SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ किन्तु योऽहं भवद्रक्षार्थमत्र स्थित आसम्, सोऽहमेव निद्रावशगोऽभवम् । ततश्च भवत्यवधानं दातुं न शक्तोऽभवम् । तथाऽपि, अधुना तु भवान् जागृतोऽस्ति, अतो मया गन्तव्यं मम सहयात्रिणश्चाऽऽसादनीयाः'। ___ 'श्रमण ! मम निद्राकाले मां रक्षितुं यद् भवानुपविष्टस्तदर्थमहं भवत उपकारं मन्ये । महात्मनो बुद्धस्याऽनुयायिनो हि स इव करुणापूर्णहृदया एव भवन्ति । किन्त्वधुना भवान् स्वयात्रामनुवर्तितुमर्हति' - सिद्धार्थो मृदुतयोक्तवान् ।। 'अहं गच्छामि किल । भवान् स्वं निभालयतु' । 'उपकृतोऽस्मि भोः श्रमण !' । किञ्चिदवनम्य गोविन्दोऽवदत् - 'पुनर्मिलनाय' - इति । तदा सिद्धार्थोऽपि – 'पुनर्मिलनाय गोविन्द !' - इत्यवदत् । एतच्छ्रुत्वा गोविन्दः स्तब्धोऽभवत् । 'क्षम्यतां भोः !, किन्तु भवान् मम नाम कथं जानाति ?' 'सिद्धार्थो हसित्वा कथितवान् – 'भोः गोविन्द ! अहं भवन्तं भवतः पितृगृहात्, ब्राह्मणविद्यालयात्, यज्ञेभ्यः, श्रमणानामन्तिके दीक्षा ग्रहणकालात् तथा जेतवनविहारे महात्मबुद्धपार्वे भवतो भिक्षुकत्वाङ्गीकारकालाज्जानामि' । 'अहो ! भवान् सिद्धार्थोऽस्ति खलु !' – गोविन्द उच्चैराराटीत् । 'इदानीमहं भवन्तं प्रत्यभिज्ञातवान् । एतत्तु नाऽवगच्छामि यत् किमर्थं मया भवान् झटित्येव नाऽभिज्ञातः । नमस्ते सिद्धार्थ ! पुनरपि भवन्तं दृष्ट्वा भृशं प्रमुदितोऽस्म्यहं किल' । 'अहमपि भवन्तं बहोः कालाद् दृष्ट्वा नितरां हृष्टोऽस्मि । अपि च, भवताऽहं निद्रायमाणो निरीक्षितोऽस्मि । एतदर्थं पुनरपि कृतज्ञोऽस्मि । यद्यपि मे रक्षणस्याऽऽवश्यकता नाऽऽसीत् । भवतु । परं मित्र ! भवान् कुत्र प्रस्थितोऽस्ति ?' | 'अहो ! अहं कुत्राऽपि न प्रस्थितः । वयं साधवः सर्वदा यात्रारता एव वर्तामहे । केवलं प्रावृषि एकत्र तिष्ठामः । अन्यत्र काले तु स्थानात् स्थानं परिभ्रमणं कुर्मः, सङ्घशासनानुसारं जीवामः, जनानुपदिशामः, भिक्षया वृत्तिं कुर्मः पुनरपि च यात्रामनुवर्तामहे । एवं च सर्वदा वरीवति । किन्तु सिद्धार्थ ! भवान् कुत्र प्रस्थितोऽस्ति ?'। सिद्धार्थोऽचकथत् – 'ममाऽपि वृत्तं भवता तुल्यमेव मित्र ! । अहमपि न कुत्राऽपि प्रस्थितः । अहमपि यात्रारतः सन् परिभ्रमणे उद्यतोऽस्मि' । गोविन्देनोक्तम् - ‘एवं वा ? भवतु, यदि भवान् कथयति यदहं यात्रारतोऽस्मीति - तदहं विश्वसिमि । किन्तु क्षम्यतां सिद्धार्थ ! भवान् यात्रिको न दृश्यते । यतो भवता धनिकवन्महा_णि वस्त्राणि ७८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy