SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ शिक्षितवान् । ततो महात्मनो बुद्धस्योपदेशमपि महता विस्मयेनाऽऽत्मसात् कृतवानहम् । विश्वैक्यं विश्वज्ञानं च मयि रक्तमिव प्रवहमानमनुभूयते स्म. । किन्तु तथाऽपि मयि बुद्धं तस्य भव्यं ज्ञानं च त्यक्तुमदम्या स्पृहा समुत्पन्ना । अहं ततो निर्गतवान् कमलायाः सकाशाच्च कामसुखं कथं प्राप्तव्यमिति शिक्षितवान्, वाणिज्यं च कामस्वामिनः सकाशात् । अहं धनस्य सङ्ग्रहमपि कृतवान् अपव्ययं चाऽपि । अहं श्रेष्ठं भोजनमास्वादितुं शिक्षितवान्, इन्द्रियाणि च विषयास्वादैरुत्तेजितवान् । एतत् सर्वं वर्षाणि यावत् कृतवानहं मम प्रज्ञां नाशितवान्, विश्वैक्यं विस्मृतवान्, चिन्तनशक्तिं चोच्छेदितवान् । किमेतन्न सत्यं यदहं शनैः शनैर्बहूंश्च भ्रंशाननुभूय प्रौढपुरुषात् पुनरपि बालकतया परावर्तितः खलु ? चिन्तकात् प्राकृतो जनोऽभवम् । तथा, एवं स्थितेऽपि चिन्तयामि यदयं मार्गः प्रशस्त एव, मम हृदये स्थितः पक्षी खल्वद्याऽपि न मृतः । किन्तु कीदृशोऽयं मार्गो, यत्र मया बहूनि मानि, बहूनि पापाचरणानि, बहूनि स्खलनानि समाचरितानि प्रभूतो निर्वेदः, भूयांश्च भ्रमः शोकश्चाऽनुभूतः । केवलं पुनरपि बाल्यप्राप्त्यै पुनरारम्भाय च । किन्तु, एतत् समुचितमेव जातम् । मेऽक्षिणी हसतो हृदयं च स्वीकुरुते । एतत् प्रति मया निराशाऽनुभवितव्याऽऽसीदेव, गहने विचारगर्ने निमज्जनीयमासीदेव, स्वात्मघातोऽपि च विचारणीय आसीदेव - किमर्थम् ? पुनः सौन्दर्यं प्राप्तुं, पुनः ओङ्कारं श्रोतुं, गाढतया शयितुं, याथार्थ्येन च पुनर्जागर्तुम् । मय्येव ममाऽऽत्मानं प्राप्तुं मया मौर्यमाचरणीयमेवाऽऽसीत् । पुनर्जीवनं प्राप्तुं मया पापाचरणं कर्तव्यमेवाऽऽसीत् । चिन्तयामि - अग्रे कुत्राऽयं मार्गो मां नेष्यति ? यतोऽयं पन्था अपि मन्ये मूर्ख एव । मन्ये स भ्रम्याकारेण व्रजति अथवा वृत्ताकारेण गच्छति । भवतु यथाकथमपि स व्रजतु नाम, अहं तमनुसरिष्याम्येव । ___ अपि च, तस्याऽन्तःकरणे आनन्दस्योत्सा एव समुच्छलन्ति स्मेति सततमनुभूतवान् सः । स स्वमेव पृष्टवान् - 'कुत एते समागच्छन्ति खलु ? किमर्थमहमानन्दौघमनुभवन्नस्मि । किमहं गाढतया शयितवानित्येतदर्थमहं तमनुभवामि वा ? अथवा ओङ्कारप्रभावादेष उद्गतोऽस्ति वा किम् ? किमथवाऽहं तस्मादसमञ्जसात् पलायितोऽस्मि पलायनं च मम सिद्धं जातमित्येतदर्थं वा, ततश्चाऽहं विमुक्तोऽभवं बालकवच्चाऽनन्ताकाशस्याऽधस्तात् सहजतया स्थितोऽस्मि - तदर्थं वा ? अहो ! मम पलायनं कीदृक् शुभं समस्ति, विमुक्तिश्चाऽपि । यस्मात् स्थानाच्चाऽहं पलायितस्तत्र तु सर्वदा तीव्रतमविलासस्योन्मादस्य प्रमादस्य च वातावरणमासीत् । अहं ह्युन्मतवत् तत्र मद्यपानं द्यूतक्रीडनं च कुर्वन्नपि कथं धनिकानां तादृशां जीवनं तिरस्कुर्वन्नासम् । कथं चाऽहं तत्र दारुणे जगति इयच्चिरायाऽवस्थितत्यर्थं स्वमेव धिक्कृतवान् ? कथं वाऽहं स्वमेव प्रतिघ्नन्, विषाक्तं कुर्वन्, संपीडयंश्च स्वयमेव वृद्धः कुरूपश्चाऽभवम् ? इतः परमहं 'सिद्धार्थश्चतुरोऽस्ती'ति न कदाऽपि कल्पयिष्ये मंस्ये वा । अथाऽपि केवलमेकमेव वस्तु मे रोचते, मया तत् सुष्ठवेव कृतमिति, एतच्चाऽहं सर्वथा प्रशंसामि - यन्मया निजस्य घृणामयस्य मौर्यपूर्णस्य सर्वथा रिक्तस्य च जीवनस्याऽन्तः कृतः । भोः सिद्धार्थ ! भवता बहूनां वर्षाणां मौर्यस्याऽनन्तरं पुनरपि एकवारं किञ्चिच्छुभं चिन्तितं, किञ्चित् साधितं, स्वहृदयस्थितस्य पक्षणिो गानं श्रुतं समनुसृतं च !' । एवं चिन्तयित्वा स स्वमेव प्रशंसितवान्, स्वात्मनैव सन्तुष्टो जातः, उत्सुकतया च क्षुत्क्षामत्वेन ८१ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy