SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ गृहीत्वा सा वृद्धा राज्ञः समीपं गन्तुमुत्थिता । यष्टिसाहाय्येन शनैः शनैः सा गच्छन्त्यासीत् । राजमार्गतो गच्छन्तीं तां दृष्ट्वा युवानः सोपहासमवोचन् – वृद्धे ! एतावत्या शीघ्रगत्या कुत्र गच्छन्त्यसि ? वृद्धोवाच - राज्ञः प्रासादं प्रति गच्छामि । किमुपहारं दातुं गच्छसि? नैव, नैव, निर्धनाऽहं किमुपहारं यच्छेयम् ? एको युवाऽवोचत् - एषा तु राज्ञः सकाशाद् हजरतं मोचयितुं गच्छति । अन्यो युवोवाच - एषा वृद्धा सरला दृश्यते, किन्तु तस्याः कक्षे रत्नभृतः स्यूतोऽस्ति ।. तत्प्रभावेणेदानीमेव हजरतं मोचयिष्यति । पुत्र ! सत्यं, सत्यम् । मया त्वधुनैव श्रुतं, ततः सत्वरं मोचयितुं गच्छामि । युवाऽऽह – मित्राणि ! युष्माभिः श्रुतं किल ? एषा वृद्धाऽधुनैव हजरतं मोचयिष्यति । रे वृद्धे ! यद्यनेकेषां धनिकानां धनं हजरतं मोचयितुं न्यूनं जातं तर्हि तव समीपे कीदृशानि रत्नानि स्युः ? मित्राणि ! मम समीपे तु किं स्युः ? वृद्धे ! तथाऽपि स्यूते यदस्ति तद् दर्शय किल । युवभिरतीवाऽऽग्रहः कृतः । ततो वृद्धया स स्यूत उद्घाटितः । स्यूतात् तन्तुगुच्छो निर्गतः । रे वृद्धे ! हन्त ! एतेन कि हजरतं मोचयिष्यसि भवती ? प्रतिनिवर्तस्व । वृद्धोवाच – मित्राणि ! हजरतो मुक्तो भविष्यति न वा, सा चिन्ता न मया कृता । किन्तु ईश्वरस्य सभायां "यदा हजरतो बन्दीकृत आसीत्तदा तं मोचयितुं त्वया किं कृतम् ?" इति यदि प्रक्ष्यते तदाऽधोमुखीभूयाऽहं न स्थास्यामि किल ! १२५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy