SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ चक्रं मुरारे: कुलिशं मघोनः शूलं पुरारे: सृणिरीशसूनोः । एतानि नाऽलङ्करणानि तेषां धूतानि तैः सज्जनरक्षणाय ॥५८॥ यच्छन्त्यभीष्टं दिवि कल्पवृक्षाः इत्याहुरद्राक्ष्म न तान् वयं तु । ददात्यभीष्टात् सुजनोऽधिकं द्रा नाउपेक्षितास्ते तरवः पृथिव्याम् ॥५९॥ दत्त्वाऽपि किञ्चिन्नहि कल्पवृक्षो ब्रवीति सान्त्वं न च कामधेनुः । सन्तस्त्वभीष्टादधिकं प्रदाय ब्रुवन्ति दैन्यापहरं च वाक्यम् ॥६०॥ धर्मार्थकाममोक्षाख्यान्, सर्वान् वाञ्छति सज्जनः । आदि चाउन्तिम तपा, नित्य त्यति दु. (दक। सौशील्येन विना न भान्ति वनिताः सौन्दर्यरम्या अपि भ्राजन्ते न च सौरभेण रहिता मालाः सुमाढ्या अपि । विद्वांसोऽपि न सौमनस्यरहिता राजन्ति विद्योज्ज्वलाः सौजन्येन विना लसन्ति न नरा ऐश्वर्ययुक्ता. अपि ॥६२॥ किं पूजया यत्र भवेल भक्तिस्तपस्यया किं नहि चेद् विरक्तिः । किं विद्यया या विनयं न सूते भाग्येन किं यत्र न सज्जनत्वम् ॥६३॥ सौजन्यं सौशील्यं, सौन्दर्यं सौमनस्यमपि सौख्यम् । एकस्यां व्यक्तौ यदि, दृश्येरन् धातुरेव तद्भाग्यम् ॥४॥ चाचल्यं पैशुन्यं, चौर्यं क्रौर्यं च पारदार्यं च ।। यदि वर्धरन् भूमौ, नास्ति तदा सुजनसुस्थितेर्वार्ता ॥६५॥ पत्नीं समानां गणयत्यजलं पुत्रं सखायं मनुते सदाऽपि । दासान् स्वतुल्यान् परिवीक्षते यः स एव लोकेऽर्हति सज्जनत्वम् ॥६६॥ १९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy