________________
नदन्तं स्वमुदरं श्रुतवान् । निराशां मृत्युं च प्रति यो नयेत् तादृशं शोकस्य दुःखस्य चांऽशं स पर्याप्ततयाऽऽस्वादितवानासीत् । तथाऽपि सर्वं शोभनमेवाऽऽसीत् । यदि किलैतन्नाऽभविष्यत्, सर्वथा हताशाया, विषादस्य, चिन्ताकुलतायाश्च चरमक्षणे यदि स स्वात्मघातार्थं जले पतितुं कृतसङ्कल्पो नाऽभविष्यत् तदा स कामस्वामिना सहैव चिरायाऽवत्स्यत्, धनार्जनं धनापव्ययं चाऽकरिष्यत्, आत्मानमुपेक्ष्य शरीरं चैवाऽपोषयिष्यत्, तथा चिराय तस्मिन् मृदुशय्यातुल्ये नरके न्यवत्स्यत् । तस्याऽन्तःकरणस्थितः पक्षी, ऊ/भवंश्च स्पष्टोऽन्तर्नादोऽद्याऽपि तस्मिन् सजीवन आसीत् । एतस्मात् कारणादेव स प्रसन्न आसीत्, हसन्नासीत्, पलिते च शिरसि सत्यपि तन्मुखं प्रोज्जवलमभासत ।
___पुनः स चिन्तितवान् – 'जनेन हि स्वजीवने सर्वमपि सम्यगनुभवितव्यम् । बाल्ये मयाऽधीतं यज्जागतिकानि सुख-समृद्ध्यादीनि सर्वथाऽप्रशस्तानीति । एतज्ज्ञानं चिराय मय्यासीत् किन्तु तस्याऽनुभवो हि मयाऽधुना कृतः । इदानीमहं केवलं बुद्ध्या तन्न जानामि किन्तु नयनाभ्यां, हृदयेन, कुक्षिणा चाऽपि तज्जानाम्यनुभवामि च । एतज्ज्ञानं ह्यवश्यं प्रशस्यमेव' ।।
एवं च स स्वस्मिन् जातस्य परिवर्तनस्य विषये चिराय चिन्तितवान् निजान्तःस्थितं च पक्षिणमानन्देन गायन्तं श्रुतवान्। किमयमन्तःस्थितः पक्षी मृत इति तेन नाऽनुभूतमासीत् ? नैव, किञ्चिदन्यदेव तस्याऽन्तःस्थितं मृतमासीत्, यस्य नाशस्तेन चिरादाकाङ्कित आसीत् । किं तत् तदेव नाऽऽसीद् यं नाशयितुं तेन संन्यस्तस्योत्साहपूर्णेषु वर्षेष्वेकदाऽऽकाङ्क्षितम् ? किं तत् तस्य स्वत्वं नाऽऽसीत् - लघु भीतभीतं चाऽपि गविष्ठं स्वत्वं - येन सह स वर्षाणि यावत् द्वन्द्वयुद्धं कृतवानासीत्, किन्तु यत् तं पौनःपुन्येन पराभूतवत्, यत् तस्य पुरतः पौनःपुन्येनाऽऽविर्भूतवत्, यच्च तस्य सुखं मोषित्वा तं भयेन पूरितवत् ? किं तदेतदेव नाऽऽसीत् यदन्ततो गत्वाऽद्य वनेऽस्या मनोरमाया नद्या उपकण्ठं विपन्नम् ? किमेतत् तस्य बाल्यं, विश्रम्भ-सुखपूर्णत्वं भयरहितत्वं च तद्विनाशेनैव नाऽवर्तत किल ?
सिद्धार्थोऽधुनैतदपि स्पष्टतया ज्ञातवान् यद् यदा स ब्राह्मणः श्रमणश्चाऽऽसीत् तदा तस्याऽनेन स्वत्वेन सङ्घर्षः किमर्थं विफलो भवति स्मेति । ज्ञानाधिक्येन, पवित्रमन्त्रोच्चारणाधिक्येन, यागादिकर्माधिक्येन, तपश्चर्याधिक्येन, एवं च सर्वत्राऽतिकरणेनाऽतिप्रवृत्त्या च स बद्धः प्रतिरुद्धश्च जात आसीत् । स हि सर्वदा, चतुरतमः सर्वदाऽन्येभ्यः पदमेकं वाऽप्यग्रे तिष्ठन्, सर्वथा सोत्साहः, सर्वदा ज्ञानी प्रज्ञावांश्च, सर्वदा च याजकः पण्डितश्च भवनत्यन्तं दध्मिातो जात आसीत् । तस्य स्वत्वं तस्य याजकत्वे, दर्प, ज्ञानोत्कर्षे चोपसपितमासीत् । ततश्च तपसा दुःखसहनेन च तस्य विनाशं चिन्तयति सिद्धर्थे तद् गाढतया स्थितं वृद्धिं च गतमिदानीं तेनाऽवबुद्धम्, इदमपि च, यन्न कोऽपि गुरुस्तं निर्वाणं प्रापयितुं मुक्तं वा कर्तुं समर्थः इति कथयन्नन्तः स्थितो ध्वनिः सर्वथाऽवितथोऽस्तीति ।
एतदर्थमेव - तस्य हृदये हठात् प्रविष्टो याजकः श्रमणश्च म्रियेत - इत्येतदर्थमेव तस्य संसारे गमनं, तत्रापि, चैश्वर्ये स्त्रियां धने च स्वविलोपनं, वाणिज्यकरणं, द्यूतखेलनं, मद्यपानं, परिग्रहकरणं च समभवत् । तथैतदर्थमेव हि च तेनैतावन्ति दुःखजनकानि वर्षाणि यापितानि, निर्वेदः सोढः, शून्यस्य भङ्गरस्य च
८२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org