SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ चाऽत्राऽऽगतः इति । अस्मिंश्च स्मरणे तस्य भूयान् समयो व्यतीतः । तस्याऽतीतं जीवनमिदानीमत्यन्तं दूरवर्तीव घनावरणाच्छादितमिव सर्वथा महत्त्वशून्यमिव चाऽभासत । एतावदेव तस्य ज्ञातं यत् तत् पूर्वतनं जीवनं (यस्मिन् क्षणे स जागृतोऽभवत् तस्मिन् क्षणे तस्य पूर्वतनं जीवनं वर्तमानस्वत्वस्य बहुदूरवति जन्म इवाऽभासत) समाप्तमिदानीं, यत् केवलं निर्वेदपूर्णं निकृष्टतमं चाऽऽसीत्, यच्च स विनाशयितुमेवेष्टवान्, किन्तु तदर्थमिह नद्यास्तीरे नालिकेरवृक्षस्याऽधस्तात् समागतः सोऽकस्मात् पवित्रं मन्त्राक्षरम् 'ओम्' इति उच्चारयन्नेव सर्वमपि विस्मृत्य गाढनिद्रायां सुप्तवान् । जागृतश्च सन् पुनर्जन्म प्राप्त इव जगदिदं नवागन्तुक इव वीक्षितवान् । ___पुनरपि स मृदुतया ओम् - इत्युच्चारितवान् । तस्य प्रतिभातं यत् समग्रेऽपि निद्राकाले ओम्जपस्तन्मनसि वरीवर्तित एव, ओङ्कारस्यैव विचारः, नाम-रूपरहिते दिव्ये ओङ्कार एव निमज्जनं व्यापनं चाऽपि । कीदृशमद्भुतं स्वपनं तद् आसीत् । कदाऽपीदृशी निद्रा तेन कदाऽपि नाऽनुभूता यया एतावानाह्लाद एतावन्नवजीवनं एतावच्चाऽऽप्यायनं प्राप्तं स्यात् । किं स वस्तुतो नद्यां निमज्ज्य मृत्युं प्राप्तः, पुनश्च नवावतारेणाऽत्रोपस्थित आसीद् वा ? नैव, स स्वं प्रत्यभिज्ञातवान्, स स्वीयं हस्त-पादं प्रत्यभिज्ञातवान्, स तत्स्थलमपि प्रत्यभिज्ञातवान् यत्र स शयित आसीत् तथा स स्वहृदयस्थं सिद्धार्थं - स्वैरिणं विलक्षणं सिद्धार्थं चाऽपि प्रत्यभिज्ञातवान् । किन्त्वयं - प्रस्तुतः सिद्धार्थस्तु किञ्चिदिव परावृत्तः पुनर्नवीभूतश्चाऽऽसीत् । नूनं सोऽद्भुततया शयितवान्, ततश्च विशेषतो जागृतः प्रसन्नो विस्मयमुग्धश्चाऽऽसीत् । ___ यदा सिद्धार्थ उत्थितस्तदैव तस्य दृष्टिः पुरत उपविष्टे काषायवस्त्रधारिणि मुण्डितशिरसि साधौ पतिता, यः किल विचारमग्न आसीत् । केश-श्म,वादिरहितं तं वीक्ष्याऽचिरमेव स प्रत्यभिज्ञातवान् यदयं मे बाल्यकालीनः सुहृद् गोविन्दोऽस्ति यो हि महात्मनो बुद्धस्य सङ्के भिक्षुत्वं स्वीकृतवानासीत् । यद्यपि सोऽपि वयस्को जात एव तथाऽपि तस्य वदने पुरा विलसन्ति लक्षणानि साम्प्रतमपि विलोक्यन्ते स्मैव, यथा - औत्सुक्यं, निष्ठा, जिज्ञासा, व्यग्रता च । किन्तु यदा गोविन्दस्तस्य दृष्टिपातमनुभूय स्वनेत्रे उन्मीलितवान् तं च दृष्टवान् तदा सिद्धार्थेनाऽवगतं यद् गोविन्दस्तं नैव प्रत्यभिज्ञातवान् - इति । गोविन्दस्तु तं जागृतं दृष्ट्वा प्रसन्नोऽभवत् । यद्यपि स तं नैवाऽभिज्ञातवान् तथाऽपि एतत्तु स्पष्टमासीत् यत् स तस्य जागरणमेव प्रतीक्षमाणश्चिरादुपविष्ट आसीत् । 'अहं निद्रायमाण आसम् । किन्तु भवानत्र कथमागतः ?' – सिद्धार्थोऽप्राक्षीत् । गोविन्द उत्तरितवान् – 'भवान् निद्रालीन आसीत् । किन्त्वरण्येऽस्मिन् श्वापदसर्पाद्याकुले एवं निद्रातुं नैवोचितम् । अहं हि महात्मनः शाक्यमुने!तमबुद्धस्य शिष्याणामन्यतमोऽस्मि सङ्घन च सह यात्रार्थं प्रस्थितोऽस्मि । यदाऽहं भवन्तं भयाकुलेऽत्र स्थले शयानं वीक्षितवान् तदा भवन्तं जागरयितुमिष्टवान् । किन्तु भवान् गाढनिद्रामग्न आसीत्, अतोऽहं सहयात्रिणो विहायाऽत्रैवाऽवस्थितो भवत्पावे च रक्षार्थमुपविष्टः । ७७ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.521032
Book TitleNandanvan Kalpataru 2014 04 SrNo 32
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2014
Total Pages154
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy