________________
विवेकः समुद्भूतः - 'मम पितैव यदीदृग्रूपं विश्वासघातं कर्तुं शक्नोति तर्हि कोऽन्यो विश्वासार्हः स्यात् ?' इति ।
निराशया स हस्तौ भूमावास्फालितवान् । को मार्गोऽवलम्बनीय इति ज्ञातुं न प्रभवति स्म सः । 'किमथ करणीय'मिति चिन्तातुरः स जातः । तावत् सहसैवाऽऽङ्ग्लाधिकारिणमुद्दिश्य कथितं तस्य पितुर्वचनं स्मृतिपथमायातम् - 'दुर्गादष्टादशमीलदूरमरण्ये तात्याटोपे-इत्यस्य सैनिकानां शिबिरोऽस्ति' इति।
____ 'किन्तु नैतदन्तरं लघु ! किं तावद् दूरं गन्तुं शक्यम् ? तदपि च सायङ्कालात् पूर्वम् ? सन्देश एष किं तत्र प्रापयितुं शक्यः ?' - क्षणं तु अशक्यप्रायमाभात् तस्यैतत्कार्यम् ।
इदानीमेवाऽहं धावेयं चेत् ? - स विचारितवान् । अनन्तरक्षण एव वृक्षात् कूदितवान् । परितः किमप्यलक्षयित्वा स धावनमारब्धवान् । किन्तु कतिचिदन्तरं गत्वैव तस्य पादौ स्थगितौ । पितरं प्रति हृदि स्थितस्य मोहस्य शृङ्खलया तस्य पादौ बद्धाविव जातौ । स्थित एव स विचारितवान् – 'तात्याटोपे महोदयो यदैतत् ज्ञास्यति तदा पितुर्बन्धनमपि कुर्यात्, कदाचिन्मृत्युदण्डमपि दद्यात्' – एतादृशेन विचारमात्रेणैव कल्पनामात्रेणैव वा स स्वमातुर्वैधव्यं ततश्च दुःखितं तस्या मनोऽपि कल्पितवान् । हृदयं सन्तप्तं जातं, विश्वासोऽपि तस्य विचलितः, मनोऽपि शिथिलं जातम् । गमनमेव स्थगितवान् ।
___ "किन्त्वेषा हि स्वार्थमूलिका वृत्तिर्मम । ममैकस्या मातुः सुखाय कथं मातृभूम्या सहाऽन्यायः कर्तुं शक्यो मया ? भारतवर्षस्य स्वातन्त्र्यं त्वत्यावश्यकमस्ति । अस्यां पवित्रायां भूमौ देशद्रोहिणां विश्वासघातिनां च नाऽस्ति किमपि स्थानम् । भुवि भारभूता एते जनाः' - इति मोहमूलकान् विचारान् स स्वहृदयाद् दूरमपसारितवान् । मनो दृढं कृत्वा सर्वां शक्तिमुपयुज्य स शिबिरं प्रति धावितुमारब्धवान् ।
ज्येष्ठमासस्याऽग्नि वर्षयतीव मध्याह्नकाले रघुनाथ उच्चावचायां कण्टक-कर्कराकीर्णायामरण्यपदव्यां धावन्नासीत् । समग्रमपि शरीरं स्वेदक्लिन्नमासीत् । श्वासोऽपि भस्त्रे चलन्नासीत् । अक्ष्णो
र्दाहोऽप्यनुभूयते स्म । कण्ठशोषोऽप्यासीत् । धावन्नेव स पतितोऽपि बहुवारम् । पादौ श्रान्तावास्ताम् । तीक्ष्णानां पाषाणखण्डानामाघातेन तस्य पादाभ्यां रक्तमपि प्रवहितमासीत् । अतिश्रान्तः स आसीत् । किन्त्वस्तं गच्छन्तं सूर्यं दृष्ट्वा स द्विगुणेन वेगेन धावति स्म । बुभुक्षां तृषं परिश्रमं तापं चेत्यादिकं सर्वमपि स विस्मरति स्म । श्रान्तिमसहमान एव स कदाचित् क्षणं तिष्ठति स्म, किन्तु समयोऽल्प एवेति स्मृत्वा पुनर्धावनमारभते स्म ।
सूर्योऽपि शीघ्रतया पश्चिमाकाशं प्रति गच्छन्नासीत् । वेगेन चलता श्वासेन तस्य फुफ्फुसाः फुल्लिता जाता आसन् ।
___ सूर्योऽस्तं गतः । अन्धकारश्च शनैः शनैः प्रसृतः । चन्द्रोऽप्युदितः । चन्द्रस्य चन्द्रिकाप्रकाशमवलम्ब्य धावन् स शिबिरे प्राप्तवान् ।
१२२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org