SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ धनमपि परकीयं नैजयेद् यस्य चित्तं तमिह सुजनमाहुः पण्डिता निर्विशङ्कम् ॥२३॥ विषमविपदि यः स्यात् केसरीवाऽप्रकम्प्यो जलनिधिरिव सीमां यो न लङ्केत नीतिम् । गुरुरिव समदृष्टिनिदो यश्च नित्यं वदति तमिह विद्वान् सज्जनं निर्विशङ्कम् ॥२४॥ काम क्रोधं लोभ, मदमथ मोहं च मात्सर्यम् । पूर्वं जित्वा योऽन्यान्, शत्रून् जेष्यति स सज्जनः कथितः ॥२५॥ प्राणान् कपोतस्य शिबी ररक्ष श्येनाय दत्त्वा स्वशरीरमांसम् । सर्वस्वदो रक्षति सज्जनोऽयं प्राणांश्च मानं च सुखं परेषाम् ॥२६॥ दिने दिने सज्जनसङ्गलाभो निमज्जनं वारिणि देवनद्याः । श्रीचन्द्रमौलिस्तवसर्जनं च त्रयं न लभ्यं सुकृतं विनैतत् ॥२७॥ दुर्जनस्य चेष्टितानि वीक्ष्य नैव सज्जनः कुप्यति, स्वभावजो गुणो न निन्द्यते बुधैः । काककण्ठकर्कशत्वमुष्ट्रकायवक्रतां वीक्ष्य भूरि बुद्धिमान् उपेक्षते न गर्हते ॥२८॥ न सज्जनस्याऽस्ति कदापि चिन्ता सुख्खे च दुःखेऽप्यथवा स्वकीये । परस्य दःखान्यपनेतमेव व्यग्रं मनस्तस्य यतो नितान्तम् ॥२९॥ न सज्जनस्याऽस्ति कदापि भीतिः शत्रोर्यमाद् वा नरकान्लूपाद् वा । लोकापवादात् स बिभेति यरमात् परोपकारावसरं हरेत् सः ॥३०॥ कर्तुं कदाऽप्यत्र परोपकारं न सज्जनोऽन्विष्यति कारणानि । १५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy