________________
संस्कृताश्रिता डॉ. वासुदेव वि. पाठकः ‘वागर्थः'
संस्कृताश्रिता सुसंस्कृतिश्शिवा शुभा संस्कृतास्तया वयं; तदीश्वर-कृपा ॥ वेदानाममृतं नु चेतनाप्रदम् तत्त्वचिन्तकैश्च मार्गदर्शनं कृतम्; सर्वथोपकारिणीति मान्या मुदा, संस्कृताश्रिताऽस्ति संस्कृतिश्शिवा शुभा ॥ मोहनेन मोह गानं गीतम् मोदकरं सत्यधर्मतः कृतं हितम्; • ज्ञात्वैवं, सुज्ञतया कार्यं सदा संस्कृताश्रिताऽस्ति संस्कृतिश्शिवा शुभा ॥ बुद्धमहावीरौ वशिष्ठशङ्करौ मीरानरसिंहौ कबीरनानकौ; उज्ज्वलं दिशन्ति भा-रतत्वं मुदा संस्कृताश्रिताऽस्ति संस्कृतिश्शिवा शुभा ॥
-X
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org