण्णि रूवगाइं अप्पेइ । पुव्वं तु पइमुंडणं तस्स दुवालस आणगाइं दितेण तेण वि अहुणा दीहदंसित्तणेण अहियं दिण्णं। . __ण्हाविएण चिंतियं – "मुंडिअसिरंमि टक्कोरदाणेण अहियं धणं लब्भइ । अहो ! टक्कोरदाणस्स अणुवमो पहावो । एसो च्चिय धणुवज्जणस्स उवाओ सम्म' । एवं वियारंतं केसकम्मत्थं नयरम्मि भमंतं तं दिवाकित्तिं एगो रायसुहडो मुंडणत्थं बोल्लावेइ । सो तस्स मुंडणकम्मं सुट्ठत्तेण कुणेइ । कए समाणे अहिगलाहत्थं मुंडिअमत्थए टक्कोरं देइ । आसु रूसिओ सो कडिपट्टाओ छुरियं निक्कासिऊण तं ण्हाविअं १. टक्कोराप्तं टक्कोरलब्धम् ॥ १३९ For Personal & Private Use Only Page #149 -------------------------------------------------------------------------- ________________ भूमीए पाडिऊण तस्स उरत्थले चडिऊण घायं कत्तुं लग्गो । तया सो कंपमाणो हत्थे जुंजिऊणं 'हे दीणदयाल ! असरणो तव सरणमुवागओ, पुणो नेवं करिस्सं, मं मुंच मुंच त्ति जंपंतो थिओ' । लोगा वि बहुणो तत्थ मिलिआ, तेहिं बलाओ मुंचाविओ । मरणभयाओ विमुत्तस्स दुयं गच्छंतस्स तस्स मग्गे सो सेट्ठिवरो मिलिओ । 'भयदवंतं तं देक्खिऊण पुच्छेइ – 'भो ! किं अज्ज जायं?' । सो कहेइ – 'अज्ज मच्चुमुहाओ निग्गओ, जओ मए अज्ज तुम्हाणं मुंडिअसिरंसि टक्कोरे कए अहिगं दव्वं लद्धं । तओ मए जाणि धणज्जणे एसो सोहणुवाउ त्ति निण्णेइत्ता रायसुहडमत्थए मुंडिए समाणे टक्कोरे य दिण्णे, आसु रुट्ठो सो छुरि कड्डिऊण मं भूमीए पाडित्ता वच्छत्थले चडित्ता जाव पहरिउं लग्गो ताव जणेहिं तम्हा हं उम्मोइओ, तओ भयाओ थरथरंतो तुम्हाणं मिलिओ' । सेट्ठी वि कहेइ – 'वाणिअस्स उवहारो कया वि हियगरो न होज्जा, तस्स दाणम्मि वि भेओ भवे । पंचजणमज्झे पुच्छणिज्जो माणणीओ य अहं होमि, अण्णह तं तु निरत्थयं सिया । अओ हे पहाविअ ! वइसस्स दाणंमि वि रहस्सं होज्जा, जओ वणिओ कया वि निरत्थयं न देइ त्ति ॥ उवएसो - वणिणो अत्थदाणेण, नाविअस्स हु दुद्दसं । नच्चा तव्ववहारंमि, सावहाणो सया भवे ॥४३॥ अवियारियकज्जम्मि पहाविअस्स कहा समत्ता ॥ - गुज्जरभासाकहाए ४. लोहोवरिं माहणस्स कहा नेव कुज्जा महालोह, पावस्स पियरो हि सो । दिटुंतो माहणो एत्थ, साणपुच्छस्स कड्डगो ॥१॥ एगो माहणो वाणारसीए नयरीए चउद्दसविज्जाओ पढिऊण गिहे समागओ । तस्स भज्जा रूववई सीलवई जिणधम्मवासिआ य अस्थि । दुवालसवरिसंते पइसमागमणेण तीए अईव आणंदो जाओ । तीए विआरियं – 'पंडिआ ववहारे सुन्ना वट्टेइरे त्ति पसिद्धी अत्थि, अओ मम भत्तुस्स सव्वविज्जापारगस्स वि ववहारे केरिसं नाणं विज्जइ?' इइ नाउं रत्तीए पुढे – 'हे पिअ ! पावस्स को पिआ ?' तेण बहुं चिंतिअं पि जया पच्चुत्तरं नाऽवगयं, तया तेण पुच्छिअं – 'हे पिए ! तुमं कहसु' । तीए वुत्तं – 'अहं १. भयद्रुतम् ॥ १४० For Personal & Private Use Only Page #150 -------------------------------------------------------------------------- ________________ न जाणामि, किंतु साहूणं वसहीए गंतूण आयरियं एयं पुच्छिऊण अत्थं जाणेसु' । तओ बीयदिणंसि आयरियपायमूले गच्चा पुच्छइ – 'भयवं ! पावस्स को पिआ?' | कज्जपरमटुं नाऊण आइरिएण वुत्तं - 'कल्ले पच्चूसकाले भाणूदयाओ पुव्वं समागंतव्वं' । एवं सोच्चा सो बंभणो 'किमुत्तरं एसो दाही ?' इह चिंतमाणो गिहे गओ । आयरियवरिएण किं पि कहिऊण गीयट्ठसमणोवासगेण उवस्सयस्स निगूढठाणंमि रूवगो ठविओ । अन्नं च वसहिसमीवे एगसुणगसवठवणत्थं सूइअं ति तेण गीयट्ठसमणोवासगेण 'तह'त्ति कहित्ता तहेव अणुट्ठिअं। अवरवासरे तेण माहणेण रत्तीए चरमे जामे समागंतूण तहेव आयरियपुंगवो पुच्छिओ। आयरिएण वज्जरिअं – 'मम एगं कज्जं कुणसु, पच्छा तुम्ह पण्होत्तरं दाहिमि' । तेणुत्तं – 'किं तं ?' । मुणिवइणा साहियं - 'वसहिसमीवे सुणगकडेवरं विज्जइ, तेण अम्ह असज्झाओ वट्टइ, तओ एणं कड्डिऊण दूरं विमुंचाहि' त्ति । माहणो कहेइ – 'पवित्तो माहणो होऊण एरिसं निंदणिज्जं अपवित्तं कज्जं कहं कुणेमि? कया वि अहं न करिस्सामि' । मुणीसरेण वुत्तं – 'मुहा अहं न कारवेमि, किंतु तुमं जइ एयं कज्जं काहिसि, तया तुम्हं एगं रूवगं दाविस्सामि'त्ति । सो रूवगलाहं सोच्चा लोहंधो जाओ, चिंतेइ त्ति य 'रत्तीए मं को जाणिहिइ ?', तओ नियं माहणत्तणं वीसरिऊणं सव्वाइं वत्थाई चइऊण लिंगपडधारगो जाओ। तयणंतरं तेण वसहीए बाहिरठिअस्स साणसवस्स लंगूलं कड्डित्ता दूंरं सो साणो अवसारिओ । पुणो वि तेण समीवथिअसरोजलेण ण्हाइऊण वत्थाइं च परिहिअ मुणिवइपासे समागंतूण उत्तं – 'तुम्हाणं कज्जं मए कयं तओ रूवगं दावेसु' । आयरिएण कहियं – 'अमुगंमि गुत्तठाणे रूवगो अत्थि, तं गिण्हाहि' । तया तेण तओ ठाणाओ रूवगो गहीओ। पुणो वि सो पण्हो पुच्छिओ । आयरिएण कहियं – 'अत्थओ तुम्ह पण्हुत्तरं दिण्णं, तुमए किं 'नाऽहिगयं ?' । तेणुत्तं – 'सम्मं न जाणामि' । तया मुणिवइणा कज्जपरमट्ठो कहिओ - 'जं तुमं सउयवओ माहणो होऊण रूवगलोहेण एयारिसं अकज्जं कासी, तेण तव पच्चुत्तरं पि समागयं – 'जओ सव्वपावाणं कारगो लोहु त्ति तव बोहणटुं मए एआरिसी जुत्ती कया' । तओ सो माहणो अवगयपरमट्ठो चित्तचमक्किओ मुणिवरं पणमिऊणं घरंमि गओ । उत्तं च पियाए 'सव्वपावाणं कारगो लोहो अस्थि । तेण पावस्स पिआ लोहो णेओ' ॥ उवएसो - अकिच्चकारगं लोहं, सव्वाणट्ठस्स मूलगं । नाणाइगुणहंतारं, सव्वया परिवज्जए ॥२॥ लोहोवरिं माहणस्स कहा समत्ता ॥ - सूरीसरमुहाओ १४१ For Personal & Private Use Only Page #151 -------------------------------------------------------------------------- ________________ ५. सुहासिसाइ उवरि सेट्ठिणो कहा अणुग्गहीयलोगस्स, फलंतीह सुहासिसा । अपुत्तस्स जहा पुत्तो, हवित्था सेट्ठिणो तहा ॥१॥ एगंमि नयरे सिरिमंतो दाणसीलो को वि सेट्ठिवरो आसि, तस्स भज्जा लच्छि व्व जहत्थनामा लच्छीमई नाम । दुण्हं पि परुप्परं नेहवंताणं सुहेण कालो गच्छइ । सव्वओ सुहियाणं पि ताणं एगं चिय दुहं अत्थि, जं पुत्तस्स अभावो । पोढवयपत्ताणं पि पुत्तो न सिया । जस्स घरंगणंमि धूलिधूसरिअंगो अंगओ न कीलेइ, तस्स पत्ताए विच्छिण्णाए लच्छीए किं ? एगया भज्जाए गुरुमुहाओ सुअं – “वित्तस्स सारया दाणे, भोगा दाणेण होइरे' – इइ सोच्चा गिहे आगंतूण नियभत्तुणो दीण-दुहिय-अणाहाईणं दाणटुं कहियं । तया सो सेट्ठी पच्चूसाओ आरब्भ मज्झण्हकालं जाव नियमंदिरस्स हिट्ठम्मि हट्टं काऊणं किंकरस्स हत्थेण दाणं निरंतरं दावेइ । अन्नं च तंमि नयरंमि एगो वणियपुत्तो भज्जापुत्तजुगलसहिओ वसइ । दुट्ठदइव्वेण पराहूओ सो निद्धणो अच्चंतदुहिओ संजाओ । छुहादुहपीलिआणं तेसिं महाकटेण कालो गच्छइ । परसमीवे धणधन्नाइमग्गणत्थं भज्जाए पेरिओ वि सो लज्जापरवसेण कया वि य अयाइयत्तणेणं न परं पत्थेइ । एगया भज्जा खुहाबाहियाणं वारं वारं भोयणं मग्गमाणाणं पुत्ताणं दुक्खं पासिउं असमत्था नियप्पियं कहेइ – 'हे पिय ! पुत्ताणं दुक्खं किं न पाससि?, बुहुक्खिया जइ मरिस्संति तया जीववहपावगं ते लगिस्सइ । अओ तुं पुत्तेसुं करुणं किच्चा कं पि धणड्ढें पत्थेसु, अहवा लं दाणसीलसेट्ठिवरं गच्छाहि, जो दयालू सइ मज्झण्हं जाव सव्वेसि निरग्गलं दाणं देइ'त्ति । तया सो भज्जापरिणोइओ घराओ निगंतूण सेट्ठिस्स गेहं पइ चलिओ । ऊसाहस्स विरहाओ मंद मंदं चलंतो विलंबेण तत्थ गओ, तया सेट्ठिस्स किंकरमहत्तमो हट्टं पिहेइ । सो मउणेण तत्थ ठिओ, किं पि न मग्गेइ । हट्टाओ निस्सरंतो सो तं पासिऊण पुच्छेइ – “किं आगमणपओयणं' ? पुव्वं तु सो अमग्गणसहावेण लज्जणसीलेण य न बोल्लेइ, न य पत्थेइ । जया दुच्चं पुटुं, तया कहेइ - 'खुहियकुडुंबटुं धण्णाइमग्गणाय आगओ म्हि । तेणुत्तं कलंमि आगंतव्वं, अहुणा समओ न, इइ कहित्ता सो निग्गओ । सो वणिअपुत्तो अज्ज कुटुंबस्स निव्वाहो कहं होज्ज त्ति चिंतमाणो दुक्खभरभारेण नेत्ताहितो अंसूणि मुंचंतो तत्थ च्चिअ थिओ । एत्थंतरे सा सेट्ठिस्स भज्जा नियमंदिरवायायणे उवविठ्ठा आसि । तीए सो रुयंतो दिट्ठो । अणुकंपाए सो नियसमीवे आहूओ, रोयणकारणं च पुढे । पुणो पुणो पुच्छाए सो नियदुहियावत्थासरूवं कहेइ । सा तस्स भज्जा-पुत्तजुगलस्स एयारिसिं अवत्थं सुणिऊण उवगयकरुणा तं उद्धरिउं निण्णयं काही । पुव्वं तु तीए तं किंकरमहत्तमं बोल्लाविऊण उवालंभं दाऊण बहुधणधण्णाइयं तस्स दावियं, अन्नं च भज्जा-पुत्तजुगलजोग्गुवगरणाई दिण्णाइं । पुणो वि कहियं – 'मम गेहं पि अप्पणो समाणं गणित्ता विणा संकोएण इच्छियवत्थुगहणत्थं अवस्सं आगमणीअं' । सो वणिअपुत्तो सक्खं १४२ For Personal & Private Use Only Page #152 -------------------------------------------------------------------------- ________________ लच्छीव लच्छीसेट्ठिणीए पाए पणमिअ सव्ववत्थूई च घेत्तूण गिहं गओ । पइक्खमाणा तस्स भज्जा सव्वगिहोवक्खरसंजुयं आगच्छंतं पियं दट्ठणं साणंदा जाया । 'कहं कत्थ वा एरिसं लद्धं ?' । सो सव्ववुत्तंतं कहेइ। तं सोच्चा सा बोल्लेइ – 'तीए सेट्ठिणीए कल्लाणं सुहपरंपरा वंछियसिद्धी य अत्थु, जीए सप्पिय-पुत्ताणमम्हाणमुद्धारो कओ' । एवं सुहभावणाए सुहासिसं देइ, एवं च सइ पत्थेइ । एईए सुहासिसाचिंतणाओ तीए लच्छीसेट्ठिणीए नीरासाए वि नवमासपडिपुण्णे सुरूवो कुलाहारो पुत्तो संजाओ। एवं सुहासिव्वायाओ किं किं न होज्जा ?। उवएसो - लोगाणुकंपणा लोए, जायए इच्छिअं फलं । जहासत्तिं पयट्टेज्जा, तओ तम्मि जणा सया ॥२॥ सुहासिसाए उवरि सेट्ठिणो कहा समत्ता ॥ - गुज्जरभासाकहाए १४३ For Personal & Private Use Only Page #153 -------------------------------------------------------------------------- ________________ For Personal & Private Use Only Page #154 -------------------------------------------------------------------------- ________________ ..... तर्हि लिखतु !! - किं भवान् क्षणस्य नयनयोः कज्जलमञ्जितुं जानाति? ... तर्हि लिखतु!! मरुप्रदेशस्य विषादं मरीचिकाजलेन मार्जयितुं शक्नोति? .... तर्हि लिखतु !! - जनमध्येऽपि एकाकी स्थातुं जानाति? ... तर्हि लिखतु!! स्वस्मादपि विच्छिन्नो भवितुं शक्नोति? ... तर्हि लिखतु !! "न किमपि जानाम्यह''मिति स्वीकृत्य स्थिरीभवितुं जानाति? ... तर्हि लिखतु!! (गूर्जरमूलं - सुरेश दलाल) For Personal & Private Use Only ,