________________
"आङ्ग्ला ..... विश्वासघातः... दुर्गः... तात्या...' - तस्य मुखादेवं त्रुटिता शब्दाः प्रकटिता तदनन्तरमेव स मूच्छितो जातः ।
'निर्जनेऽस्मिन् वने कुत एष बाल आगतः ?' इत्याकारकमाश्चर्यं प्राप्तवान् जगत्या शिबिरपालकाः सैनिकाः । धावन्त इव ते तत्राऽऽगताः । तस्य स्थितिं दृष्ट्वा शिबिरं नीतवन्तस्तम् ? तस्य मूर्छामपाकर्तुं विभिन्नान् प्रयत्नानपि कृतवन्तस्ते । कतिपयनिमेषैः स शुद्धि प्राप्तवान् । किन्तु श्रान्तो बुभुक्षितस्तृषितश्च स उत्थातुमपि न प्रभवति स्म । मूर्छाप्राप्तेः पूर्वं तेनोक्तानां शब्दानां गाम्भीर्यमवगत्य तं तात्याटोपे-समक्षं नीतवन्तः सर्वे ।
तात्याटोपेमहोदयं नमस्कृत्य शुष्कस्वरेण कष्टेन स उक्तवान् – 'सेनापतिमहोदय ! अद्य मध्यरात्रौ आङ्ग्ला विश्वासघातेनाऽऽक्रम्य ग्वालियरदुर्गं स्वसात्करिष्यन्ति ।'
"किमेतत् प्रलयसि रे ! ?" - तात्यामहोदयस्तस्य कथनं श्रुत्वा चकित उत्थित एव । क्षणं तु 'एष उन्मत्तप्रलाप एवाऽस्य' इति मतवान् । किन्तु तं स्वस्थं दृष्ट्वा पुनः पृष्टवान् – 'किं कथयसि रे?'
'अरे ! सत्यमेव वदामि । दुर्गपालो लक्ष्मणराव आङ्ग्लैः सह सम्मीलितोऽस्ति । समेषां विश्वासं विहत्याऽपि स दुर्गद्वारमद्य मध्यरात्रावुद्घाटयिष्यति ।'
'त्वया कथमेतज्ज्ञातम् ?' - अविश्वस्त एव पुन: पृष्टवान् तात्याटोपेमहोदयः । पुनश्च कठोरस्वरेण पृष्टवान् – 'कस्त्वम् ?'
'दुर्गपालस्य लक्ष्मणरावस्यैव पुत्रोऽस्म्यहम्' – इत्युक्त्वा स सर्वं सविस्तरं वर्णितवान् । कथनकाले तस्य नेत्राभ्यामविरलाश्रुधारा प्रवहन्त्यासीत् । स्वपितुरेतादृशं कुकृत्यं परिकल्प्य स उच्चै रुदितवान् ।
तस्य कथनं श्रुत्वा तात्याटोपे दिङ्मूढ एव जातः । धावन्निव गत्वा तं गाढमालिङ्गितवान् उक्तवांश्च - 'यस्यां मातृभूमौ त्वादृशा देशभक्ताः पुत्रा जाताः सा न दीर्घकालं परतन्त्रा स्थास्यति !'
तत्कालं च तात्यामहोदयः सैनिकान् सज्जान् कृतवान् । मध्यरात्रिपूर्वमेव दुर्गस्य परितः सैन्यं व्यवस्थापितवान् ।
तस्यां च रात्रौ विश्वासघातेनाऽऽक्रमणं कर्तुमुधुक्तानामाङ्ग्लानां स्वागतं तु जातमेव किन्तु न द्वाराण्युद्घाट्याऽपि तु गोलकास्त्रैः । आक्रान्तुमागतेभ्य आङ्ग्लेभ्यः कोऽपि नाऽजीवत् । लक्ष्मणरावस्तस्य च विश्वासघातिनः सहायका निगृहीताः ।
त्रयोदशवर्षदेशीयस्य रघुनाथस्य च नूतनदुर्गपालत्वेन नियुक्तिर्जाता ।
-X
१२३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org