SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ जीवनस्य मौर्यपूर्णतायाः पाठोऽवसानं यावत्, कटुकनैराश्यावाप्तिं यावच्च तेन शिक्षितो येन सुखगवेषकः परिग्रही च सिद्धार्थो नाशं प्राप्नुयात्, मृतो भवेत् । इदानीं स मृत आसीत् तत्स्थाने च गाढनिद्रातो जागृतोऽन्य एव सिद्धार्थं उद्भूत आसीत् । सोऽपि वृद्धो भूत्वा मरिष्यति । यतः सिद्धार्थो नश्वर आसीत्, सर्वाण्यपि स्वरूपाणि नश्वराणि आसन् । एवं सत्यपि अद्य स तारुण्येऽथवा बाल्ये वर्तमानो नूतनः सिद्धार्थ आसीत्, सर्वथा च सन्तुष्टः । एतादृशा विचारास्तस्य मस्तिष्के व्याप्ता आसन् । ततः स्मयमान स स्वोदरध्वनि श्रुतवान्, सकार्तश्यं च मधुमक्षिकाणां गुञ्जनं श्रुतवान् । ततः ससन्तोषं स प्रवहन्ती नदी विलोकितवान् । न कयाऽपि नद्या स तथाऽऽकृष्टोऽभवत् यथाऽनया । तथा न कदाऽपि प्रवहतो नीरस्य कलकलनादः स्वरूपं च तस्यैतादृशं मनोज्ञमभासत । नदी हि तस्य विशिष्टं किञ्चित् कथयन्तीव प्रतिभाता, तादृशं किञ्चित् यत् स नैव जानाति, यच्च तमद्याऽपि प्रतीक्षते । सिद्धार्थो हि नद्यामस्यां निमज्ज्य मर्तुमैच्छत् । अथ च स वृद्धः श्रान्तो हताशश्च सिद्धार्थोऽद्याऽस्यां नद्या पतित्वा निमग्न आसीत् । नूतनः सिद्धार्थस्तु प्रवहमानमेनं नीरं प्रति गाढानुरागं समन्वभवत् निरचिनोच्च यदितः स्थानान्नाऽचिरेण गन्तव्यमिति । ८३ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy