SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ सस्मितं सिद्धार्थो गच्छन्तं भिखं विलोकितवान् । यद्यपि गाढनिद्रावशात् स प्रफुल्लितो जात आसीत् तथाऽपि द्विनद्वयाद् बुभुक्षित्वात् महती क्षुत् तं बाधते स्म, क्षुन्निरोधस्य तस्य सामर्थ्य तु भूतकालविषयीभूतमासीत्. । यद्यपि तस्यैतद् विचार्य दुःखमभवत् तथाऽपि सहासं स तं दिनं स्मृतवान् यदा स कमलायाः पुरतः स्वात्मश्लाघां कुर्वन् स्वस्य त्रीणि सामर्थ्यानि विकत्थितवानासीत् - त्रीण्यपि तानि विशिष्टानि दुरासदानि च नैपुण्यान्यासन् - उपवासः, प्रतीक्षा, विचारश्च । एतानि त्रीण्यपि तस्य वित्तमासीत्, तस्य बलं सत्त्वं दृढश्चाऽऽधारोऽपि । स्वीये परिश्रमपूर्णे व्यवसायतत्परे च तारुण्ये स एतान्येव त्रीणि नैपुण्यानि समभ्यस्तवानासीत् । किन्त्वधुना स तानि सर्वाण्यपि विनाशितवानासीत् । त्रयाणामेकतमदपि तस्य स्वाम्ये नाऽऽसीत् - नोपोषणं, न धैर्य, नाऽपि च विचारणम् । सोऽन्येषां क्षणिकानां तुच्छानां चेन्द्रियसुख-वैभवशालिजीवन-धनार्जनादिवस्तूनां कृते त्रयाणामप्येतेषां विनिमयं कृतवानासीत् । कस्मिंश्चिदसङ्गतेन मार्गेण स प्रस्थितवान्, साम्प्रतं च, प्रतिभाति यत् स खलु कश्चन प्राकृतजनः संवृत्तोऽस्ति । स स्वीयां परिस्थिति विमर्शितुमिष्टवान् । किन्तु विचारणं तस्याऽत्यन्तं कठिनं प्रतिभाति स्म । तस्य मनो विचारणे नैव युज्यते स्म, तथाऽपि स बलात् स्वं विचारणे प्रेरितवान् । ___ स चिन्तितवान् - अद्यैतानि सर्वाण्यपि क्षणिकानि वस्तूनि मे हस्तच्युतान्यभवन् । यथा बाल्यकाले तथाऽद्याऽप्यहमेकल एव सूर्यस्य विशालस्य च नभसोऽधस्तात् स्थितोऽस्मि । किञ्चिदपि मदीयं नास्ति, अहं किञ्चिदपि नैव जानामि, कुत्राऽपि मम स्वाम्यं नास्ति, किञ्चिदपि च खलु नैव शिक्षितं मया । ननु कियद् विचित्रमेतत् - इदानीं, यदाऽहं वार्धक्यपथे सञ्चरितोऽस्मि, मम केशाः शीघ्रं पलिता जायमानाः सन्ति, सामर्थ्यं च क्षीयमाणमस्ति, तदा पुनरप्यहं बालकवदारम्भं कुर्वन्नस्मि । स पुनरपि स्मितं कृतवान् । आम्, तस्य नियतिर्हि विचित्राऽऽसीत् । स प्रतीपं गच्छन्नासीत् । स पुनरपि रिक्त इव, विवसन इव, बोधरहित इव जगति स्थित आसीत् । किन्त्वेतदर्थं तस्य शोको नाऽऽसीत्, प्रत्युत तन्मनस्युच्चैर्हसितुमिच्छा जाता स्वं प्रत्येव हसितुं तथा मूर्खस्यैतज्जगतः प्रति हसितुमिच्छा जाता। 'भोः ! सर्वाण्यपि वस्तूनि तव कृते निम्नमेव गच्छन्ति सन्ति' - स स्वगतमेवोक्तवान् हसितवांश्च । उक्तमात्र एव तस्य दृष्टिर्नद्याः प्रवाहे पतिता, तेन विलोकितं च यन्नद्यपि सोल्लासं गायन्ती सातत्येन निम्नमेव प्रवहमानाऽऽसीत् । दृश्यमेतत् तमतिमात्रेणाऽतोषयत् । स सानन्दं नदी प्रति स्मितवान् । किमेषैव न सा नद्यासीत् यस्यां स एकदा निमज्जितुमिष्टवान् - वर्षशतेभ्यः पूर्वम् ? - अथवा तत् तेन स्वप्ने दृष्टमासीत् खलु ? ___'कीदृशं विचित्रं जीवनं मम जातं खलु ?' - सोऽचिन्तयत् । 'अहं ह्यज्ञातेषु पथिषु सञ्चरितवान् किल ! ! बाल्येऽहं देवताकार्येषु यागादिषु च निरत आसम् । तारुण्ये वैराग्यं धारयन्नहं चिन्तने ध्याने च निष्ठोऽभवम् । ततोऽहं ब्रह्मणोऽन्वेषणे उद्युक्तवान्, शाश्वतं च स्वात्मानमेवोपासितवान् । यौवने ह्यात्मविशुद्ध्यर्थं प्रयतितवानहम् । अरण्ये निवसन्नहं शीत-तापौ विसोढवान्, उपोषणमभ्यस्तवान्, स्वीयं देहं च जेतुं ८० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy