SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Jain Education International तदहं वन्दे तेजः सज्जनरक्षार्थमेव धृतरूपम् ॥६॥ अखिलभुवनवन्द्यं नित्यपूतान्तरङ्ग विदितनिगमसारं ज्ञानवार्धेस्तरङ्गम् । सुविशदमधुरोक्तिं शारदाकेलिरङ्ग सुजनगुरुवरश्रीभारतीतीर्थमीडे ॥७॥ सज्जनचरितं लोके वारितदुरितं च कौतुकैर्भरितम् । तद्विषये श्रूयन्तां हृद्यानि कतिपयान्यत्र पद्यानि ॥८॥ सर्वत्र मैत्रीमनुपालयेद् यो हितानि कुर्वन् सकलस्य जन्तोः । अनाशयन् किञ्चन लोकवृत्तं वदामि तं सज्जनमार्यपूज्यम् ॥९॥ स्वार्थं च यः कामयते परेषां हिताय तं सन्तमुदाहरन्ति । विशालपर्णोत्करमीप्सति द्रुश्छायां प्रदातुं पथिकप्रजाय ॥१०॥ करोति कार्यं वचनं विना यः स एव सत्पुरुष इत्यवेहि । उक्त्वा तु कुर्वन्निह मध्यमः स्यान् नरोऽधमो यः कुरुते न चोक्त्वा ॥११॥ धर्माविरुद्धान् अनुभूय कामान् . न्याय्याध्वनाऽर्थान् समुपार्ज्य भूयः । या देवकार्ये प्रविलापयेत् स्वं तं सज्जनं सन्त उदाहरन्ति ॥१२॥ प्रशंसां श्रुत्वाऽपि प्रकृतिमहितैर्भूरि विहितं न यो धत्ते गर्वं भजति विनयं चाऽधिकतरम् । विनिन्दाम् आकर्ण्य प्रकृतिकुटिलैः संसदि कृतां न यो जह्याद् धैर्यं तमिह कलये सज्जनमणिम् ॥ १३ ॥ स्वार्थसिद्धिषु पराङ्मुखोऽपि सन् यः परोपकृतये प्रधावति । १३ For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy