SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विवेकरहितं शठं धनिकमुद्धतं गर्विणं बलाढ्यमपि मन्वते तृणमिवाऽवजानन्त्यपि ॥४०॥ कुतो भगवता कृताः पहितैषिणः सज्जनाः धनेन रहिताः सदा विकलशक्तयः कातराः । कुतश्च विहिताः खलाः सकललोकनाशोद्यताः सदैव बलवत्तराः प्रखरबुद्धयो दुर्मदाः ॥४१॥ सज्जनं वदसि कं सख्खेऽधुना स्वार्थ एव सकलः सदोन्मुखः । निष्फले सति समस्तभूरुहे ब्रूमहे कमिह कल्पपादपम् ॥४२॥ गुणोदयः साधुजनस्य जायते यथेभपोतस्य रदोद्भवः स्वयम् । यथा मयूरस्य कलापकोदयो यथा मृगेन्द्रस्य च केसरोद्गवः ॥४३॥ वित्तं च विद्यां च बलं च लब्ध्या गर्वं च कामं च मदं च जित्वा । शूरश्च वीरश्च बुधश्च भूत्वा लोकान्तरं सज्जनधुर्य एति ॥४४॥ विज्ञानवन्तोऽपि विवेकहीना विशालवित्ता अपि लुब्धचित्ताः । सुवंशजाता अपि शीलशून्याः कथं लभेरन् वद सज्जनत्वम् ॥४५॥ यत्र सुभाषितगोष्ठी, यत्र च भोजनमशङ्कितं भवति । यत्र गुरूणां पूजा, तत्सज्जनगेहमाहुरभियुक्ताः ॥४६॥ विश्वासत: परमपुंस्यथवाऽन्यलोके संजायते न सुजनो भुवि दुर्जनो वा । ना नास्तिको भवतु कश्चिदथाऽऽस्तिको वा नानाविधा भवति दृष्टिरिह प्रपञ्चे ॥४७॥ दौर्जन्यहेतुर्नहि नास्तिकत्वं सौजन्यहेतुर्नहि चाऽऽस्तिकत्वम् । १७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy