________________
दुःखिताश्रुपरिमार्जनं महत् पुण्यमामनति यः स सज्जनः ॥१४॥ यः प्रशंसति प्रस्य सद्गुणान् मौनमाश्रयति चाऽऽत्मवर्णने । शत्रुवाक्यमपि सत्यमास्थया यः शृणोति सहितं स सज्जनः ॥१५॥ मैत्री प्रवर्धयति यः सकले प्रपञ्चे दुःखार्दितेषु करुणां कुरुतेऽखिलेषु । श्रेष्ठेषु पण्डितजनेषु विनीततां यो धत्ते बुवे तमिह सज्जनमार्यवन्द्यम् ॥१६॥ भाषणं तोषणं यस्य, दर्शनं शोककर्शनम् । तमहं सज्जनं मन्ये, सर्वलोकस्य भूषणम् ॥१७॥ गुणस्तुतौ यो रमते रेषां विनैव कोपं क्षमते च मन्तून् । बुद्धिर्यदीया क्रमते न पापे तं सज्जनं प्राहुरुदारचित्ताः ॥१८॥ कचपाशं कुचकुम्भौ, लोचनमीनौ च मत्तकाशिन्याः । दृष्ट्वा चञ्चलचित्तो, यो न भवेत् स सज्जनः कथितः ॥१९॥ सर्वोऽपि लोकस्त्वयि वित्तपूर्णे नमस्करोति स्तुतिमातनोति । विपत्स्वसौ दूरतरं प्रयाति यस्त्वन्तिके तासु स सज्जनः स्यात् ॥२०॥ मनस्युदार: परदारदूरो जनार्तिचोरो महितप्रचारः । आचारवीर: सुविचारशूरः कलासु धीर: सुजनो मतो मे ॥२१॥ यो जयति सर्वशत्रून्, प्रीत्या विनयेन संविभागेन । योजयति च तान् मित्रैः, स एव सत्पूरुषो बुधैर्जेयः ॥२२॥ मदनदहनकीला यन्मनो न स्पृशन्ति प्रजनयति न विद्या विस्तृता यस्य गर्वम् ।
१४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org