SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तया मनसि चिन्तितं – 'प्रश्नेनाऽलम् । भोजनसमये तत्प्रयोजनं साक्षाद् द्रक्ष्यामी'ति । भोजनसमयो जातः । गृहस्थः पतिर्भोजनार्थमुपविष्टः । पत्न्या सूचीलघुपिठरे स्थापिते । भक्ष्यं च पात्रे स्थापितम् । दक्षिणभारतीयजना भोजने प्रधानतः सूपमोदनं च भक्षयन्ति । अत्राऽपि एवमेवाऽऽसीत् । स गृहस्थः सूपोदनयोर्भोजनमकरोत् । स्थालं च प्रक्षाल्य पपौ । आर्या पत्नी पत्युः सर्वां चेष्टां सावधानं निरैक्षत । किन्तु तत्र सूचीलघुपिठरयोः प्रयोजनं न ज्ञातम् । अतः प्रश्नोऽनुत्तर एवाऽवस्थितः । आर्यपत्न्या चिन्तितम् – 'न कोऽपि बाधः । भोजनं तु प्रत्यहं भविष्यति । सूचीलघुपिठर अपि प्रत्यहं स्थापयिष्येते । क्वचित्तूत्तरं प्राप्स्यते । परं, प्रश्नस्तु प्रष्टव्य एव न । मम स्वामी महाँस्तत्त्वचिन्तकोऽस्ति । तदीया काऽपि चेष्टा वृथा न भवेत् ।' 'उत्तरमद्य प्राप्स्यति, श्वो वा प्राप्स्यति' इति प्रतीक्षायां वर्षाणि व्यतीतानि । सूचीलघुपिठरे प्रत्यहं रक्ष्येते । तयोः किमपि प्रयोजनं न ज्ञायते । आर्या पत्नी पृच्छत्यपि न, पतिश्च ज्ञापयत्यपि न । ऋषितुल्यो गृहस्थोऽपि चेतसि चिन्तयति – 'मम पत्नी स्त्रीषु अनन्याऽस्ति । निष्प्रयोजनेऽपि कार्ये सा तत्पराऽस्ति । प्रश्नमपि न करोति । किञ्च, कदाचिदपि तया कलहोऽपि न कृतः । कण्ठिकाशाटिकादीनि वस्तून्यपि तया कदाऽपि न याचितानि । मम सूचनमप्यविरोधमङ्गीकुरुते । सा नूनं धन्या । एतादृशीं च धर्मचारिणीं प्राप्याऽहमपि धन्योऽस्मी'ति । एवं पञ्चाशद् वर्षाणि यावत् समयो व्यतीतः । पत्न्या अन्तकालः समीपमागतः । चिन्तकेन पत्या पत्नी पृष्टा - "तव काऽपि अन्तिमेच्छाऽस्ति किल?" पल्या कथितम् – “अस्ति ।" "ज्ञापय" पतिः कथितवान् । अथ पत्न्या नम्रस्वरेण कथितम् – “अद्य यावन्मया सूच्या लघुपिठरस्य च प्रयोजनं न ज्ञातम् । यदि बाधो न भवेत्तर्हि तत्प्रयोजनं ज्ञापयतु ।" पतिरुक्तवान् – "शृणु, ओदनोऽस्मद्भोजनम् । भोजनवेलायामोदनस्य कणो यदि भूमौ पतेत्तर्हि स पतितकणोऽपि निरर्थको न भवेत्, पिपीलिका नाऽऽगच्छेयुः, जीवहिंसा न भवेत्, उच्छिष्टेन च हस्तेन कणस्य ग्रहणेन हस्तभूमी दूषिते मा भूतामित्याशयात् सूचीपिठरयोः प्रयोजनम् । सूच्या तत्कणं गृहीत्वा लघुपिठरस्य जले क्षालयित्वा भूमिरजःकणाद्विमुच्य तं भक्षयेयमिति तत्प्रयोजनम् । परं, पञ्चाशति वर्षेषु कदाऽपि तव हस्तेन भक्ष्यस्य पात्रे स्थाप्यमाने कणो न पतितः । मयाऽपि भक्षणे न पतितः । तव मम चाऽप्रमादेन सूचीलघुपिठरयो रहस्यं नाऽभिद्यत ।" पत्युरगाधं तत्त्वज्ञानं श्रुत्वा पत्नी सन्तोषेण मृत्यु प्राप्तवती । चिन्तकस्य कीदृशमुत्तमं चिन्तनम् ? १२९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy