________________
५. नाविकः
'अहमत्रैव, नद्यास्तीर एव वत्स्यामि', सिद्धार्थश्चिन्तितवान् । 'सैवैषा नदी यामहं नगरगमनकालेऽतिक्रान्तवान् । एकः सौहार्दपूर्णो नाविको मामस्याः पारं प्रापितवान् । अहं तत्समीप एव गमिष्यामि । एकदा हि तस्य कुटीरान्नवं जीवनं प्रति मम पन्थाः प्रारब्ध आसीत् । तच्च जीवनमिदानीं जीर्णं विनष्टं चाऽस्ति । अथ च भवतु नाम मे इदानींतनः पन्थाः, नूतनं च जीवनं तत्कुटीरादेव पुनः प्रारभ्यताम् !'।
स प्रसन्नतया जलप्रवाहं, तस्य स्वच्छं हरितवर्णं, तथाऽद्भुतसंरचनापूर्णास्तस्य स्फटिकप्रभा रेखा निरीक्षितवान् । जलतलादुत्थिता प्रोज्ज्वलमौक्तिका इव जलबुदबुदा दर्पणवत्स्वच्छ जले तरन्त आसन् नीलवर्णमनन्ताकाशं च तेषु प्रतिबिम्ब्यते स्म । नदी किल तं प्रति लोचनसहौः - हरित-शुक्ल-नीलवर्णेविलोकयन्तीवाऽभासत । स नद्यां कियत् स्निह्यति स्म ! नद्यपि तं कियदाकृषति स्म ! नद्यै स कियत् कार्तश्यं वहति स्म !
तस्याऽन्तःकरणान्नूतनतयोत्थितो ध्वनिस्तं प्रेरयन्नासीत् – 'नद्यामेतस्यां स्निह्यतु, एतस्यास्तटे एव वसतु, नदीसकाशाच्च शिक्षताम्' । 'आम्' - तेनोक्तम् । स नद्याः सकाशाच्छिक्षितुमिच्छति स्म, स तां श्रोतुमिच्छति स्म । यः कोऽपि नदीमेनां तद्रहस्यानि चाऽवबुध्यति स बह्ववबोटुं शक्नोति; बहूनि रहस्यानि, ननु सर्वाण्यपि रहस्यानि तस्य कृते समुद्घाटितानि भवन्तीति तस्य प्रतिभातम् ।
परमद्य तु स नद्या केवलमेकतमद् रहस्यं वीक्षितवान्, तद् रहस्यं येन तस्याऽऽत्मा दृढतया धारितः । तेन निरीक्षितं यन्नदीजलं सातत्येन प्रवहमानमपि प्रतिक्षणं विवक्षितप्रदेशे उपस्थितमप्यासीत् । तद्धि सर्वदा समानमेव भवदपि प्रतिक्षणं नूतनमेवाऽभवत् । को वैतदवबुध्येताऽवधारयेद् वा? स स्वयमपि तन्नैवाऽवबुद्धवान्, केवलमव्यक्तो विकल्पोऽस्पष्टा स्मृतिदिव्याश्च ध्वनयस्तन्मनो व्याप्नुवन्ति स्म ।
सिद्धार्थोऽभ्युत्थितवान् । क्षुत्पीडेदानीमसह्या जायमानाऽऽसीत् । यथाकथमपि तां सहमानः स नदीतटे भ्रमन्नासीत्, जलतरङ्गाणां कलकलध्वनि शृण्वन्, स्वशरीरे जायमानं तीव्रक्षुद्वेदनाध्वनिं च शृण्वन् ।
___ यदा स घट्ट प्राप्तस्तदा तरणनौका तत्रैवाऽऽसीत्, तथा नाविको, येनैकदा तरुणः श्रमणः पारं प्रापितः, सोऽपि नौकायामुपविष्ट आसीत् । सिद्धार्थस्तं प्रत्यभिज्ञातवान् । सोऽपि च वयस्को जात आसीत् ।
'किं भवान् मां नदीपारं प्राययिष्यति ?' सिद्धार्थः पृष्टवान् । कञ्चन विशिष्टव्यक्तित्वशालिनं जनमेकाकिनं पादचारिणं च दृष्ट्वा विस्मितो नाविकस्तं नावि
८४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org