________________
कथा
त्याग: कृतो मया मुनिधर्मकीर्तिविजयः
महात्मा गान्धिः किमपि लिखितवान् आसीत् । तस्य समीपे आसीनो(काका कालेलकरः)ऽहम् । 'उमर खय्यामे'त्यनेन लिखितस्य 'रूबायत'स्याऽऽङ्ग्लानुवादं पठन्नासम् । 'फिसिराल्डे'न कृतस्याऽनुवादस्य बह्वी प्रशंसा श्रुता मया किन्त्वद्यावधि न तत् पुस्तकं कथमपि प्राप्तं मया । अद्य तत् पुस्तकं प्राप्तवानहम् । तत इदानीमेव तद् गृहीत्वा पठितुमारब्धवान् ।
महात्मना गान्धिनाऽहं दृष्टः । स पृष्टवान् – किं पठति भवान् ? मया तत् पुस्तकं दर्शितम् ।
आवयोर्द्वयोर्मध्ये विशेषः परिचयो नाऽऽसीत् । अतो गान्धिमहोदयः सत्वरं मे उपदेशं दातुं नेच्छेत् । ततो दीर्घ निःश्वस्य गान्धिरवोचत् – “अहमपि आङ्ग्लकाव्यपठनस्य रसिक आसम् । तथाऽपि मया चिन्तितं - कोऽधिकारो मे आङ्ग्लकाव्यपठनस्य ? यदि मम समीपे समयोऽवशिष्टः स्यात्तर्हि कथं गूर्जरकाव्यलेखनस्याऽभ्यासं न कुर्याम् ? यद्यहं राष्ट्रस्य सेवां कर्तुमिच्छेयं तर्हि निखिलमपि समयं सेवाशक्तिं वर्द्धितुमेव प्रयतेय ।
क्षणं स्थित्वा पुनरुक्तवान् – राष्ट्रसेवार्थं यद्यहं त्यागं कर्तुमिच्छेयं तदाऽऽङ्ग्लसाहित्यस्य रुचेस्त्याग एव श्रेयस्करः, धनस्य व्यवसायस्य च त्यागस्तु न त्याग एवेति मन्येऽहम् । धनं प्रति च न कदाऽपि अहमाकृष्टोऽभवम् । केवलमाङ्ग्लसाहित्यस्य विशेषतयाऽऽसक्तिरासीत्, किन्तु मया मनसि निर्णीतं - "साऽऽसक्तिर्मया त्याज्यैव" इति । अहं तस्याऽऽशयमवगतवान् । तत्क्षणं तत् पुस्तकं मया त्यक्तम् ।
गूर्जरलेखकः - काका कालेलकरः
('वाचनयात्रानो प्रसाद'पुस्तकतः) -x१२६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org