SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ स्वार्थं परित्यज्य समस्तसौख्यं संसाध्य तुष्टिं सुजना लभन्ते ॥१०८॥ ये सज्जना धर्मपथे चरन्ति तान् मूर्खवर्यान् कथयन्ति लोकाः । अधर्ममन्यायमसत्यमक्रम ये कुर्वते तांश्चतुरान् वदन्ति ॥१०९॥ न नामधेयं न च रुपधेयं न भागधेयं सुजनत्वहेतुः । सुधांशुनामा रमणीयरुपः शिवादृतोऽब्जो गुरुतल्पगोऽभूत् ॥११०॥ सज्जनो भाषते नाऽर्थशून्यं वचो सत्यसंरक्षणं तस्य मुख्यं व्रतम् । संयमो नास्ति चेद्वाचि सत्यं गलेद् इत्यसौ. चिन्तयन् वक्ति वाचं मिताम् ॥१११॥ शिशिरकर इवाऽयं सज्जनोऽन्योपकारी सुरतरुरिव भूमावर्थिनामिष्टदायी। ऋषिरिव जितरागो वाग्यतः सत्यवादी मृगपतिरिव मानी सर्वदा धैर्यशाली ॥११२॥ भवतु सकललोकः सज्जनानां निवासो निगमगदितधर्मः सर्वदा वर्धिषीष्ट । विबुधनिकरपूज्या शारदा शृङ्गशैले कृतवसतिरियं नः पातु विद्याधिदेवी ॥११३॥ अल्पज्ञोऽपि कवित्वशक्तिविकलोऽप्याप्त्वा दयाशेवधेत्सिल्याम्बुनिधेरनुग्रहलवं श्रीभारतीतीर्थतः । पद्यानां शतकं सुहृज्जनमनोमोदाय संवर्णयन् रीतिं सज्जनसन्ततः सविनयं श्रीनागराजोऽभ्यधात् ॥११४॥ । इति नागराजरचितं सज्जनशतकं समाप्तम् । २४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy