________________
किं वा तपोभिर्भुवि सत्यवाचो जपैश्च किं वाऽत्र जितेन्द्रियस्य । किं नित्यतृप्तस्य महाव्रताद्यैः किं वा सतस्तीर्थनिमज्जनेन ॥६७॥ मृदुभाषी मितभाषी, सरिमतभाषी च सज्जनो नित्यम् । तमपि विनिन्दन्ति कथं, मूर्खा दुष्टाश्च वाचाटाः ॥६८॥ सुरपतिधनुरिव रम्यं, मिथ्या च भवत्यसज्जनेनोक्तम् । विपिनौषधिरिव कट्वी, सज्जनवाग् भवति सर्वदा सेव्या ॥६९॥ सज्जननिक रस्तूष्णी, तिष्ठति गर्जत्सु दुर्जनेष्वधिकम् । कोकिलवून्दं जोष, भवति हि काकेषु जृम्भमाणेषु ॥७॥ आलस्यं मालिन्यं, परहिंसा परुषता च दुष्टगुणाः । दक्षत्वं शुद्धत्वं, परोपकारो दया च शिष्टगुणाः ॥७१॥ सज्जनसङ्गो भवतान्मम सुकृतैः पूर्वसञ्चितैः सकलैः । सर्वाण्यन्यफलानि, स दास्यत्येको विनैव सन्देहम् ॥७२॥ मधुरालापविलासः, सज्जनताया न लक्षणं लोके । मञ्जुलपञ्चमचुचुर्वञ्चनचतुरा हि कोकिला दृष्टा ॥७३॥ अञ्चति वञ्चनचतुरः, कञ्चन कार्याय साधिते तस्मिन् । मुञ्चति निर्दाक्षिण्यं, तादृशमुझेद्धि सज्जनो दूरात् ॥७४॥ मानसमन्थनजाता, सकलैर्विबुधैर्हरिप्रियैः पीता । सज्जनवागेव सुधा, तयैव नाकायते सदा वसुधा ॥७५॥ सज्जनत्वमिह नाऽनुमन्महे यत्तदेव खलु दुःखकारणम् । सर्वलोकविपदां निवारणे यत्नमास्थितवतः कुतः सुखम् ॥७६॥ सज्जनान् अनुदिनं निपीडयस्यातनोषि सुखिनरत्वसज्जनान् । हे विधे! तव विवेकिता गता पूर्णतो विलयमित्यहं ब्रुवे ॥७७॥ न जन्मना कश्चन सज्जनः स्याद् रूपेण न प्राज्यधनेन नाऽपि ।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org