SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ तस्य चिन्तनं यथार्हमासीत् । किन्तु, समाधानं नाऽऽसीत् । अत्रान्तरे कश्चिद् ग्राम्यो युवा तत्राऽऽगतः । संशोधकेन स पृष्टः – "मित्र ! युष्मदीये ग्रामे केऽपि महान्तो जना नैव प्रजाताः सन्ति किम् ?" ग्रामीणयुवकेन सस्मितं प्रत्युक्तम् – “ओम्, अस्माकं ग्रामे सर्वेऽपि बाला एव प्रजाताः सन्ति ।" संशोधकः साश्चर्योऽवदत् - "किं वदसि ? सर्वेऽपि बाला एव प्रजातवन्तः ?" युवकेन पुनः सस्मितमुक्तम् – “अरे ! महानुभाव ! अस्माकमेव नहि, जगतः प्रत्येकं ग्रामेषु नगरेषु च बाला एव जायन्ते ।" ___ अथ संशोधकेन यूनो भ्रमो ज्ञातः । तेन स्पष्टतया कथितं – "भ्रातः ! भ्रान्ति कथं करोषि ? अहं पृच्छामि 'अत्र या इमा मूर्तयः सन्ति । तासामधः 'एकं वर्षं - द्वे वर्षे - त्रीणि वर्षाणि' इति वयो लिखितमस्ति । ततः किम्, एते सर्वे बालावस्थायामेव मृत्युं प्राप्तवन्त आसन् ?" इति । इदं श्रुत्वा युवक एकं सुविचारं प्रदर्शितवान् – “महानुभाव ! एवं नाऽस्ति । इमे सर्वे तु वृद्धावस्थायामेव मृत्यु प्राप्ता आसन् । तथाऽपि सूक्ष्मदृष्ट्याऽस्माभिरेवं लिखितमस्ति । मूर्तिस्थजनानां जीवितकालः कियानपि भवेत्, सोऽत्र न गण्यते । किन्तु, तज्जीवने परोपकार-प्रभुभक्ति-गुरुभक्ति-अतिथिभक्तिप्रमुखसत्कार्येषु यावान् समयो व्यतीतः, स एवाऽत्र गण्यते लिख्यते च । त्रिवर्षं वयो नाम तज्जीवनस्य तावान् समयः सामाजिक-धार्मिककार्यार्थं व्यतीत इति । यतो मनुजानां तदेव कार्यं पारलौकिकं भवति ।" असौ संशोधकस्तु ग्राम्यजनानामात्मप्रबोधिकां दृष्टिं ज्ञात्वा नतशीर्ष एव बभूव । अद्यावधि यावत् संशोधनं कृतं तदद्य सफलमभवदित्यनुभववानपि जातः । (६) आदर्शदम्पती आसीद् दक्षिणभारतस्थ एक ऋषितुल्यो महाँस्तत्त्वचिन्तको गृहस्थः । स प्रभोभक्तः प्रामाणिकतायाः सेवकश्चाऽऽसीत् । युवावस्थायां तस्य परिणयो जातः । परिणयस्य प्रथमं दिनम् । स नूतनधर्मचारिणीं सूचितवान् – “यदाऽहं भोक्तुमुपविशामि तदा काष्ठपट्टस्योपरि एका सूची स्थापनीया, एकस्मिश्च लघुपिठरे स्वच्छं जलमपि रक्षणीयमिति ।" धर्मपत्न्या सूचनमङ्गीकृतम् । तस्या मनसि प्रश्नस्तु जातः - 'भोजनसमये सूच्याः काऽऽवश्यकता?' इति, किन्तु सा प्रश्नमन्तरेवोपशान्तं चकार । यतः पतिर्यदा कार्यं दर्शयेत्तदा तदङ्गीकरणमेवाऽऽर्यनारीलक्षणम् । १२८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy