________________
परिहितानि, भवत उपानही श्रेष्ठौ स्तः, केशाश्च भवतः सुगन्धिनः परिकर्मिताश्च सन्तो न कस्यचिच्छ्रमणस्य यात्रिणो वा प्रतिभान्ति' ।
'भवता सूक्ष्म निरीक्षणं कृतं मित्र !, भवतो दृष्टिपथे सर्वमपि समागतम् । किन्तु, अहं श्रमणोऽस्मीत्येतत् तु नैव कथितं मया खलु ! । मयोक्तं यदहं यात्रिकोऽस्मीति, एतच्च सर्वथा तथ्यम्' ।
'भवतु, भवान् यात्रिकोऽस्तीति मन्येऽहम् । किन्तु, अल्पा एव केचनैतादृशैर्वस्त्रैरीदृशैरुपानहैरीदृक्षैश्च केशैर्यात्रां कुर्वन्ति ननु ! । योऽहं वर्षेभ्यो देशेषु परिभ्रमणं करोमि तेनाऽपि न कदाचिदीदृशो यात्रिको दृष्टचरः'।
'अहं भवदुक्तमङ्गीकरोमि गोविन्द !, परन्तु, अद्य हि भवतैतादृशो यात्रिकस्तथैतादृशवस्त्रोपानहादिधारकोऽपि दृष्टोऽस्ति । अपि च, स्मरतु भवान् प्रियमित्र ! दृश्यमानमिदं जगद्धि सर्वथा क्षणभङ्गुरमस्ति, अस्माकं वस्त्र-केशादीनां रीतयोऽपि क्षणिकाः, किञ्चाऽस्माकं केशाः शरीरमपि च क्षणविनश्वराणि । भवतो निरीक्षणं सर्वथाऽवितथम् । मया धारितानि वस्त्राणि धनिकजनस्यैव, तथाऽहमपि तानि धारयामि यतोऽहमपि धनिक आसम् । तथा मम केशोपानहोऽपि धनिकानामिव आधुनिकशैलीकाः सन्ति यतोऽहमपि जागतिकजनानां धनिकानां चाऽन्यतम आसम्' ।
'तर्हि, अधुना को वा. भवान् अस्ति ?'
'अहं नैव जानामि, अथवा भवानिवाऽहमप्यत्यल्पं जानामि । अहं यात्रापथे प्रवृत्तोऽस्मि । सत्यमहं धनिक आसम्, किन्त्वधुना नैवाऽस्मि, तथा श्वः किं भविष्यामीत्यपि न जानामि' ।
'किं भवता स्ववैभवं हारितं वा ?'
'मया तद् हारितमुत तेनाऽहं हारितः - इति तु नैव जानामि । आभासानां चक्रं त्वरितं भ्राम्यति, गोविन्द ! । अद्य ब्राह्मणः सिद्धार्थः कुत्राऽस्ति, श्रमणः सिद्धार्थः कुत्राऽस्ति, ऐश्वर्यवान् सिद्धार्थश्च कुत्राऽस्ति ? क्षणिका भावाः सततं सत्वरं च परावर्तमाना भवन्ति । एतत्तु गोविन्द ! भवान् जानात्येव खलु !' ।
- एतन्निशम्य गोविन्दश्चिराय साशङ्ख स्वयौवनकालीनं मित्रं निरीक्षितवान् । तत उच्चपदस्थितं यथा कश्चन नमति तथा स सिद्धार्थं प्रणम्य स्वपथे प्रवृत्तोऽभवत् ।
सस्मितं सिद्धार्थस्तं गच्छन्तं निरीक्षितवान् । सोऽद्याऽपि तं, विश्रब्धमुत्सुकं च स्वमित्रं प्रीणाति स्म । तथाऽस्मिन् प्रशस्ये क्षणे, तादृशाद्भुतनिद्रानन्तरं, सर्वथौङ्कारेणाऽऽप्लावितः स सर्वं सर्वांश्चाऽप्रीणन् कथं स्थातुं शक्नुयात् ? एष चमत्कारश्च तस्या अद्भुतनिद्राया मध्ये, ओङ्कारस्य च प्रभावेण सञ्जातो यत्कारणात् स सर्वमपि प्रीणाति स्म । यदपि तस्य दृष्टिपथे समायाति तत् सर्वं प्रति तस्य स्नेहोऽकारणमेवोल्लसतीति सोऽनुभवति स्म । तेनैतदपि लक्षितं यत् पूर्वं स कञ्चिदपि किञ्चिदपि च नैव प्रीणाति स्मेत्येतदर्थमेव सोऽस्वस्थो भवति स्मेति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org