________________
कथा
विरलानि संस्कारमूल्यानि मुनि: *अक्षयरत्नविजयः
___ आत्मप्रबोधिका दृष्टिः कश्चित् संशोधको विविधानि ग्राम-नगराणि पर्यटति स्म । ऐतिहासिकस्थलानि पश्यन्नन्यदा स कञ्चिद् ग्राममागतः । बहिामं तेन स्थले स्थले पाषाणमूर्तयः प्रस्थापिता दृष्टाः । ततः स संशोधकः साश्चर्यो जातः । युगपद् बढ्यो मूर्त्तय आसन् । सर्वाश्च मूर्तयो ग्राम्याणां विभिन्नजनानामासन् । किञ्च प्रत्येकस्याऽधः तत्तज्जनस्य संक्षिप्तः परिचयोऽपि आसीत् । स परिचय एव महद् विस्मयपदम् ।
कस्याश्चिन्मूर्तेरधः परिचयः प्रदत्त आसीत् 'स्व. श्रीरमणलालवर्यः - आयुः सार्धं वर्षद्वयम्' इति । कस्याश्चिदधो ज्ञापितमासीत् 'स्व. श्रीहिम्मतलालवर्यः - आयुः त्रीणि वर्षाणि' इति । कस्याश्चिदधः 'सपादं वर्ष'मिति लिखितमासीत् । बढ्यो मूर्त्तय आसन् । सर्वत्र चैतादृशी परिस्थितिरासीत् । कासाञ्चिदधः 'एकं वर्षम्' 'सार्द्धं वर्षम्' 'पादोनत्रयं वर्षम्' इति जीवितकालो दर्शित आसन् । सर्वाधिकं वयः सार्द्धत्रयं वर्षं दृश्यते स्म । तदधिकं वयः कस्यचिदपि न दृश्यते स्म ।
संशोधकस्य विस्मयो वृद्धि गतवान् ।
स चिन्तितवान् 'त्रिचतुर्वर्षवयोधरास्तु बाला एव भवितुमर्हन्ति । मूर्त्तयस्तु महतां स्युर्न तु बालानाम् । अतोऽत्र विसंवादो ज्ञायते । यतो यो महान् भवेत् स बालो न भवेत्, यश्च बालो भवेत् स महान्न भवे'दिति ।
[*पू.आ.श्रीधर्मसूरीश्वरसमुदायवर्ती]
१२७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org