SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ सत्यं दमो भूतदया क्षमा च कुर्वन्ति मर्यं सुजनं च मान्यम् ॥४८॥ सज्जनो भजति नैव विकारं कारणे महति सत्यपि नूनम् । झाया प्रतिहतोऽपि महीधो निश्चलो भवति भङ्गविहीनः ॥४९॥ मज्जनैः किमु सरिज्जले सख्खे ! सज्जनोक्तिसलिले निमज्ज्यताम् । ज्जलं नयनयोः किमर्पयस्यर्पयाऽऽर्यजनदर्शनाञ्जनम् ॥५०॥ मधुमधुरस्सत्सङ्गः, स हि सौख्यक्षीरसागरतरङ्गः । लक्ष्मीनर्तनरङ्गः, पूर्जितपापवृक्षगणभङ्गः ॥५१॥ मधूयते साधुजनस्य मैत्री विषायते दुष्टजनस्य सैव । विधूयते प्रेममयस्य वक्त्रं वहीयते द्वेषयुजस्तदेव ॥५२॥ गरीयसी भूमिधराधिराजाद् बंहीयसी वारिनिधेः प्रपूर्णात् । पटीयसी पापनिवारणायां सत्सङ्गतिमें हृदये चकास्तु ॥५३॥ शब्दायते काकलोको, दुर्जनः कलहायते । साधुर्मित्रायते नित्यं, निसर्गोऽयं दुरत्ययः ॥५४॥ न सज्जनत्वं विभवस्य हेतु दृष्टा जगत्यां धनिनो भवन्ति । तथाऽपि लोकस्य हिताय विद्वन् निःश्रेयसायाऽऽश्रय सज्जनत्वम् ॥५५॥ सज्जनवचनं निम्बात्, कटुतरमाभाति किन्तु परिणामे । गुडखण्डान्मधुरतरं, तस्मात्तन्मतिमता सविनयं ग्राह्यम् ॥५६॥ पुत्रमपि सापराधं, दण्डयति हि सज्जनो नितराम् । शत्रुमपि मन्तुरहितं, रक्षति सुतरां सर्वया शक्त्या ॥५७॥ १८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy