SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ असज्जनोऽप्यत्र पापकारं विनैव हेतुं सततं तनोति ॥३१॥ विस्मृत्य सौख्यमविचार्य शरीररोगान् पत्नीवचोऽप्यविगणय्य विहाय गेहम् । यः सज्जनः परहिताय करोति यत्न तं दुर्जना अपहसन्ति किमत्र कुर्मः ॥३२॥ क्लेशान् मूषा बहुविधान् सवदश्रुपूर्वान् सत्यूरुषस्य पुरतो मुहुरीरयन्तः । तस्मात् समस्तमपि वित्तमवाप्य पश्चान्मूर्ख तमेव कथयन्ति खलाः कृतघ्नाः ॥३३॥ सन्ति सर्वत्र हिंसन्ति, लसन्त्यपहसन्ति च । दुर्जनाः प्रचुरा लोके, सज्जनो दृश्यते न वा ॥३४॥ दुर्जना भान्ति सर्वत्र, सज्जनो दृश्यते क्वचित् । हंसाः क्वाऽपि सोमध्ये, वृक्षे वृक्षे च वायसाः ॥३५॥ सता गुणेन सम्बद्धः, कान्त्यालोकं प्रसाधयन् । सरलो विरलो लोके, सज्जनस्तरलायते ॥३६॥ भवेन्नराणां सुजनत्वहेतुन देवपूजा न जपो न वेषः । न मत्रपाठो न च वेदघोषः सौजन्यबीजं हि परोपकार: ॥३७॥ सत्यं वद त्वं चर धर्ममच्छं मातुः पितुश्चैव कुरुष्व सेवाम् । आचार्यमर्चाऽतिथिमाद्रियस्व प्राप्तुं पृथिव्यामिह सज्जनत्वम् ॥३८॥ कृष्णं शिवं वा जिनमीश्वरं वा बुद्धं गणेशं कमपि त्वमर्च । दयामहिंसां सकलेषु मैत्रीम् अभ्यस्य संप्राप्नुहि सज्जनत्वम् ॥३९॥ अशक्तमधनं बुधं विनयशालिनं सज्जना नमन्ति शिरसा सदा परिचरन्ति च श्रद्धया । १६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy