________________
कथा
| किं कृतं त्वया ? मुनिधर्मकीर्तिविजयः
जना येभ्यो रोचेरन् तेषां बन्दीकरणेन जनेभ्यः सकाशादभीप्सितं धनं ग्रहीतुं शक्यमित्युद्देशेन 'मिसर'देशस्य राज्ञा 'हजरत इमानो' निगृहीतः । एषा कथा सर्वत्र प्रसृता । एतच्छ्रुत्वैव सर्वे जनाः शोकाकुला जाताः । देशे ये केऽपि धनिकाः श्रेष्ठिनोऽग्रण्यश्च जना आसन् ते सर्वेऽपि स्वकीयं सर्वमपि धनं गृहीत्वा हजरतं मोचयितुं गतवन्तः । किन्तु, हन्त ! तत् सर्वमपि धनं राजानं सन्तुष्टं कर्तुं न सफलं जातम् ।
एषोऽपि वृत्तान्तो राज्ये सर्वत्र प्रसृतः । सर्वे जनाः स्तब्धा जाताः । तत्र कस्यचिद् ग्रामस्याऽधोभागे वढेका वसति स्म । साऽऽदिनं प्रभुनामस्मरणं सूत्रचक्र (Spinning Wheel)व्यापारेण जीवननिर्वहणं चेति द्वे एव कार्ये करोति स्म । तयैषा वार्ता श्रुता । सा चिन्तितवती - तत्राऽहमपि गच्छेयम् - इति ।
वृद्धायाः समीपे नीविधनं तु नाऽन्यत् किमप्यासीत्, किन्तु केवलं तन्तुगुच्छः आसीत् । तं तन्तुगुच्छं
१२४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org